Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.118.1

सुरभेः काः प्रजाः पूर्वं मार्ताण्डादभवन्पुरा ।
एतन्मे शंस तत्वेनि गोषु मे प्रीयते मनः ॥ १३.११८.१ ॥

往昔从苏罗跋与太阳摩罗檀陀所生的子嗣是哪些?请如实告诉我,因为听闻关于牛的事,我的心便欢喜。

13.118.2

शृणु नामानि दिव्यानि गोमातॄणां विशेषतः ।
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिर्जनाधिप ॥ १३.११८.२ ॥

人主啊,请听那些神圣的牛母之名,尤其是那些吉祥者,三界因她们而遍满。

13.118.3

सुरभ्यः प्रथमोद्भूता याश्च स्युः प्रथमाः प्रजाः ।
मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः ॥ १३.११८.३ ॥

最初诞生的苏罗跋们,以及作为首要子嗣的她们,我将为你讲述;请听,你将获得广大的名声。

13.118.4

तप्त्वा तपो घोरतपाः सुरभिर्दिप्ततेजसः ।
सुषावैकादश सुतान्रुद्रा ये च्छन्दसि स्तुताः ॥ १३.११८.४ ॥

苏罗跋以可怕的苦行修持,光辉熠熠,生下十一个儿子,即吠陀中被赞颂的楼陀罗们。

13.118.5

अजैकपादहिर्बुध्न्यस्त्र्यम्बकश्च महायशाः ।
वृषाकपिश्च शम्भुश्च कपाली रैवतस्तथा ॥ १३.११८.५ ॥

不生一足、龙脚、名声远扬的三目、牛猴、吉祥、持髑髅者,以及莱瓦塔,皆如此。

13.118.6

हरश्च बहुरूपश्च उग्र उग्रोऽथ वीर्यवान् ।
तस्य चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥ १३.११८.६ ॥

诃罗与多形,猛烈与猛烈,然后是有力者;他的儿子光辉的毗湿伐罗跋,大名远扬。

13.118.7

एकादशैते कथिता रुद्रास्ते नाम नामतः ।
महात्मानो महायोगास्तेजोयुक्ता महाबलाः ॥ १३.११८.७ ॥

这十一位楼陀罗已被逐一按名道出:他们心胸广大,具有大瑜伽力,充满光辉,拥有大力量。

13.118.8

एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् ।
विप्राणां प्रकृतिर्लोके एत एव हि विश्रुताः ॥ १३.११८.८ ॥

这些在诸神中出身最为尊贵的梵语宣说者,确实是世间婆罗门的本性,因为他们名声远扬。

13.118.9

एत एकादश प्रोक्ता रुद्रास्त्रिभुवनेश्वराः ।
शतं त्वेतत्समाख्यातं शतरुद्रं महात्मनाम् ॥ १३.११८.९ ॥

这十一位楼陀罗被宣说为三界之主;这便是对诸大心者'百位楼陀罗'的叙述。

13.118.10

सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा ।
विश्वकामदुघा धेनुर्या धारयति देहिनः ॥ १३.११८.१० ॥

那时苏罗婆生下了第一个女儿——大地;那只能满足一切愿望的神牛,正是支撑有身众生的存在。

13.118.11

सुतं गोब्राह्मणं राजन्नेकमित्यभिधीयते ।
गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते ॥ १३.११८.११ ॥

王啊,有一子名为'牛-婆罗门';牛-婆罗门的母亲被称为苏罗婆。

13.118.12

सृष्ट्वा तु प्रथमं रुद्रान्वरदान्रुद्रसम्भवान् ।
पश्चात्प्रभुं ग्रहपतिं सुषुवे लोकसम्मतम् ॥ १३.११८.१२ ॥

她先生出从楼陀罗而生、施予恩惠的诸楼陀罗,随后又生下了为诸世所尊敬的主宰——行星主。

13.118.13

सोमराजानममृतं यज्ञसर्वस्वमुत्तमम् ।
ओषधीनां रसानां च देवानां जीवितस्य च ॥ १३.११८.१३ ॥

月王苏摩、不死者、祭祀的全部精华、至高者、草药之汁,以及诸神的生命。

13.118.14

ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् ।
चतस्रः सुषुवे कन्या योगेषु नियताः स्तिताः ॥ १३.११८.१४ ॥

随后他生出四位少女:吉祥天(Śrī)、慧(Medhā)、名称(Kīrti)以及女神萨罗室伐底(Sarasvatī),她们在瑜伽中安住而持守。

13.118.15

एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी ।
सुषुवे परमं भूयो दिव्या गोमातरः शुभाः ॥ १३.११८.१५ ॥

苏罗毗(Surabhi)能随意变化形相,她创造了这些众生之后,又生出了至为神圣吉祥的牛母。

13.118.16

पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् ।
हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् ॥ १३.११८.१६ ॥

神圣的普尼亚(Puṇyā)、摩耶(Māyā)、滴蜜的湿婆(Śivā)、迅捷的施伽拉(Śīghrā)、河流中最殊胜者、金色的苏婆伽(Subhagā)、迦维亚(Gavyā)、普里什尼(Pṛśnī)与古他婆提(Kuthāvatī)。

13.118.17

अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् ।
अमोघां सुरमां सत्यां रेवतीं मारुतीं रसाम् ॥ १३.११८.१७ ॥

盎伽伐蒂(Aṅgāvatī)、富含酥油者、富含凝乳乳汁者、不空者、芬芳的苏罗跋(Surabhā)、真实的萨提亚(Satyā)、Revatī、Mārutī与Rasā。

13.118.18

अजां च सिकतां चैव शुद्धधूमामधारिणीम् ।
जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् ॥ १३.११८.१८ ॥

阿闍(Ajā)与悉喀多(Sikatā)、清烟者(Śuddhadhūmā)与持者(Adhāriṇī)、生命(Jīvā)、具气息者(Prāṇavatī)、吉祥者、清净的乳牛,带来财富者。

13.118.19

इन्द्रामृद्धिं च शान्ति च शान्तपापां सरिद्वराम् ।
चत्वारिंशतिमेकां च धन्यास्ता दिवि पूजिताः ॥ १३.११८.१९ ॥

因陀罗、繁荣与寂静、息罪者、诸河之最——这四十一者皆为吉祥,在天界受到供奉。

13.118.20

भूयो जज्ञे सुरभ्याश्च श्रीमांश्चन्द्रांशुसप्रभः ।
वृपो दक्ष इति ख्यातः कण्ढे मणितलप्रभः। ॥ १३.११८.२० ॥

苏罗毗又生出一头光辉耀眼、如月光般明亮的雄牛;它以达刹之名闻名,颈上有如宝石表面般的光泽。

13.118.21

स्रग्वी ककुद्मान्द्युतिमान्मृणालसदृशप्रभः ।
सुरभ्यनुमते दत्तो ध्वजो माहेशअवरस्तु सः ॥ १३.११८.२१ ॥

佩戴花环、有肉峰、光辉灿烂、光泽如莲茎——经苏罗毗同意,他被赐为旗帜;他是摩诃提婆(湿婆)最优秀的公牛。

13.118.22

सुरभ्यः कामरूपिण्यो गावः पुण्यार्थमुत्कटाः ।
आदित्येभ्यो वसुभ्यश्च विश्वेभ्यश्च ददौ वरान् ॥ १३.११८.२२ ॥

能随意变化形态的苏罗毗神牛,因功德而卓越,赐予阿底提耶、婆苏和诸毗奢天以恩赐。

13.118.23

सुरभिस्तु तपस्तप्त्वा सुषुवे गास्ततः पुनः ।
या दत्ता लोकपालानामिन्द्रादीनां युधिष्ठिर ॥ १३.११८.२३ ॥

苏罗毗修苦行后,又生出牝牛,这些牛被赐予诸世界守护者,即因陀罗等,俱卢王子,啊,坚战。

13.118.24

सुष्टुनां कपिलां चैव रोहिणीं च यशस्विनीम् ।
सर्वकामदुघां चैव मरुतां कामरूपिणीम् ॥ १३.११८.२४ ॥

苏室吐那、迦毗罗,以及声名远播的罗希妮——她能挤出一切所愿,是摩录多诸神中能随意变化形态的神牛。

13.118.25

गावो मृष्टदुघा ह्येतास्ताश्चतस्रोऽत्र संस्तुताः ।
यासां भूत्वा पुरा वत्साः पिबन्त्यमृतमुत्तमम् ॥ १३.११८.२५ ॥

这些母牛产出甘甜的乳汁;此处赞颂这四头,昔日它们的牛犊饮用了至上的甘露。

13.118.26

सुष्टुतां देवराजाय वासवाय महात्मने ।
कपिलां धर्मराजाय वरुणाय च रोहिणीम् ॥ १३.११८.२६ ॥

为众神之王、大德的婆薮所赞颂之牛;为法王之牛是迦毗罗,为伐楼那之牛是罗希尼。

13.118.27

सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च ।
इत्येता लोकमहिता विश्रुताः सुरभेः प्रजाः ॥ १३.११८.२७ ॥

能满足一切愿望的牛给国王和毗沙罗婆那(俱毗罗)。如此,这些为世界所尊崇的,是苏罗婆之著名的后代。

13.118.28

एतासां प्रजया पूर्णा पृथिवी मुनिपुङ्गवः ।
गोभ्यः प्रभवते सर्वं यत्किंचिदिह शोभनम् ॥ १३.११८.२८ ॥

大地充满了它们的后代;牛啊,最优秀的仙人,此间一切吉祥之物皆由牛而生。

13.118.29

सुरभ्यपत्यमित्येतन्नामतस्तेऽनुपूर्वशः ।
कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते ॥ १३.११८.२९ ॥

如此,苏罗婆的后代已依名字依次为你述说。王中之王啊,请说,我还要为你讲什么?