Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.120.1

कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा ।
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः ॥ १३.१२०.१ ॥

那名叫Phenapa的人是谁?他从前是如何被吞食的?他死后又如何复活,并如何进入了戈洛卡?

13.120.2

विरुद्वे मानुषे लोके तथा समयवर्त्मसु ।
क्रते दैवं हि दुष्प्रपं मानुषेषु विशेषतः।
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि ॥ १३.१२०.२ ॥

即使人间世界与之相违,即使在时序的轨道上,即使已经行事,天命对人而言也难以获得,尤其对人类如此。我在此有大的疑惑,您应当为我解释。

13.120.3

श्रूयते भार्गवे वंशे सुमित्रो नाम भारत ।
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः ॥ १३.१२०.३ ॥

婆罗多啊,听说在婆利古族中有一人名叫苏弥多罗,精通吠陀的学习,安住于广大的苦行之中。

13.120.4

वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा ।
विनयाचारतत्वज्ञः सर्वधर्मार्थकोविदः ॥ १३.१२०.४ ॥

专心于林栖期,常常持守自己的职责,通晓谦逊品行的真谛,精通一切法与义。

13.120.5

यत्नात्त्रिषवणस्नायी संध्योपासनतत्परः ।
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदाः ॥ १३.१२०.५ ॥

勤勉地在三个时辰沐浴,专心于晨昏的礼拜,致力于火祭,安忍,持诵并献上供物,每日行布施。

13.120.6

पितृदेवांश्च नियतमतिर्थींश्च स पूजयन् ।
प्राणसन्धारणार्थं च यत्किंचिदुपहारयन् ॥ १३.१२०.६ ॥

心志坚定,礼敬祖先、诸神与客人,并献上任何可以维持生命的供物。

13.120.7

गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी ।
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता ॥ १३.१२०.७ ॥

从名为三峰的山中发源一条河,在往世书中以Kulajā之名闻名,为楼陀罗所造。

13.120.8

तस्यास्तीरे समे देशे पुष्पमालासमाकुले ।
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते ॥ १३.१२०.८ ॥

在其岸边一处平坦之地,满是花环,生长着野生药草和树木,遍布众多飞禽与鹿群。

13.120.9

व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते ।
कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि ॥ १३.१२०.९ ॥

没有牛虻和蚊子,乌鸦和秃鹫不至,遍生黑色吉祥草,极为优美,有发光的石头。

13.120.10

सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते ।
तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा। ॥ १३.१२०.१० ॥

四周环绕着高大、整齐、深色的祭祀树木,那里从前是婆利古族的圣洁修行处。

13.120.11

उवास तत्र नियतः सुमित्रो नाम भार्गवः ।
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना ॥ १३.१२०.११ ॥

那里住着一位自制的婆利古后裔,名叫苏弥多罗,他遵行先祖婆利古所指示的善道。

13.120.12

तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम् ।
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः ॥ १३.१२०.१२ ॥

在雨季最后一月的满月之日,一位安吉罗娑族人将一头吉祥的沙卡里母牛布施给他,他持守清净誓愿。

13.120.13

स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः ।
सुमित्रः परया भक्त्या जननीमिव मातरम् ॥ १३.१२०.१३ ॥

得到她后,持法者专心思虑;善友以至诚的虔敬,视她如同自己的生母。

13.120.14

तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी ।
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना ॥ १३.१२०.१४ ॥

被他激发的那位罗希尼,能随意变化形貌,增长为最殊胜者;以生命之气而显得美妙。

13.120.15

सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत् ।
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला ॥ १३.१२०.१५ ॥

两胁与末端无筋络,她承载着广大的光辉;那芳香者两胁、末端与背部黝黑,呈蜜黄色。

13.120.16

बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा ।
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा ॥ १३.१२०.१६ ॥

她是那广大者,边缘有细毛,形貌卓越,皮薄,尾黑,面白,乳房匀称圆润。

13.120.17

पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना ।
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा ॥ १३.१२०.१७ ॥

背部高耸,前部低垂,耳如木桩,眼睛美好,舌头长,角短,牙齿完整。

13.120.18

मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना ।
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना ॥ १३.१२०.१८ ॥

咽喉边缘肉多,她安详而令人见之吉祥;常怀寂静,柔顺,声音圆满而高亮。

13.120.19

प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता ।
यौवनस्थेव वनिता शुशुभे रूपशोभया ॥ १३.१२०.१९ ॥

她由生主所造,常具殊胜之相,以形貌之光彩闪耀,如同青春年少的女子。

13.120.20

वृषेणोपगता सा तु कल्या मधुरदर्शना ।
मिथुनं जनयामास तुल्यरूपमिवात्मनः ॥ १३.१२०.२० ॥

那头吉祥、外貌甜美的母牛与一头公牛交合,生下一对与自己形貌相同的孪生者。

13.120.21

संवर्धयामास स तां सवत्सां भार्गवो मुनिः ।
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत् ॥ १३.१२०.२१ ॥

婆利古仙人将她与小牛一同抚育;由于彼此后代的交合,牛的数目增至千头。

13.120.22

गवां जातिसहस्राणि सम्भूतानि परस्परम् ।
ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते ॥ १३.१२०.२२ ॥

大王啊!牛与公牛的千万种类彼此而生,看不到尽头。

13.120.23

तैराश्रमपदं रम्यमरण्यं चैव सर्वशः ।
समाकुलं समभवन्मेघैरिव नभस्थलम् ॥ १३.१२०.२३ ॥

于是那可爱的修行处与整座森林都被它们填满,犹如天空布满了云。

13.120.24

कानि चित्पद्मवर्णानि किंशुकाभानि कानिचित् ।
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च ॥ १३.१२०.२४ ॥

有的如莲花之色,有的如金合欢花,有的金色,还有的如月光一般。

13.120.25

तथा राजतवर्णानि कानिचिल्लोहितानि वै ।
नीललोहितताम्राणि कृष्णानि कपिलानि च।
नानारागविचित्राणि यूथानि कुलयूथप ॥ १३.१२०.२५ ॥

同样,有些呈银色,有些呈红色,有些呈深蓝红色和铜色,有些呈黑色,有些呈棕黄色;牛群色彩斑斓,还有各族牛群的首领。

13.120.26

न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति ।
भार्गवः केवलं चासीद्गवां प्राणायने रतः ॥ १३.१२०.२६ ॥

出于对儿子的爱,他甚至不靠小牛的奶为生;那位婆利古后裔只专心于维持牛的生命。

13.120.27

तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः ।
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः ॥ १३.१२०.२७ ॥

就这样,他侍奉牛群、照料其福祉,靠小牛的残余为生,他度过了非常漫长的岁月。

13.120.28

क्षुत्पिपासापरिश्रान्तः सततं प्रस्रवं गवाम् ।
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु ॥ १३.१२०.२८ ॥

他饥渴疲惫,经常守在牛奶的流淌处;因为奶量丰富,小牛的残余被说成很多。

13.120.29

पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम् ।
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर ॥ १३.१२०.२९ ॥

因为他喝了它,他以"Phenapa"(饮泡沫者)之名而闻名。出自乔达摩,他的名字就这样产生了,哦,坚战。