摩诃婆罗多 · 章 13.122
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.122.1
यास्तु गोमातरस्तस्य कामचारिण्य आगताः ।
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः ॥ १३.१२२.१ ॥
那些随意游走的牛母,怀着感激来到苏弥多罗身边站立。
13.122.2
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः ।
गोलोकादागता वेद वृषगोमातरो वयम् ॥ १३.१२२.२ ॥
她们十分称赞那位仙人,吉祥相貌的牛母说道:“你要知道,我们是牛牛之母,来自牛界。”
13.122.3
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने ।
यद्भि गोषु परां बुद्धिं कृतवानसि नित्यदा ॥ १३.१२२.३ ॥
我们非常欢喜。大仙啊,你想要的恩赐尽管取吧,因为你始终对牛怀有最高的虔敬。
13.122.4
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः ।
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः ॥ १३.१२२.४ ॥
我很欢喜,蒙受恩惠,因为这些吉祥的牛母,心意极其欢喜,并且赐予恩惠,都站在这里。
13.122.5
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा ।
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये ॥ १३.१२२.५ ॥
愿我对牛的虔敬如今日一般永远不变;愿杀牛者与敌视婆罗门的人都走向灭亡。
13.122.6
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम् ।
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम ॥ १३.१२२.६ ॥
就是这样,最好的仙人啊,你说的话对我们有益、我们也喜欢。来吧,与我们一同前往牛界,最好的仙人。
13.122.7
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे ।
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः ॥ १३.१२२.७ ॥
你们去往所愿的归宿吧,我不愿前往。舍弃这些苦行的、我所爱的牛群,我无法离去。
13.122.8
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् ।
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन् ॥ १३.१२२.८ ॥
众卡皮拉牛听到他那极为可怕的话语,便将那位仙人婆伽婆举起,携带着他升上天空。
13.122.9
कलेवरं तु तत्रैव तस्य संन्यस्य मातरः ।
निष्कृष्य करणं योगादानयन्भार्गवस्य वै ॥ १३.१२२.९ ॥
她们将他的身体留在那里,以瑜伽之力抽出婆伽婆的诸根,将它们带了回来。
13.122.10
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् ।
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः ॥ १३.१२२.१० ॥
世界之母将卡皮拉牛所做的一切全都告诉了他,以及牛群将他劫往牛界的缘由。
13.122.11
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम् ।
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन् ॥ १३.१२२.११ ॥
于是卡皮拉牛见到他的身体,依照它们的誓言,用角和蹄将其践踏得粉碎。
13.122.12
ततः संछिद्य बहुधा भार्गवं नृपसत्तम ।
युयुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन् ॥ १३.१२२.१२ ॥
然后,王中至尊啊,它们将婆伽婆的身体割裂成许多碎块,前往其他牛群所在之处,把一切都报告了。
13.122.13
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः ।
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः ॥ १३.१२२.१३ ॥
于是,被牛母诅咒的你们这些行于大地的牛啊,快快变成面目不净、杀害婆罗门的存在吧。
13.122.14
एवं कृतज्ञा गावो हि यता गोमातरो नृप ।
ऋषिश्च प्राप्तवाँल्लोकं गावश्च परिमोक्षिताः ॥ १३.१२२.१४ ॥
如此,感恩的牛群被牛母约束,国王啊;仙人得到了那个世界,牛群也被完全解脱。