Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.123

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.123.1

ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः ।
आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः ॥ १३.१२३.१ ॥

那些母牛前往冉提提婆的祭祀,在智慧的大仙面前表明了自己的身份。

13.123.2

रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिः शुचिः ।
उवाच गावः प्रणतः किमागमनमित्यपि ॥ १३.१२३.२ ॥

于是清净自持的国王冉提提婆合掌俯身,对那些母牛说:“你们前来是为了什么?”

13.123.3

इच्चामस्तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम् ।
पशुत्वमुपसम्प्राप्तुं प्रसादं कर्तुमर्हसि ॥ १३.१२३.३ ॥

王中之王啊,我们愿在此次祭祀中作为牺牲被献上;请您赐予我们成为牲畜的恩典。

13.123.4

नास्ति शक्तो गवां घातं कर्तुं शतसहस्रशः ।
घातयित्वा त्वहं युष्मान्कथमात्मानमुत्तरे ॥ १३.१२३.४ ॥

我没有能力杀害成千上万的母牛;让你们被杀,我在来世如何能看见自己?

13.123.5

यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह ।
आत्मानं चैव तपसा गावः समुपगम्यताम् ॥ १३.१२३.५ ॥

若有人将你们置于牲畜之身,从此引你们升天,并以苦行成就自身——愿他来到你们面前,啊母牛们。

13.123.6

अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः ।
श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः ॥ १३.१२३.६ ॥

啊国王,我们听说您心怀正法、坚守苦行,并且有能力拯救我们,因此我们自己前来到您面前。

13.123.7

मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम् ।
समयेनाहमेतेन जुहुयां वो हुताशने ॥ १३.१२३.७ ॥

若你们所愿如此,愿在我的祭祀中成为牺牲;依此约定,我将把你们投入火中献祭。

13.123.8

कदाचिद्यदि वः काचिदकामा विनियुज्यते ।
तदा समाप्तिः सत्रस्य गवां स्यादिति नैष्ठिकी ॥ १३.१२३.८ ॥

若你们中有人违背意愿被征用,那么这场牛祭便必然圆满完成。

13.123.9

एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः ।
अकामाः स्युर्यदा गावस्तदा सत्रं समाप्यताम् ॥ १३.१२३.९ ॥

大王,就照您对我们所说的吧:当牛不情愿时,便让祭祀结束。

13.123.10

ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः ।
गोसहस्राण्यहरहर्नियुज्यन्ते शमीतृभिः ॥ १३.१२३.१० ॥

于是,智者蓝提提婆的牛祭开始了,每天都有成千上万头牛被交给屠宰者。

13.123.11

एवं बहनि वर्षाणि व्यतीतानि नराधिप ।
गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत ॥ १३.१२३.११ ॥

如此,人主啊,许多年过去了,被宰杀的牛仿佛没有尽头。

13.123.12

गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः ।
बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः ॥ १३.१२३.१२ ॥

成千上万的牛皮堆积如山,啊,库鲁族的虎中之雄,层层叠叠,宛如云朵。

13.123.13

मेदःक्लेदवहा चैव प्रावर्तत महानदी ।
अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा ॥ १३.१२३.१३ ॥

一条大河开始流淌,携带着脂肪与血水;至今在大地上,它仍以吉祥之河「恰尔曼瓦蒂」而闻名。

13.123.14

ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता ।
एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुदार्दितः ॥ १३.१२३.१४ ॥

于是某次,悲伤的母牛呼唤自己的小牛:「来吧,孩子,吮吸我的乳房;免得以后饱受饥饿之苦。」

13.123.15

तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम् ।
एते ह्यायान्ति चण्डालाः सशस्त्रामां जिघांसवः ॥ १३.१२३.१५ ॥

我被杀之后,你必定心中悲痛;因为这些旃陀罗手持兵器,想要杀我而来。

13.123.16

अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम् ।
रन्तिदेवो महाराज ततस्तां समवारयत् ॥ १३.१२३.१६ ॥

于是,大王啊,兰提提婆听到了那人类的声音,便立刻制止了它。

13.123.17

स्थापयामास गोसत्रमथ तं पार्तिवर्षभ ।
सत्रोत्सृष्टाः परित्यक्ता गावोऽन्याः समुपाश्रिताः ॥ १३.१२३.१७ ॥

于是,王中之牛啊,他设立了那场牛祭;那些从祭祀中被放出、被弃置的其他母牛,都来投靠了他。

13.123.18

यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः ।
ता गोलोकमुपाजग्मुः प्रेक्षिता ब्रह्मवादिभिः ॥ १३.१२३.१८ ॥

那位大德之王祭祀中被杀的母牛,经梵言者目睹,都升往了牛界。

13.123.19

रन्तिदेवोपि राजर्षिरिष्ट्वा यज्ञं यथाविधि ।
ततः सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ ॥ १३.१२३.१९ ॥

王仙人然提婆依法行祭后,获得了天神之主的友谊,前往不灭的天界。

13.123.20

फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः ।
अवशिष्टश्च या गवस्ता बभूवुर्वनेचराः ॥ १३.१२३.२० ॥

芬那波在天界的牛界(戈洛迦)欢乐了永恒的岁月;其余的牛则成了林中栖居者。

13.123.21

फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च ।
कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम् ॥ १३.१२३.२१ ॥

这段芬那波的故事与牛的殊胜已为你讲述;它清净而有功德,是黑毗耶所说。

13.123.22

नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः ।
शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ ॥ १३.१२३.२२ ॥

世尊那罗延见牛有至高的荣光,便对它们行最上等的侍奉与虔敬,婆罗多族的雄牛啊。

13.123.23

तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत ।
द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम ॥ १३.१२३.२३ ॥

因此,王中之王啊,你也应敬奉牛,婆罗多啊,并且常常布施给再生族,库鲁中最优秀者啊。