摩诃婆罗多 · 章 13.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.124.1
पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम् ।
महाव्रतं महाभाग तन्मे ब्रूहि पितामह ॥ १३.१२४.१ ॥
在一切清净之物中,何者最为清净、最为殊胜、在世间最受尊崇,是大誓愿?大福之祖父,请告诉我。
13.124.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ॥ १३.१२४.२ ॥
此处人们也讲述这段古老的历史:父子之间的对话,毗耶娑与苏迦之间的对话。
13.124.3
ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम् ।
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥ १३.१२४.३ ॥
诸仙中最殊胜者,黑者(毗耶娑)、自制者、不坠者,精通传承的特殊知识,通晓一切经典之义。
13.124.4
कृतशौचः शुकस्तत्र कृतजप्यः कृताह्निकः ।
परं नियममास्थाय परं धर्ममुपाश्रितः ॥ १३.१२४.४ ॥
苏迦在彼处行净身、诵持、日常礼仪,持守至上戒律,依止至上法。
13.124.5
प्रणम्य शिरसा व्यासं सूक्ष्मतत्वार्थदर्शिनम् ।
शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः ॥ १३.१२४.५ ॥
苏迦向洞见微妙真理的毗耶娑低首致敬,渴求了解布施之法,遂发问道。
13.124.6
बहुचित्राणि दानानि बहुशः शंससे मुने ।
महार्थं पावनं पुण्यं किंस्विद्दानं महाफलम् ॥ १३.१२४.६ ॥
牟尼啊,您一再讲述种种奇妙的布施。然而,何种布施有大义、能净化、有功德,并带来大果报?
13.124.7
केन दुर्गाणि तरति केन लोकानवाप्नुते ।
केन वा महदाप्नोति इह लोके परत्र च ॥ १३.१२४.७ ॥
以何者能渡过险难,以何者能得到诸世界,或以何者能在此世与来世获得大果报?
13.124.8
के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः ।
किञ्च यज्ञस्य यज्ञत्वं किञ्च यज्ञस्य भेषजम्।
यज्ञानामुत्तमं किञ्च तद्भवान्प्रब्रवीतु मे ॥ १३.१२४.८ ॥
谁是祭祀的承担者?祭祀建立于何物之上?祭祀的祭祀性是什么?祭祀的良药是什么?诸祭祀中最殊胜者是什么?请您告诉我。
13.124.9
स तस्मै भजमानाय जातकौतूहलाय च ।
व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम् ॥ १३.१२४.९ ॥
持戒之藏的毗耶娑,对前来依止、满怀好奇的他,宣说了这殊胜无比的关于牛的教法。
13.124.10
धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम् ।
यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ १३.१२४.१० ॥
此法吉祥,能带来名声与长寿,在世间令人耳目欢悦;它是诸净中最净,诸吉中最吉。
13.124.11
सर्वपापप्रशमनं तत्समासेन मे शृणु ।
यदिदं तिष्ठते लोके जगत्स्थावरजङ्गमम्।
गावस्तत्प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः ॥ १३.१२४.११ ॥
你且听我简略说来:此法能息灭一切罪业。世间这有动与不动的世界所依凭者,牛得之而住于牛界(Goloka),其形相皆为吉祥可见。
13.124.12
मातरः सर्वभूतानां विश्वस्य जगतश्च ह ।
रुद्राणामिह साध्यानां गाव एव तु मातरः ॥ १३.१२४.१२ ॥
牛确实是一切众生、宇宙与世界的母亲;在此,对于楼陀罗与萨adhya诸神而言,牛也确实是母亲。
13.124.13
रुद्राणां मातरो ह्येता ह्यादित्यानां स्वसा स्मृताः ।
वसूनां च दुहित्रस्ता ब्रह्मसन्तानमूलजाः ॥ १३.१२४.१३ ॥
她们是楼陀罗的母亲,被视为阿底提耶的姐妹,也是婆苏的女儿;生于梵天子嗣之根。
13.124.14
यासामधिपतिः पूषा मरुतो वालबन्धनाः ।
ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः ॥ १३.१२४.१४ ॥
其主宰是普善,诸摩录多以尾相缚,国王婆罗奢那是其权威,诸毗湿婆提婆依托于它们。
13.124.15
य एवं वेद ता गावो मातरो देवपूजिताः ।
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः ॥ १३.१२४.१५ ॥
若人如此知晓:此诸牛为诸天所尊的母亲,此婆罗门便稳住于梵天界或牛界。
13.124.16
गावस्तु नावमन्येत कर्मणा मनसा गिरा ।
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम् ॥ १३.१२४.१६ ॥
不可以行为、心意或言语轻慢牛;求取至高归宿者,应于世间祈求牛的至上之位。
13.124.17
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना ।
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम् ॥ १३.१२४.१७ ॥
不可以脚踢牛,更不可以棍棒或拳头击打;依靠这门梵天所造的清净之法而行。
13.124.18
मातॄणामन्ववाये च न गोमध्ये न गोव्रजे ।
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम् ॥ १३.१२४.१८ ॥
在母系宗族之前、牛群之中及牛栏之内,人不可排泄小便与粪便;看清之后方可行事。
13.124.19
शुद्धाश्चन्दनशीताङ्ग्यश्चन्द्ररश्मिसमप्रभाः ।
सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः ॥ १३.१२४.१९ ॥
纯洁的、肢体如檀香般清凉的、光辉如月光的、温顺的、芬芳的、吉祥的牛,散发着古古鲁香脂的气味。
13.124.20
सर्वे देवाऽविशन्गा वै समुद्रमिव सिन्धवः ।
दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते ॥ १३.१२४.२० ॥
诸神皆进入牛中,如同河流汇入大海。获得牛群之丰盛者,既得天界,也得虚空。
13.124.21
दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत् ।
दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते ॥ १३.१२४.२१ ॥
应以凝乳供奉于火中,以凝乳诵吉祥祝词。应施予凝乳并食用;如此便得牛群之丰盛。
13.124.22
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते ॥ १३.१२४.२२ ॥
应以酥油供奉于火中,以酥油诵吉祥祝词。触摸酥油后应食用;他便得牛群之丰盛。
13.124.23
गावः संजीवना यास्तु गावो दानमनुत्तमम् ।
ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम् ॥ १३.१२४.२३ ॥
赐予生命的牛,以及施牛之布施最为殊胜——愿那些守护功德、结善果的牛,眷顾侍奉她们的我。
13.124.24
येन देवाः पवित्रेण स्वर्गलोकमितो गताः ।
तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम् ॥ १३.१२४.२४ ॥
诸神由此升往天界所凭借的那净化之法,那纯净中的最纯净者,安立于我的头顶。
13.124.25
वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः ।
क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते ॥ १३.१२४.२५ ॥
琵琶、鼓与小鼓安立于牛身之中;为嬉戏、欢愉与游乐,它们存在于三界之中。
13.124.26
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति ।
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते ॥ १३.१२४.२६ ॥
凡不见牛之处,诸天不居其间,不行阿耆尼赫特拉之供奉,也不以祭祀而敬拜。
13.124.27
क्षीरं दधि घृथं यासां रसानामुत्तमो रसः ।
अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति ॥ १३.१२४.२७ ॥
乳、凝乳与酥油——诸味中最上之味——出于从甘露所生之牛,三界因之而得生存。
13.124.28
इमामाहूय धेनुं च सवत्सां यज्ञमातरम् ।
उपाह्वयन्ति यां विप्रा गावो यज्ञहविष्कृतम् ॥ १३.१२४.२८ ॥
婆罗门召唤这头带着小牛的乳牛,她是祭祀之母;牛由祭祀的供品所成。
13.124.29
या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती ।
पौर्णमासेन वत्सेन कामं कामगुणान्विता ॥ १३.१२४.२९ ॥
此乳牛为诸净行之首,即萨罗室伐底;与满月祭之小牛同在,随意具足种种可欲之德。
13.124.30
यत्र सर्वमिदं प्रोतं यत्किंचिज्जङ्गमं जगत् ।
स गौर्वै प्रथमा पुण्या सर्वभूतहिते रता ॥ १३.१२४.३० ॥
此中贯穿一切及一切动物之世界者,即此牛,为最初之圣者,常行利益一切众生之事。
13.124.31
धारणाः पावनाः पुण्या भावना भूतभावनाः ।
गावो मामभिरक्षन्तु इह लोके परत्र च ॥ १३.१२४.३१ ॥
坚定的修持、清净的、有功德的,以及滋养众生的观想——愿母牛在今世与来世保护我。
13.124.32
एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः ।
वेदाः सहोपनिषदो गवां रूपाः प्रतिष्ठिताः ॥ १३.१२४.३२ ॥
此祭祀连同其附支,即是永恒的祭祀;吠陀与奥义书以牛的形相而确立。
13.124.33
एतत्तात मया प्रोक्तं गवामिह परं मतम् ।
सर्वतः श्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि ॥ १३.१२४.३३ ॥
孩子啊,这是我所宣说关于母牛的至高教义:自制之人应当常在婆罗门的集会中宣讲它。
13.124.34
श्रुत्वा लभेत ताँल्लोकान्ये मया परिकीर्तिताः ।
श्रावयित्वापि प्रीतात्मा लोकांस्तान्प्रतिपद्यते ॥ १३.१२४.३४ ॥
听闻此法者,获得我所说的那些世界;使人听闻者,心怀喜悦,也能到达那些世界。
13.124.35
धेनुमेकां समादद्यादहन्यहनि पावनीम् ।
तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा ॥ १३.१२४.३५ ॥
婆罗门应每日接受一头能净化的乳牛;常诵《哥摩提》者,亦得同样的果报。
13.124.36
अथ धेनुर्न विद्यते तिलधेनुमनुत्तमाम् ।
दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम् ॥ १३.१२४.३६ ॥
若无母牛,应依《哥摩提》之仪轨,布施那殊胜的芝麻牛,能净化一切。
13.124.37
आह्निकं गोमतीं नित्यं यः पठेत सदा नरः ।
सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत् ॥ १३.१२४.३७ ॥
若人常诵日课《Gomatī》,并以调伏之心行事,便能脱离一切罪过。
13.124.38
घृतं वा नित्यमालभ्य प्राश्य वा गोमतीं जपेत् ।
स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते ॥ १३.१२४.३८ ॥
常以酥油触摸或品尝后默诵《Gomatī》;或以牛粪沐浴并诵读者,便能脱离罪过。
13.124.39
मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम् ।
न त्वेन दिवसं कुर्याद्व्यर्थं गोमत्यपाठकः ॥ १३.१२४.३९ ॥
应以心默诵《Gomatī》,以《Gomatī》行每日课;但不诵《Gomatī》者,虚度此日。
13.124.40
गोमतीं जपमाना हि देवा देवत्वमाप्नुवन् ।
ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन् ॥ १३.१२४.४० ॥
诵《Gomatī》之时,诸神得成神性,诸仙亦得成仙位;由《Gomatī》,他们获得了一切。
13.124.41
बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत सङ्कटात् ।
गोमतीं सेवते यस्तु लभते प्रियसङ्गमम् ॥ १३.१२४.४१ ॥
被缚者得脱束缚,免于苦难与险难;奉事《Gomatī》者,得与所爱者相会。
13.124.42
एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम् ।
एतत्तु पृथिवीपाल पावनं शृण्वतां सदा ॥ १३.१२४.४२ ॥
此乃全然清净,此乃无上誓愿;地之守护者啊,凡听闻者常得清净。
13.124.43
पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः ।
अद्धाने चोरवैरिभ्यो मुच्यते गोमतीं पठन् ॥ १३.१२४.४३ ॥
渴望子嗣的人、渴望财富的人,以及在路上害怕盗贼与仇敌的人,诵读《戈玛蒂》便得解脱。
13.124.44
पूर्ववैरानुबन्धेषु रणए चाप्याततायिनः ।
लभेत जयमेवाशु सदा गोमतिपाठकः ॥ १३.१२४.४४ ॥
在因旧怨而起的战斗中,以及在对抗侵略者的战争中,诵读《戈玛蒂》者总能迅速获得胜利。