Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.130

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.130.1

उक्तं पितामहेनेदं गवां दानमनुत्तमम् ।
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम् ॥ १३.१३०.१ ॥

祖父说,这种赠送牛的布施最为殊胜,尤其适合在此关注法(dharma)的君王。

13.130.2

राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः ।
परिचारेषु वै दुःखं दुर्धरं चाकृतात्मभिः।
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ १३.१३०.२ ॥

王权始终充满痛苦,而林居各阶段也极难了解。服侍之中亦有苦,对于未调伏者难以承受;而对于君王,大多没有吉祥的归宿。

13.130.3

पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम् ।
सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन ॥ १३.१३०.३ ॥

在那里,布施大地者必定得到清净。库卢族的欢喜者啊,您已为我宣说了一切法。

13.130.4

एवमेव गवामुक्तं प्रदानं ते नृगेण ह ।
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥ १३.१३०.४ ॥

如此,您已宣说了赠送牛的布施,那是国王那伽(Nṛga)所行的;而先前仙人那支克多(Nāciketa)也曾指示过它。

13.130.5

वेदोपनिषदे चैव सर्वकर्मसु दक्षिणाः ।
सर्वक्रतुषु चोद्दिष्टा भूमिर्गावोऽथ काञ्चनम् ॥ १३.१३०.५ ॥

在吠陀与奥义书中,以及一切仪式与一切祭祀中,都规定以土地、牛和黄金作为酬谢(dakṣiṇā)。

13.130.6

तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै ।
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥ १३.१३०.६ ॥

那里,天启经典(śruti)称黄金为最高的酬谢。祖父啊,我愿如实地听您讲述此事。

13.130.7

किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् ।
किंदैव किंफलं चैव कस्माच्च परमुच्यते ॥ १३.१३०.७ ॥

何为黄金?它如何产生,于何时出现,其本性如何?其神祇为何,其果报为何,又为何被称为至上?

13.130.8

कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः ।
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥ १३.१३०.८ ॥

智者为何尊崇布施黄金?为何在祭祀仪式中被称颂为达克西那?

13.130.9

कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् ।
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥ १३.१३०.९ ॥

为何黄金比土地与牛更能清净、更为殊胜?为何于达克西那而言它最为至上?祖父,请告诉我。

13.130.10

शृणु राजन्नवहितो बहुकारणविस्तरम् ।
जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥ १३.१३०.१० ॥

大王,请专心听:我所亲历的黄金起源,以及其中诸多因由的详细说明。

13.130.11

पिता मम महातेजाः श्तनुर्निधनं गतः ।
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥ १३.१३०.११ ॥

我那光明盛大的父亲设埵努已经去世。我欲为他行施食祭,便来到恒河门。

13.130.12

तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् ।
मातो मे जाह्नवी चात्र साहाय्यमकरोत्तदा ॥ १३.१३०.१२ ॥

孩子,我到了那里,便开始为父亲举行丧葬之礼;此时我的母亲恒河女在此助我。

13.130.13

तत्रागतांस्तपस्सिद्धानुपवेश्य बहूनृषीन् ।
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥ १३.१३०.१३ ॥

安坐在那里前来的许多苦行成就的仙人,自献水礼始,我便开始了各项仪式。

13.130.14

तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः ।
दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥ १३.१३०.१४ ॥

按规定完成那前行之仪后,我专心地开始如法地奉献尼尔瓦帕那。

13.130.15

ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः ।
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते ॥ १३.१३०.१५ ॥

于是,那只手穿破了那堆吉祥草,戴着极其美丽的臂钏和垂饰,升了起来,人民之主啊。

13.130.16

मुहूर्तमपि तं दृष्ट्वा परं विस्मयमागमम् ।
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥ १३.१३०.१६ ॥

看见它片刻,我心中大为惊异:我的父亲亲自在此领受,婆罗多的雄牛啊。

13.130.17

ततो मे पुनरेवासीत्संज्ञा सञ्चिन्त्य शास्त्रतः ।
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो।
पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥ १३.१३०.१७ ॥

随后我恢复了神志。依照经典思考之后,主啊,我想到:吠陀中并未规定以手献上此物;人应当在此献上皮达。

13.130.18

साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित् ।
गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति ॥ १३.१३०.१८ ॥

实际上,祖先从不会直接接受此处人手所献的皮达;规定应当将皮达置于吉祥草之上。

13.130.19

ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् ।
शास्त्रप्रामाण्यसूक्ष्मं तु विधइं पिण्डस्य संस्मरन् ॥ १३.१३०.१९ ॥

于是我无视父亲以手示意的暗号,记着经典中关于供奉米团的精微规定,才这样做。

13.130.20

ततो दर्भेषु तत्सर्वमददं भरतर्षभ ।
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥ १३.१३०.२० ॥

于是,婆罗多之牛啊,我把这一切供奉在吉祥草上。人中之牛啊,请知道这是依照经典之道而行的。

13.130.21

ततः सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप ।
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा ॥ १३.१३०.२१ ॥

人主啊,那时我父亲的那只手隐没了;随后,梦境将尽时,祖先们也同样向我显现。

13.130.22

प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ ।
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥ १३.१३०.२२ ॥

他们满心欢喜地对我说:婆罗多之牛啊,“我们很欢喜。因为你的这份明辨,你在法上不曾迷惑。”

13.130.23

त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव ।
आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह ॥ १३.१३०.२३ ॥

国王啊,你在此依经典为准则而行。自我、法、所闻、吠陀、祖先与仙人——这些都是你的依据。

13.130.24

साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः ।
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः ॥ १३.१३०.२४ ॥

祖父梵天本人、师长们以及生主,都作为权威被引出,并且屹立不动,未曾动摇。

13.130.25

तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ ।
किन्तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥ १३.१३०.२५ ॥

婆罗多族的雄牛啊,你今日正确地开始了此事。但应当为大地与牛群布施黄金。

13.130.26

एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः ।
पाविता वै भविष्यन्ति पावनं हि परं हि तत् ॥ १३.१३०.२६ ॥

如此,我们、法以及我们所有的祖先都将得到清净,因为那是至高的清净之行。

13.130.27

दश पूर्वान्दशैवान्यांस्तथा सन्तारयन्ति ते ।
सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन् ॥ १३.१३०.२७ ॥

布施黄金者,能度其前十代祖先与其后十代;我的先祖如是说。

13.130.28

ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशाम्पते ।
सुवर्णदानेऽकरवं मतिं च भरतर्षभ ॥ १३.१३०.२८ ॥

于是,国王啊,人民之主,我惊异地醒来;婆罗多族的雄牛啊,我便专心于布施黄金。

13.130.29

इतिहासमिमं चापि शृणु राजन्पुरातनम् ।
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥ १३.१३०.२९ ॥

国王啊,无上者啊,也请听这古老的故事,关于阇摩陀格尼(持斧罗摩),它吉祥且延年益寿。

13.130.30

जामदग्न्येन रामेण तीव्ररोषान्वितेन वै ।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ १३.१३०.३० ॥

充满猛烈愤怒的阇摩陀格尼之子罗摩,昔日二十一次使大地没有刹帝利。

13.130.31

ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः ।
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥ १३.१३०.३१ ॥

随后,征服了整个大地的莲花眼英雄罗摩举行了一场受婆罗门与刹帝利尊崇的祭祀。

13.130.32

वाजिमेधं महाराज सर्वकामसमन्वितम् ।
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥ १३.१३०.३२ ॥

大王啊,那是马祭,能满足一切愿望,净化一切众生,增益光辉与威德。

13.130.33

विपाप्मा च स तेजस्वी तेन क्रतुफलेन च ।
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत ॥ १३.१३०.३३ ॥

那位光耀的遮摩陀耆尼之子,因那祭祀之果而脱离罪恶,且在自身中未曾得到任何损减。

13.130.34

स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता ।
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भारत ॥ १३.१३०.३४ ॥

婆罗多之子啊,那位大德以殊胜的祭祀和丰厚的布施供养之后,向精通典籍的仙人和诸天发问。

13.130.35

पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् ।
तदुच्यतां महाभागा इति जागघृणोऽब्रवीत् ॥ १३.१३०.३५ ॥

“请告诉我,对于从事猛烈之业的人而言,何者是最殊胜的净化之法,诸位大福德者啊。”遮摩陀耆尼之子如是说。

13.130.36

इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः ।
राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात् ॥ १३.१३०.३६ ॥

被如此询问之后,那些通晓吠陀与典籍的大仙对他说:“罗摩啊,应当尊敬婆罗门,因为从他们身上可见吠陀的权威。”

13.130.37

भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति ।
ते यद्ब्रूर्महाप्राज्ञास्तच्चैव समुदाचर ॥ १३.१३०.३७ ॥

此外,应再次询问婆罗门仙人群关于净化之法;那些大智者所说的,应当好好去做。

13.130.38

ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम् ।
तमेवार्तं महातेजाः पप्रच्छ भृगुनन्दनः ॥ १३.१३०.३८ ॥

于是婆粒古之子、大光明者,向天仙婆private斯陀、阿伽斯提亚和迦叶波询问了那位受苦之人的事。

13.130.39

जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत ।
केन वा कर्मयोगेन प्रदानेनेह केन वा ॥ १३.१३०.३९ ॥

诸位婆罗门中的至尊啊,我心中生起一念:我如何才能得到净化——以何种业瑜伽,或以何种布施,或在此以何种方法?

13.130.40

यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः ।
प्रबूत पावनं किं मे भवेदिति तपोधनाः ॥ १३.१३०.४० ॥

诸位善人中的至尊啊,若你们的心意出于对我的慈悯,那么苦行富足的诸位,请说出什么能使我清净。

13.130.41

गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन ।
पापकृत्पूयते मर्त्य इति भार्गव शुश्रुम ॥ १३.१३०.४१ ॥

婆粒古之子啊,在此布施牛、土地与财物,即使犯罪的凡人也得以清净——我们听闻是如此,婆利迦婆啊。

13.130.42

अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत् ।
दिव्यमत्यद्भुताकारमपत्यं जातवेदसः ॥ १३.१३०.४२ ॥

婆罗门仙人啊,请听另一种伟大的净化之施:遮陀吠陀(火神)的子嗣,神圣而形貌极其奇妙。

13.130.43

दग्ध्वा लोकान्पुरा वीर्यात्सम्भूतमिह शुश्रुम ।
सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि ॥ १३.१३०.४३ ॥

我们在此听说,它是昔日焚烧诸世界后,由其威力所生。名为“苏伐那”(金)者,施舍它的人将获得成就。

13.130.44

ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः ।
शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम् ॥ १३.१३०.४४ ॥

于是坚守誓愿的尊者婆悉吒对他说:罗摩啊,听着,那如火般光辉的金子是如何产生的。

13.130.45

फलं दास्यति ते यत्तु दाने परमिहोच्यते ।
सुवर्णं यच्च यस्माच्च यथा च गुणवत्तमम् ॥ १३.१३०.४५ ॥

此处所说施舍的最高果报,它将赐予你;金子是什么,从何而来,以及它为何最具德性,也将说明。

13.130.46

तन्निबोध महाबाहो सर्वं निगदतो मम ।
अग्निषोमात्मकमिदं सुवर्णं विद्दि निश्चये ॥ १३.१३०.४६ ॥

大臂者啊,请领会我所说的一切。要确知这金子是由火与苏摩所构成的。

13.130.47

अजोऽग्निर्वरुणो मेषः सूर्योऽश्च इति दर्शनम् ।
कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति ॥ १३.१३०.४७ ॥

它显现为山羊、阿耆尼、伐runa、公羊、太阳和马;象、鹿、龙蛇、水牛和阿修罗也是如此。

13.130.48

कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन ।
इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः ॥ १३.१३०.४८ ॥

婆利古之子啊,公鸡、野猪和罗刹也是如此;伊达、牛、乳、苏摩与大地——传统如是说。

13.130.49

जगत्सर्वं च निर्मथ्य तेजोराशिः समुत्थितः ।
सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम् ॥ १३.१३०.४९ ॥

搅动整个世界后,升起一团光辉。婆罗门中的仙人啊,由此产生了黄金,它是至高无上的宝物。

13.130.50

एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः ।
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत् ॥ १३.१३०.५० ॥

因此,诸神、乾闼婆、龙蛇、罗刹、人类和毕舍遮都虔诚地佩戴它。

13.130.51

मुकुटैरङ्गदयुतैरलङ्कारैः पृथग्विधैः ।
सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम ॥ १३.१३०.५१ ॥

佩戴着金制的王冠、臂钏和各种饰物,他们在那里光彩夺目,婆利古中的最优秀者啊。

13.130.52

तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् ।
भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि मनुजर्षभ ॥ १३.१३०.५२ ॥

因此它被认为是一切净化之物中最为清净的,胜过大地、牛和宝石。人中之牛啊,你要知道这一点。

13.130.53

पृथिवीं गाश्च दत्त्वेह यच्चान्यदपि किञ्चन ।
विशिष्यते सुवर्णस्य दानं परमकं विभो ॥ १३.१३०.५३ ॥

无论在此布施大地、牛或其他任何物品,布施黄金都胜过它们。威严者啊,这是最高的布施。

13.130.54

अक्षयं पावनं चैव सुवर्णममरद्युते ।
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम् ॥ १३.१३०.५४ ॥

光辉的不死者啊,黄金不朽且能净化。请将它施予二生者中最优秀的人,因为这确实是一切中最为清净的。

13.130.55

सुवर्णमेव सर्वासु दक्षिणासु विधीयते ।
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत ॥ १३.१३०.५५ ॥

在一切布施(dakṣiṇā)中唯规定以黄金为先;常施黄金者,亦成为如此。

13.130.56

देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ ।
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥ १३.१३०.५६ ॥

施黄金者,诸神赐以恩惠;因为阿耆尼即是一切神,而黄金亦是其自性。

13.130.57

तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः ।
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥ १३.१३०.५७ ॥

因此,施黄金者便如同将一切诸神都施舍了出去。人中之虎啊,他们不知有比此更高者。

13.130.58

भूय एव च महात्म्यं सुवर्णस्य निबोध मे ।
गदतो मम विप्रर्षे सर्वशस्त्रभृतांवर ॥ १३.१३०.५८ ॥

请听我进一步讲述黄金的伟大。婆罗门仙人啊,你是一切持兵者中最优秀的。

13.130.59

मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन ।
प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै ॥ १३.१३०.५९ ॥

婆里古之子啊,我从前在往世书中听过此事:那是生主所说,也是自生的摩奴所说。

13.130.60

शूलपाणेर्भगवतो रुद्रस्य च महात्मनः ।
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥ १३.१३०.६० ॥

执三叉戟的薄伽梵楼陀罗,伟大者,那时在最殊胜的雪山(喜马拉雅)之上;婆里古族的承担者啊。

13.130.61

देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन ।
समागमे भगवतो देव्या सह महात्मनः ॥ १३.१३०.६१ ॥

婆利古之子啊!当女神鲁陀罗尼的婚礼完成后,伟大的世尊与女神相会。

13.130.62

ततः सर्वे समुद्विग्रा देवा रुद्रमुपागमन् ।
ते महादेवमासीनं देवीं च वरदामुमाम्। ॥ १३.१३०.६२ ॥

于是诸神极为忧惧,前往楼陀罗处。他们看见大天坐在那里,还有赐予恩惠的女神乌玛。

13.130.63

प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ।
अयं समागमो देव देव्या सह तवानघ। ॥ १३.१३०.६३ ॥

婆利古最优秀者啊,他们都低头安抚楼陀罗,说道:神啊,无瑕者啊,这与女神的结合属于你。

13.130.64

तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः ।
अमोघतेजास्त्वं देव देवी चेयमुमा तथा। ॥ १३.१३०.६४ ॥

你是苦行者,她是苦行的女神,光辉而极其耀眼。神啊,你的光辉不可落空,女神乌玛也是如此。

13.130.65

अपत्यं युवयोर्देव बलवद्भविता विभो ।
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ॥ १३.१३०.६५ ॥

神啊,主啊,你们的后代必定强大;它必定会在三界中不留一物。

13.130.66

तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन ।
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ॥ १३.१३०.६६ ॥

因此,广目者啊,请赐予这些向你顶礼的诸神一个恩惠。世界之主啊,出于对三界福祉的愿望。

13.130.67

अपत्यार्थं निगृह्णीष्व तेजः परमकं विभो ।
त्रैलोक्यसारौ हि युवां लोकं सन्तापयिष्यथ ॥ १३.१३०.६७ ॥

威力无边的主啊,为了子嗣,请收敛你的至高之力。你们二人乃三界之精华;否则将灼烧世间。

13.130.68

तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम् ।
न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो ॥ १३.१३०.६८ ॥

你们的子嗣必定会压倒诸神。威力无边的主啊,大地女神、天空与天界都无法承受你的力量。

13.130.69

नेदं धारयितुं शक्ताः समस्ता इति मे मतिः ।
तेजःप्रभावनिर्दग्धं तस्मात्सर्वमिदं जगत् ॥ १३.१३०.६९ ॥

依我之见,他们都无力承受这股力量。因此,这整个世界将被你的力量所焚毁。

13.130.70

तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो ।
न देव्यां सम्भवेत्पुत्रो भवतः सुरसत्तम।
धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥ १३.१३०.७० ॥

因此,尊贵的主啊,求你赐予我们恩典。诸神之中最优秀者啊,愿你不要在女神之中生子。唯凭坚定,请收敛这炽烈的至高之力。

13.130.71

इति तेषां कथयतां भगवान्वृषभध्वजः ।
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥ १३.१३०.७१ ॥

他们如此说时,那以牛为旗的尊贵之主对诸神答道:“就这样吧。”婆罗门中的圣者啊,他如此回答了他们。

13.130.72

इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः ।
ऊर्ध्वरेषः समभवत्ततः प्रभृति चापि सः ॥ १३.१३०.७२ ॥

说罢,乘牛的主便将自己的精华向上引导。从此,他成为精华向上流动之人。

13.130.73

रुद्राणीति ततः क्रुद्धा प्रजोच्छेद तदा कृते ।
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥ १३.१३०.७३ ॥

于是她因绝嗣而愤怒,以女性之身对诸神说了严厉的话。

13.130.74

यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः ।
तस्मात्सर्वे सुरा भूयमनपत्या भविष्यथ ॥ १३.१३०.७४ ॥

因为你们使渴望子嗣的我的丈夫转身离去,所以诸神啊,你们都将无子。

13.130.75

प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै ।
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥ १३.१३०.७५ ॥

因为你们今天断绝了我的子嗣,所以你们的子嗣将如飞鸟,且并非人人都有。

13.130.76

पावकस्तु न तत्रासीच्छापकाले भृगूद्वह ।
देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन् ॥ १३.१३०.७६ ॥

咒语发出时火神不在场,婆里古族中最杰出者啊;因此诸神因女神的诅咒而无子。

13.130.77

रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा ।
प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि ॥ १३.१३०.७७ ॥

然而楼陀罗当时保持了那无比的精华;从中滴落的一部分便落在了那里的大地上。

13.130.78

उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम् ।
तेजस्तेजसि संयुक्तमेकयोनित्वमागतम् ॥ १३.१३०.७८ ॥

于是它升入火中,奇妙地增长;精华与精华相合,归于同一本源。

13.130.79

एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः ।
असुरस्तारको नाम तेन सन्तापिता भृशम् ॥ १३.१३०.७९ ॥

就在那时,以帝释为首的诸天被名叫塔拉卡的阿修罗极度折磨。

13.130.80

आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि ।
साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् ॥ १३.१३०.८० ॥

阿提亚、婆苏、楼陀罗、摩噜多、双阿输斯团以及萨底耶,都因达提耶的勇力而惊恐。

13.130.81

स्थानानि देवतानां हि विमानानि पुराणि च ।
ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥ १३.१३०.८१ ॥

诸神的居所、天车与城市,以及仙人的修行林,都被阿修罗夺去了。

13.130.82

ते दीनमनसः सर्वे देवता ऋषयश्च ये ।
प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम् ॥ १३.१३०.८२ ॥

那些心中沮丧的诸神与仙人,全都前往不老而遍在的梵天神处寻求庇护。