Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.131

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.131.1

असुरस्तारको नाम त्वया दत्तवरः प्रभो ।
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥ १३.१३१.१ ॥

主啊,你所赐予恩惠的名为塔拉卡的阿修罗,正在折磨诸神与仙人。请下令将他诛杀。

13.131.2

तस्माद्भयं समुत्पन्नमस्माकं वै पितामह ।
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥ १३.१३१.२ ॥

因此,祖父啊,我们心中生起了恐惧。天神啊,请保护我们;我们别无他途。

13.131.3

ब्रह्मोवाच ।
समोहं सर्वभूतानामधर्मं नेह रोचये।
हन्यतां तारकः क्षिप्र सुरर्षिगणबाधिता ॥ १३.१३१.३ ॥

我不赞同这种使一切众生迷惑的非法之事。让那折磨诸神与仙人群的塔拉卡迅速被诛杀吧。

13.131.4

वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः ।
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥ १३.१३१.४ ॥

诸神中最优秀的啊,愿吠陀与法不致灭绝。此法我早已确定;愿你们的烦恼消散。

13.131.5

वरदानाद्भगवतो दैतेयो बलगर्वितः ।
देवैर्न शक्यते हन्तु स कथं प्रशमं व्रजेत् ॥ १३.१३१.५ ॥

由于世尊所赐的恩惠,这位以力量自傲的提耶无法被诸神杀死。那么他如何能够得到平息呢?

13.131.6

स हि नैव स्म देवानां नासुराणां न रक्षसाम् ।
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥ १३.१३१.६ ॥

祖父啊,他从你那里获得了这样的恩惠:"愿我不被天神、阿修罗或罗刹所杀。"

13.131.7

देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते ।
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते ॥ १३.१३१.७ ॥

昔时在众生被毁灭之时,诸神被楼陀罗妻所诅咒,说道:世界之主啊,你们将没有子嗣。

13.131.8

ब्रह्मोवाच ।
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः।
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम् ॥ १३.१३१.८ ॥

梵天说:诸天中最尊贵者啊,诅咒之时火神不在那里。他将为消灭诸天的敌人而生育后代。

13.131.9

तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् ।
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥ १३.१३१.९ ॥

他将超越一切——诸天、檀那婆、罗刹、人类、乾闼婆、龙与飞鸟——而前行。

13.131.10

अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति ।
यतो वो भयपुत्पन्नं ये चान्ये सुरशत्रवः ॥ १३.१३१.१० ॥

他将以永不落空的武器与长矛使他被杀,因为恐惧已经降临于你们,而诸天的其他敌人也还存在。

13.131.11

सनातनो हि सङ्कल्पः काम इत्यभिधीयते ।
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत् ॥ १३.१३१.११ ॥

永恒的意志名为欲。楼陀罗的精光溢出,落入火中,

13.131.12

तत्तजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् ।
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥ १३.१३१.१२ ॥

那精光,火神,化为如第二位波伐卡一般的大神,将在恒河中诞生,以消灭诸天的敌人。

13.131.13

स तु नावाप तं शापं नष्टः स हुतभुक्तदा ।
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥ १३.१३१.१३ ॥

然而那火神当时已毁灭,未能得到那诅咒。因此,诸神啊,驱除恐惧的帕瓦基(火神之子)将为你们而生。

13.131.14

अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् ।
तारकस्य वधोपायः कथितो वै मयाऽनघाः ॥ १३.१३१.१४ ॥

现在就去寻找火神,任命他吧。无罪的诸位啊,杀死塔拉卡的方法正是我告诉你们的。

13.131.15

न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै ।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै ॥ १३.१३१.१५ ॥

光辉者的诅咒对光辉无能为力;而弱小的力量遇到更强的力量,便会变得软弱。

13.131.16

हन्यादवध्यान्वरदानपि चैव तपस्विनः ।
सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत् ॥ १३.१३१.१६ ॥

凭借恩赐,即使苦行者也能杀死不可杀者。由意志所生的欲望,成为了永恒的黑暗。

13.131.17

जगत्पतिरनिर्देश्य सर्वगः सर्वभावनः ।
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥ १३.१३१.१७ ॥

世界之主,不可言说,遍在一切,产生万物,居于一切众生心中,比楼陀罗更为长者与主宰。

13.131.18

अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः ।
स वो मनोगतं कामं देवः सम्पादयिष्यति ॥ १३.१३१.१८ ॥

快去寻找那光辉的聚集者、吞食祭品的火神;那位神将成就你们心中的愿望。

13.131.19

एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः ।
जग्मु- संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ॥ १३.१३१.१९ ॥

诸神听闻这位大心者的话语,怀着达成所愿的决心,出发去寻找毗婆蘇(火神)。

13.131.20

ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह ।
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥ १३.१३१.२० ॥

于是诸仙人与众神一同遍寻三界,渴望得见火神,众人的心思全都系于此事。

13.131.21

परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः ।
लोकानन्वचरन्सिद्धाः सर्व एव भृगूत्तम।
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम् ॥ १३.१३१.२१ ॥

具大苦行、光明显赫、闻名诸界的成就者们遍游诸界,婆利求者啊,最优的婆利求者!然而,他们未能找到那隐藏在自身之内、已经失落的火。

13.131.22

ततः संजातसंत्रासानग्निदर्शनलालसान् ।
जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः।
उवाच देवान्मण्डूको रसातलतलोत्थितः। ॥ १३.१३१.२२ ॥

于是,栖于水中的青蛙,心神疲惫,被火的光焰所灼,从罗萨塔拉的深处升起,对那些心怀恐惧、渴望见到火神的诸神说道。

13.131.23

रसातलतले देवा वसत्यग्निरिति प्रभो ।
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ॥ १३.१३१.२३ ॥

诸神啊,主啊!据说火神居于罗萨塔拉的深处;我被从火源涌出的热气所苦,因此来到此处。

13.131.24

स संसुप्तो जले देवा भगवान्हव्यवाहनः ।
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ॥ १३.१३१.२४ ॥

诸神啊,那位尊贵的祭品之载者已在水中沉睡;他以自身的光焰与水相融,因此我们被灼烧了。

13.131.25

तस्य दर्शनमिष्टं वो यदि देवा विभावसोः ।
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना ॥ १३.१३१.२५ ॥

诸天啊,若你们愿见毗婆娑(火神),若你们的事与火有关,便去那里成就它吧。

13.131.26

गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः ।
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥ १३.१३१.२६ ॥

“我们诸神因畏惧火神,将自己去完成此事;你们走吧。”说完这些,青蛙便急忙潜入水中。

13.131.27

हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम् ।
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥ १३.१३१.२७ ॥

然而火神察觉了青蛙的背叛。他走近青蛙,诅咒道:“你将不知滋味。”

13.131.28

तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ ।
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत् ॥ १३.१३१.२८ ॥

火神以诅咒束缚了青蛙,便急速离去,另择他处居住,不再显现自身。

13.131.29

देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम ।
यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥ १३.१३१.२९ ॥

然而诸神却对青蛙施以恩惠。婆利古之最,大臂者啊,请听我全部所说。

13.131.30

अग्निशापादजिह्वाऽपि रसज्ञानबहिष्कृताः ।
सरस्वतीं बहुविधां यूममुच्चारयिष्यथ ॥ १३.१३१.३० ॥

“虽因火神的诅咒而失去舌头,被排除在味觉知识之外,你们仍将以多种形式发出萨拉斯瓦蒂(语言)之声。”

13.131.31

बिलवासं गतांश्चैव निराहारानचेतसः ।
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ॥ १३.१३१.३१ ॥

你们住在洞穴中,饥饿无知,即使死去干枯,大地也将承载你们。

13.131.32

तमोघनायामपि वै निशायां विचरिष्यथ ।
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ॥ १३.१३१.३२ ॥

诸神对他们说:“你们即使在浓黑的夜里也将游荡。”说完,诸神便再次回到这片大地。

13.131.33

परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ।
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः ॥ १३.१३१.३३ ॥

他们为寻找火而四处奔走,却没有找到祭火之神。于是一头如同因陀罗之象的大象来到他们面前。

13.131.34

अश्वत्थस्थोऽग्निरित्येवमाह देवान्भृगूद्वह ।
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्च्छितः ॥ १३.१३१.३४ ॥

“栖于无花果树上的火神如此说”——他这样告诉诸神后,啊,婆利古族的最优者,被愤怒迷乱的火神诅咒了所有的象。

13.131.35

प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ।
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः।
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥ १३.१३१.३५ ॥

“你们的舌头将变得不顺”,啊,婆利古族的最优者,说完这话,由象所指示的火便离开无花果树,进入了沙米树的心中;然后,火因想要睡眠而藏在那里。

13.131.36

अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो ।
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः ॥ १३.१३१.३६ ॥

啊,主上,请听诸神赐予大象的恩惠:啊,婆利古族的最优者,具有真正威力的诸神以爱心做了此事。

13.131.37

प्रतीपया जिह्वयाऽपि सर्वाहारान्हरिष्यथ ।
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम्।
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥ १३.१३१.३७ ॥

“即便用倒转的舌头,你也将吞食一切食物;你将高声发出含混不清的音节。”说完这些,诸神又跟随着火神而去。

13.131.38

अश्वत्थान्निःसृतश्चाग्निः शमीगर्भमुपाविशत् ।
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥ १३.१३१.३८ ॥

火神从菩提树中出来,进入了沙弥树的树心。婆罗门啊,经鹦鹉指点后,诸神便向他冲去。

13.131.39

शशाप सुकमग्निस्तु वाग्विहीनो भविष्यसि ।
जिह्वामावर्तयामास तस्यापि हुतभुक्तदा ॥ १३.१३१.३९ ॥

火神诅咒鹦鹉:“你将失去言语。”那时,这位吞食祭品的火神也将舌头向后翻转。

13.131.40

दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः ।
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति ॥ १३.१३१.४० ॥

诸神见火焰熊熊,心怀慈悲,对鹦鹉说:“在鹦鹉的状态中,你不会完全失去言语。”

13.131.41

आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति ।
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥ १३.१३१.४१ ॥

尽管你的舌头已经倒转,你的话语仍将动听,如同孩童或成人那含混而奇妙的呢喃。

13.131.42

इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः ।
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥ १३.१३१.४२ ॥

诸神说完这些,察觉到沙弥树心中的火,便将此地立为一切祭仪中的圣所。

13.131.43

तदाप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते ।
उत्पादने तथोपायमभिजग्मुश्च मानवाः ॥ १३.१३१.४३ ॥

从那时起,火便见于沙密树的内部,人们也采用同样的方法来取火。

13.131.44

आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना ।
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव।
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ॥ १३.१३१.४४ ॥

被光芒璀璨者触及的下界之水,经由山泉释放热气,婆利古之子啊;被他的光辉灼烧,它们卧于净化者之下。

13.131.45

अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा ।
किमागमनमित्येवं तानपृच्छत पावकः ॥ १३.१३१.४५ ॥

那时,火神见到诸神,心中不安,便问他们:“诸位来此的缘由是什么?”

13.131.46

तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः ।
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति।
कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥ १३.१३१.४६ ॥

于是诸天神和至高仙人对他说:“我们将委派你一件事,由你来完成最为合适。事成之后,对你也有极大的益处。”

13.131.47

अग्निरुवाच ।
ब्रूत यद्भवतां कार्यं कर्तास्मि तदहं सुराः।
भवतां तु नियोज्योस्मि मावोत्रास्तु विचारणा ॥ १३.१३१.४७ ॥

火神说:“诸天神啊,请告诉我你们的任务是什么,我必会去做。请委派我吧,不要有任何恐惧或疑虑。”

13.131.48

असुरस्तारको नाम ब्रह्मणो वरदर्पितः ।
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥ १३.१३१.४८ ॥

“梵天所赐之恩使其骄狂的阿修罗名叫怛剌迦,他以力量压迫我们;请安排将他诛杀。”

13.131.49

इमान्देवगणांस्तात प्रजापतिगणांस्तथा ।
ऋषींश्चापि महाभाग परित्रायस्व पावक ॥ १३.१३१.४९ ॥

亲爱的,伟大吉祥的火神啊,请保护这些天神群、同样的生主群以及仙人们。

13.131.50

अपत्यं तेजसा युक्तं प्रवीरं जनयक प्रभो ।
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥ १३.१३१.५० ॥

主啊,请生下一位充满光辉的英勇子嗣,使他消除我们因那阿修罗而生的恐惧,持供物者啊。

13.131.51

शप्तानां नो महादेव्या नान्यदस्ति परायणम् ।
अन्यत्र भवतो वीर तस्मात्त्रायस्व नः प्रभो ॥ १३.१३१.५१ ॥

我们被伟大的女神诅咒,除你之外再无他处可依,英雄啊。因此,主啊,请保护我们。

13.131.52

इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यवाहनः ।
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥ १३.१३१.५२ ॥

如此被请求后,他说:“就这样吧。”于是不可战胜的尊贵的持供物者火神,前往恒河,即婆吉罗陀之女。

13.131.53

तया चाप्यभवन्मिश्रो गर्भं चास्यां दधे तदा ।
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥ १३.१३१.५३ ॥

他与她结合,并在她体内孕育了胚胎;那胚胎便如林中行进的黑色火焰一般生长起来。

13.131.54

तेजसा तस्य देवस्य गङ्गा विह्वलचेतना ।
सन्तापमगमत्तीव्रं वोढुं सा न शशाक ह ॥ १३.१३१.५४ ॥

恒河女神被那神的光辉所扰,心神慌乱,陷入剧烈的痛苦,却无法承受。

13.131.55

आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते ।
गङ्गायामसुरः कश्चिद्भैरवं नादमानदत् ॥ १३.१३१.५५ ॥

当火神将充满光辉的胚胎置入恒河之中时,某个阿修罗发出了可怕的吼声。

13.131.56

अबुद्धिपतितेनाथ नादेन विपुलेन सा ।
वित्रस्तोद्धान्तनयना गङ्गा विप्लुतलोचना ॥ १३.१३१.५६ ॥

恒河被那突然而巨大的吼声惊吓,双眼惊慌失措,神志迷乱。

13.131.57

विसंज्ञा नाशकद्गर्भं वोढुमात्मानमेव च ।
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी ॥ १३.१३१.५७ ॥

她神志昏乱,既无法承载胚胎,也无法支撑自身;那身体被光辉笼罩、浑身颤抖的,便是贤那之女恒河。

13.131.58

उवाच ज्वलनं विप्र तदा गर्भबलोद्धुता ।
नते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे ॥ १३.१३१.५८ ॥

于是恒河被胎中之力所激荡,对火神说:"婆罗门啊,尊者啊,我无力承载这份光辉。"

13.131.59

विमूढाऽस्मि कृताऽनेन न मे स्वास्ध्यं यथा पुरा ।
विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ ॥ १३.१३१.५९ ॥

它使我迷乱,我的平静已不同于往昔。尊者啊,我已惊惶失措,我的心神已经丧失,无垢者啊。

13.131.60

धारणे नास्य शक्ताऽहं गर्भस्य तपतांवर ।
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ॥ १३.१३१.६० ॥

光辉者中的最杰出者啊,我无力承载这个胚胎。出于痛苦,我将舍弃它,但绝非出于私欲。

13.131.61

न तेजसाऽस्ति संस्पर्शो मम देव विभावसो ।
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ॥ १३.१३१.६१ ॥

天神毗婆娑啊,我与你的光焰并无任何接触。大光明者啊,这极其微妙的关联只是为了灾难而产生。

13.131.62

यदत्र गुणसम्पन्नमितरद्वा हुताशन ।
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥ १३.१३१.६२ ॥

火神啊,此间凡有功德者,或凡是他物,我都认为只在你之中;法与非法二者,都只依赖于你。

13.131.63

तामुवाच ततो वह्निर्धार्यतां धार्यतामिति ।
गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥ १३.१३१.६३ ॥

于是火神对她说:“承受着,承受着。”此胎与我的光焰相连,将生出大功德与大果报。

13.131.64

शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा ।
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते ॥ १३.१३१.६४ ॥

你确实能够承载并支撑整个大地。除了承持之外,对你而言并无从他处不可得之物。

13.131.65

एवमुक्ता तु सा देवी तत्रैवान्तरधीयत ।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्।
जगामेष्टं तदा देशं ततो भार्गवनन्दन ॥ १३.१३१.६५ ॥

如此说完,那女神便在当场隐没了。光辉的火神也完成了诸天的使命,随即前往自己想去的地方。于是,婆利古之子啊!

13.131.66

सा वह्निना वार्यमाणा देवैरपि सरिद्वरा ।
समुत्ससर्ज तं गर्भं मेरौ गिरिवेर तदा ॥ १३.१३१.६६ ॥

尽管被火神乃至诸天阻拦,那最殊胜的河流当时还是把那胎儿抛在了须弥山上,即群山之最。

13.131.67

समर्था धारणे चापि रुद्रतेजःप्रधर्षिता ।
नाशकत्सा तदा गर्भं सन्धारयितुमोजसा।
समुत्ससर्ज तं दुःखाद्दीप्तवैश्वानरप्रभम् ॥ १३.१३१.६७ ॥

她虽有能力承载,却被楼陀罗的光芒所压制,当时无力以自身之力保住那胎儿。她痛苦地将它放出,那胎儿闪耀如燃烧的烈火。

13.131.68

दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ।
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥ १३.१३१.६८ ॥

于是阿耆尼向恒河显现。啊,婆利古族中最优秀的人,他问这河流中最殊胜者,胎儿是否会安然诞生。

13.131.69

कीदृग्गुणोपि वा देवि कीदृग्रूपश्च दृश्यते ।
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥ १३.१३१.६९ ॥

女神啊,它具有怎样的品性,呈现怎样的形貌?它具备怎样的光辉?请将这一切告诉我。

13.131.70

गङ्गोवाच ।
जातरूपः स गर्भो वै तेजसा त्वमिवानघ।
सुवर्णो विमलो दीप्तः पर्वतं चावभासयन् ॥ १३.१३१.७० ॥

恒河说:啊,无垢者,那胎儿呈金色之形,光辉如同你。它纯净、金黄、光耀,照亮了山峦。

13.131.71

पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः ।
गन्धोस्य स कदम्बानां तुल्यो वै तपतांवर ॥ १३.१३१.७१ ॥

它的香气清凉,如同混杂着莲花与睡莲的湖泊。啊,苦行者中最殊胜者,它与金合欢树的香气相等。

13.131.72

तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः ।
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च।
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥ १३.१३१.७२ ॥

借着那胎儿的光辉,如同太阳的光线,地上和山上凡被它触及之物,尽皆化为金色,并且四处可见。

13.131.73

पर्यधावत शैलांश्च नदीः प्रस्रवणानि च ।
व्यादीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥ १३.१३१.७३ ॥

他奔向山岳、河流与泉源,以其光辉点燃了三界及其中的动与不动之物。

13.131.74

एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन ।
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ॥ १३.१३१.७४ ॥

哈维亚瓦哈那啊,你的儿子是如此形貌的世尊,与太阳和吠舍婆罗相等,光辉犹如另一位月神。

13.131.75

एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्।
जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥ १३.१३१.७५ ॥

女神说完,便在那里消失了;光辉的帕伐迦完成了天界的使命,便前往他所愿之处。于是,婆利古之子啊,

13.131.76

एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते ।
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा।
पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥ १३.१३१.७६ ॥

因此种业绩与功德,世间称颂火神此名——仙人与智慧诸天称之为“金精”(Hiraṇyaretas);那时,大地女神也因之得名“宝藏”(Vasumatī)。

13.131.77

स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः ।
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥ १३.१३१.७७ ॥

那胎儿大放光明,是恒河之子,由火而生;他到达神圣的芦苇丛中,逐渐长大,形貌奇妙。

13.131.78

ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् ।
जातस्नेहास्तु तं बालं पुपुषुः स्तन्यविस्रवैः ॥ १३.१३१.७८ ॥

昴宿诸女见到他,其光辉如初升之日;她们心生爱怜,以乳汁哺育那孩童。

13.131.79

ततः स कार्तिकेयत्वमवाप परमद्युतिः ।
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥ १३.१३१.७९ ॥

于是这位光辉至上者获得了迦尔提开耶的身份。因为他曾滑落(skanna),得名斯建陀;因为他居于洞穴,成为古诃。

13.131.80

एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः ।
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥ १३.१३१.८० ॥

如是,金从火神(Jātavedas)的子嗣中生出。在那里显现出名为阎浮那陀的殊胜之金,连诸天也以之为饰。

13.131.81

ततःप्रभृति चाप्येतञ्जातरूपमुदाहृतम् ।
रत्नानामुत्तमं रत्नं भूषणानां तथैव च ॥ १३.१३१.८१ ॥

自那时起,此金便被称为“生色”(jātarūpa)。它是宝石中最上的宝石,也是饰物中最上的饰物。

13.131.82

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥ १३.१३१.८२ ॥

金是诸净物中最净者,诸吉祥中最吉祥者;此金即是尊贵的火神、自在主、生主(Prajāpati)。

13.131.83

पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः ।
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥ १३.१३१.८३ ॥

诸位二生者中之最上者啊!金确实是诸净物中最净者;这生色之金以火与苏摩为其本性,被宣说如此。