摩诃婆罗多 · 章 13.135
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.135.1
किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः ।
किंस्विद्वहुफलं प्रोक्तं किमानन्त्याय कल्पते ॥ १३.१३५.१ ॥
以何物供奉祖先,才能如主宰一般永不衰竭?何物被宣说为果报丰厚?何物适于无穷?
13.135.2
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ १३.१३५.२ ॥
在祭祖(श्राद्ध)之仪中,知晓者所知的供物,以及其所欲之果报,युधिष्ठिर,请从我这里听来。
13.135.3
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥ १३.१३५.३ ॥
以芝麻、稻米、大麦、黑豆、水、根茎与果实作供奉于祭祖之仪,大王,祖先因此欢喜一月。
13.135.4
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् ।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥ १३.१३५.४ ॥
摩奴曾说,增添芝麻所行之祭祖(श्राद्ध)永不衰竭;在一切供食之中,芝麻被认为最为殊胜。
13.135.5
द्वौ मासौ तु भवेत्तुप्तिर्मत्स्यैः तितृगणस्य ह ।
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह ॥ १३.१३५.५ ॥
以鱼供奉,祖先满足两月;以雉鸡之肉,亦然。以羊肉则三月,以兔肉则四月,据说如此。
13.135.6
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप ।
वाराहेण तु षण्मासान्सप्त वै शाकुलेन तु ॥ १३.१३५.६ ॥
大王,以山羊肉供奉,祖先欢喜五月;以野猪肉则六月,以沙古罗鱼则七月。
13.135.7
मासानष्टौ पार्षतेन रौरवेण नव प्रभो ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ १३.१३५.७ ॥
主啊,以帕尔沙塔鹿之肉,满足可持续八个月;以鲁卢鹿之肉,九个月;以牛羚(gavaya)之肉,则可持续十个月。
13.135.8
मांसेनेकादश प्रीतिः पितॄणां माहिषेण तु ।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥ १३.१३५.८ ॥
以肉供奉,祖先满足十一个月;水牛肉亦然。若以牛制品行施食祭(śrāddha),此处说可持续一整年。
13.135.9
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह ।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ १३.१३५.९ ॥
正如牛制品适宜,加酥油的乳米粥也适宜。以瓦德里那萨兽之肉,满足可持续十二年。
13.135.10
आन्त्याय भवेद्दतं खङ्गमांसं पितृक्षते ।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥ १३.१३५.१० ॥
在末祭(āntya)中供奉的犀牛肉,适用于祖先祭礼;黑叶菜与铁亦然。若求无尽之果,则说山羊最为适宜。
13.135.11
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर ।
सनत्कुमारो भगवान्पुरा मध्यभ्यभाषत ॥ १३.१३५.११ ॥
ユディシュティラよ,关于此事,《祖灵之歌》(Pitṛ-gītā)的诗句也被传唱。尊者萨那特枯马罗昔日曾说之。
13.135.12
अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने ॥ १३.१३५.१२ ॥
愿我族中有人出生,于朔望后第十三日,在摩伽星宿下,太阳南行之时,以加酥油的乳米粥供奉我们。
13.135.13
आजेन वाऽपि लौहेन मघास्वेव यतव्रतः ।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥ १३.१३५.१३ ॥
无论用山羊肉还是用铁器,只在摩伽星宿之时,持守严格誓戒,在象影之下,依规而行,以耳扇轻扇。
13.135.14
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।
यत्रासौ प्रथितो लोकेष्वक्ष्यकरणो वटः ॥ १३.१३५.१४ ॥
应当期望多子;即使其中一人前往伽耶,那里有在诸世界中著名的、能带来不朽功德的榕树。
13.135.15
आपो मूलं फलं मांसमन्नं वाऽपि पितृक्षये ।
यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥ १३.१३५.१५ ॥
在祖先祭祀之时,水、根、果、肉或食物,凡与蜂蜜混合者,皆可成就无尽的功德。