Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.139

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.139.1

तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः ।
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥ १३.१३९.१ ॥

此规则确立之后,诸大仙依照规则所载之仪轨,举行祭祖之祀。

13.139.2

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत ।
तर्पणं चापि कुर्वन्त तीर्थांभोभिर्यतव्रताः ॥ १३.१३९.२ ॥

恒守法度的诸仙,既行施食之供,又以圣渡口之水行奠水之礼,皆持守制欲之誓。

13.139.3

निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत ।
तर्पिताः पितरो देवास्तत्रान्नं जरयन्ति वै ॥ १३.१३९.३ ॥

婆罗多啊,祖先与诸神受四种姓之人所施的尼婆罗供养而满足,便在那里消化食物。

13.139.4

अजीर्णैस्त्वभिहन्यन्ते ते देवाः पितृभिः सह ।
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः ॥ १३.१३९.४ ॥

诸神为消化不良所苦,与祖先一同前往月神苏摩处,因为他们当时为食物所困扰。

13.139.5

तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः ।
निवापान्नेन पीड्यामः श्रेयो नोत्र विधीयताम् ॥ १३.१३९.५ ॥

诸祖先为消化不良所苦,走近苏摩说道:“尼婆罗供养之食使我们受苦,愿在此确定有益之法。”

13.139.6

तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः ।
स्वयंभूसदनं यात स वः श्रेयोऽभिधास्यति ॥ १३.१३९.६ ॥

苏摩于是回答他们:“诸天啊,若欲求善利,便往自生者(梵天)的居所去吧;他会为你们宣示善利。”

13.139.7

ते सोमवचनाद्देवाः पितृभिः सह भारत ।
मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥ १३.१३९.७ ॥

婆罗多啊,依照月神的话,诸神与祖灵一起前往坐在须弥山峰上的祖父那里。

13.139.8

निवापान्नेन भगवन्भृशं पीड्यामहे वयम् ।
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥ १३.१३९.८ ॥

尊贵的主啊,我们因祭祖之食而极为苦恼。神啊,请施恩于我们,为我们安排福祉吧。

13.139.9

इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति। ॥ १३.१३९.९ ॥

自生者听了他们的话,说道:「我身旁的这火将成就你们的福祉。」

13.139.10

सहितास्तस्य भोक्ष्यामो निवापे समुपस्थिते ।
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥ १३.१३९.१० ॥

祖先祭祀之时到来,我们将与他一同享用;你们也将与我一同消化食物,毫无疑问。

13.139.11

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन् ।
एतस्मात्कारणाच्चाग्नेः प्राग्भागो दीयते नृप ॥ १३.१३९.११ ॥

祖灵听闻此言,便摆脱了热病。国王啊,正因此故,祭祀时先将第一份供给火神。

13.139.12

निवापे चाग्निपूर्वं वै निवृत्ते पुरुषर्षभ ।
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ॥ १३.१३९.१२ ॥

人中之牛啊,祭祖始于火祭,完成之后,梵罗刹便不会侵扰那祭品。

13.139.13

रक्षांसि नाभिवर्धन्ते स्थिते देवे हुताशने ।
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे ॥ १३.१३९.१३ ॥

当神火阿耆尼安住于祭火之中时,罗刹不会增长。应先供奉团饭给父亲,然后供给祖父。

13.139.14

प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ।
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः।
सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ १३.१३९.१४ ॥

然后应供给曾祖父。这就是所宣示的祭祖仪轨。在祭祖时,应心神专注,于每个团饭上诵念萨维德丽咒,并且还要说“献给月神”,以及同样说“具有诸父”。

13.139.15

रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या ।
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजा ॥ १३.१३९.१५ ॥

月经中的女子,或耳朵有残缺的女子,不应在献祭时出席。出身于其他家族的女子也不应被接纳。

13.139.16

जलं प्रतरमाणस्च कीर्तयेत पितामहान् ।
नदीमासाद्य कुर्वीत पितॄणां पितृतर्पणम् ॥ १३.१३९.१६ ॥

渡水时,应念诵祖父们的名号。到达河边后,应为诸父行水祭。

13.139.17

पूर्वं स्ववंशजानां तु कृत्वा।द्भिस्तर्पणं पुनः ।
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥ १३.१३९.१७ ॥

先为自己宗族中出生的人以水行祭,然后再向朋友和亲属之群体奉献一掬水。

13.139.18

कल्माषगोयुगेनाथ युक्तेन तरतो जलम् ।
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः ॥ १३.१३९.१८ ॥

祖先们渴望那以一对斑纹母牛驾车渡水之人,也渴望那登上船只之人。

13.139.19

सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ।
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै ॥ १३.१३९.१९ ॥

在船上,知晓此仪式者常以专注之心献水;在黑半月的半月之时,应当举行涅伐帕那供奉。

13.139.20

पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः ॥ १३.१३९.२० ॥

凭借对祖先的虔敬,也可得到滋养、长寿、精力与吉祥。

13.139.21

पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा ।
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः। ॥ १३.१३९.२१ ॥

祖父(梵天)、补罗斯底耶、婆悉吒、补罗诃、安吉罗、羯拉度,以及大仙迦叶波。

13.139.22

एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ।
एते च पितरो राजन्नेष श्राद्धविधिः परः। ॥ १३.१३९.२२ ॥

这些人,俱卢族中的最好者,被称为大瑜伽自在者;大王啊,这些便是祖先。此为最上的施罗陀仪轨。

13.139.23

प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ।
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्। ॥ १३.१३९.२३ ॥

亡灵借由与团饭供奉的联结,因此行此仪式而得解脱。人中至尊啊,依照传承,施罗陀的起源即是如此。

13.139.24

व्याख्याता पूर्वनिर्दिष्टा किं ते वक्ष्याम्यतः परम् ॥ १३.१३९.२४ ॥

前面所指示的,已经讲解完毕。除此之外,我还要再对你说什么呢?