摩诃婆罗多 · 章 13.141
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.141.1
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च ।
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह ॥ १३.१४१.१ ॥
人们向婆罗门布施种种施物。祖父啊,施主与受施者之间有何区别?
13.141.2
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः ।
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥ १३.१४१.२ ॥
二生者若从善人受施,也同样从恶人受施,则对有德之施主,过失甚小;对无德之施主,他便沉沦。
13.141.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥ १३.१४१.३ ॥
关于此事,人们也讲述这一古老的传说:婆利沙与达尔跋的对话,以及七仙人的对话,婆罗多之子啊。
13.141.4
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः ।
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥ १३.१४१.४ ॥
迦叶波、阿多利、婆私吒、婆罗堕遮、乔达摩、毗奢蜜多罗、遮摩陀那,以及贤德的阿伦陀蒂。
13.141.5
सर्वेषामथ तेषां तु गण्डाभूत्परिचारिका ।
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥ १३.१४१.५ ॥
他们所有人有一个名叫甘达的女仆,一个与牲畜为友的首陀罗成了她的丈夫。
13.141.6
ते च सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् ।
समाधिना प्रतीक्षन्तो ब्रह्मलोकं सनातनम् ॥ १३.१४१.६ ॥
他们都修苦行,昔日游行于这片大地,安住于三昧,期待永恒的梵天界。
13.141.7
अथाभवदनावृष्टिर्महती कुरुनन्दन ।
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥ १३.१४१.७ ॥
于是,库鲁之乐啊,大旱降临,此世界因饥饿而困苦,艰难地维系着生命。
13.141.8
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना ।
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रोऽनिलः किल ॥ १३.१४१.८ ॥
据说从前某次祭祀中,尸毗之子施主以其子阿尼罗作为酬金交给了祭司。
13.141.9
अस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभुः ।
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ॥ १३.१४१.९ ॥
那时,那位寿命短促的主人走到了命运所定的终点;饥饿所苦的人们围绕着他,走上前来。
13.141.10
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः ।
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥ १३.१४१.१० ॥
那时,最优秀的仙人见施主之子已无生命,又因饥饿而痛苦,便将他在锅中煮了,婆罗多啊。
13.141.11
नाजीव्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः ।
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥ १३.१४१.११ ॥
在这个凡俗世界已无法谋生,想要保全自己的苦行者们,为了食物而陷入艰难的谋生之中。
13.141.12
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः ।
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥ १३.१४१.१२ ॥
那时,在路上徘徊的国王尸毗之子 Vṛṣadarbhi 看见他们正在烹煮,并且饱受煎熬。
13.141.13
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् ।
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः ॥ १३.१४१.१३ ॥
接受确实能超度,因为受施者必得供养。我所拥有的财富,诸位苦行者,请选取吧。
13.141.14
प्रतिग्रहो ब्राह्मणानां सृष्टा वृत्तिरनिन्दिता ।
तस्माद्ददामि वो वित्तं तद्वृणुध्वं तपोधनाः ॥ १३.१४१.१४ ॥
接受是婆罗门被确立的、无可指责的生计。因此我把财富给你们;诸位苦行者,请选取吧。
13.141.15
प्रियो हि मे ब्राह्मणो याचमानो ।
दद्यामहं वोऽश्वतरीसहस्रम्।
धेनूनां दद्यामयुतं समग्र-
मेकैकशः सवृषाः सम्प्रसूताः ॥ १३.१४१.१५ ॥
求乞的婆罗门为我所爱。我将给你们一千头母骡,以及整整一万头母牛,一一交付,连同公牛,且皆已产育。
13.141.16
दग्र्या गृष्टीर्धेनवः सुव्रताश्च ॥ १३.१४१.१६ ॥
上好的、已产过一次的母牛,产奶的乳牛,以及持守善誓的。
13.141.17
वरान्ग्रमान्व्रीहिरसं यवांश्च ।
रत्नं चान्यद्दुर्लभं किं ददानि।
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं ।
पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै ॥ १३.१४१.१७ ॥
上好的村庄、米汁与大麦,以及其他稀有的珍宝——我该给什么?对于不可食用之物,不要抱有这样的念头。为了你们的供养,我究竟该给什么呢?
13.141.18
राजन्प्रतिग्रहो राज्ञं मध्वास्वादो विषोपमः ।
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥ १३.१४१.१८ ॥
国王啊,接受国王的施予,如同蜜的滋味,却如同毒药。你既然知道这一点,为何要诱惑我们?
13.141.19
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥ १३.१४१.१९ ॥
轮者等于十个屠宰场,旗者等于十个磨盘,妓女等于十个旗者,国王等于十个妓女。
13.141.20
दशसूनासहस्राणि यो वाहयति सौनिकः ।
तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः ॥ १३.१४१.२० ॥
能驱使万个屠宰场的屠夫,与之相当的便是国王;他接受施舍是可怕的。
13.141.21
क्षेत्रं हि दैवतमिव ब्राह्मणान्समुपाश्रितम् ।
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥ १३.१४१.२१ ॥
婆罗门依附于人,如同神圣的田地,如同神明。他纯净无垢;因苦行而欢喜,也能令诸神欢喜。
13.141.22
अह्नायेह तपो जातु ब्राह्मणस्योपजायते ।
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥ १३.१४१.२२ ॥
在此,婆罗门的苦行一日可成;若接受国王的施舍,它便如林火般将其焚尽。
13.141.23
कुशलं सह दानेन राजन्नस्तु सदा तव ।
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा तेन्यतो ययुः ॥ १३.१४१.२३ ॥
愿你时常以布施而安康,国王啊。他们说:“把一切都给求乞者。”说完便从那里离开了。
13.141.24
अपक्वमेव तन्मांसमभूत्तेषां महात्मनाम् ।
अथ हित्वा ययु सर्वे वनमाहारकाङ्क्षिणः ॥ १३.१४१.२४ ॥
那些大德者的肉仍未煮熟。于是所有想要食物的人都舍弃它,前往森林去了。
13.141.25
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः ।
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे ॥ १३.१४१.२५ ॥
于是,受国王驱使,他的大臣们前往森林,采集优昙婆罗果,开始向他们奉献。
13.141.26
दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन् ॥ १३.१४१.२६ ॥
众仙人见到这些果实,便跑上前去想要拿取。
13.141.27
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् ।
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥ १३.१४१.२७ ॥
他们又带来了优昙婆罗果以及内里金黄的其他果实。随后,仆人们跑上前,要强使他们接受。
13.141.28
गुरूणीति विदित्वाऽथ न ग्राह्याण्यत्रिरब्रवीत् ।
नास्मेह मन्दविज्ञाना नास्म मानुषबुद्धयः ॥ १३.१४१.२८ ॥
阿底梨知道它们是沉重之物,便说不可接受。我们在此并非愚钝之人,我们的心智也不同于凡人。
13.141.29
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम ।
इह ह्येतदुपावृत्तं प्रेत्य स्यात्कटुकोदयम्।
अप्रतिग्राह्यमेवैतत्प्रेत्येह च सुखेप्सुना ॥ १३.१४१.२९ ॥
我们知道这些是金子;我们清醒且警觉。此物在此朝向我们,死后将带来苦果。求乐之人,无论今生来世,都不应接受它。
13.141.30
शतेन निष्कगुणितं सहस्रेण च सम्मितम् ।
तथा बहु प्रतीच्छन्वै पापिष्ठां लभते गतिम् ॥ १३.१४१.३० ॥
若接受以百尼什卡相乘、以千计量的财物,或大量地接受,便将堕入最为罪恶的归宿。
13.141.31
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥ १३.१४१.३१ ॥
大地上的稻米、大麦、黄金、牲畜与妇女,即使全部给一人也不足够;因此智者应当求得平静。
13.141.32
उत्पन्नस्य रुरोः शृङ्गं वर्दमानस्य वर्धते ।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ १३.१४१.३२ ॥
幼鹿(ruru)的角随其长大而生长;人的渴望亦复如此,找不到它的尺度。
13.141.33
न तल्लोके द्रव्यमस्ति यल्लोभं प्रतिपूरयेत् ।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥ १३.१४१.३३ ॥
世上没有任何财富能够填满贪欲;如同大海一般的人,永远不会被填满。
13.141.34
कामं कामयमानस्य यदा कामः समृध्यते ।
अथैनमपरः काम इष्टो विध्यति बाणवत् ॥ १३.१४१.३४ ॥
当渴望者的渴望得到满足时,另一个所爱的渴望便如箭一般射穿他。
13.141.35
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १३.१४१.३५ ॥
欲望绝不会因享受而平息;如同以祭油喂养的黑火,欲望只会再度燃起并增长。
13.141.36
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥ १३.१४१.३६ ॥
接受布施时的克制必能支撑苦行;而在此,贪婪的婆罗门的财富却会流失。
13.141.37
धर्मार्थं सञ्चयो यो वा द्रव्याणां पक्षसम्मतः ।
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ॥ १३.१४१.३७ ॥
若是为法而积聚,或财物的积聚在旁被认可,此处唯有苦行的积聚胜过财物的积聚。
13.141.38
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः ।
बलीयसो दुर्बलवद्बिभेम्यहमतः परम् ॥ १३.१४१.३८ ॥
因畏惧凶猛者等,我的这些主人都在害怕;如同弱者惧怕强者,我比他们更加惧怕。
13.141.39
यद्वै धर्मात्परं नास्ति तादृशं ब्राह्मणा विदुः ।
विनयात्साधु विद्वांसमुपासेयं यथातथम् ॥ १३.१४१.३९ ॥
婆罗门知道没有比法更高的;应当以谦逊如实地侍奉那位真正有学问的人。
13.141.40
कुशलं सह दानेन तस्मै यस्य प्रजा इमाः ।
फलान्युपधियुक्तानि य एवं नः प्रयच्छति ॥ १३.१४१.४० ॥
愿吉祥与布施一同归于那拥有这些百姓的人,他如此把掺杂欺诈的果实赐给我们。
13.141.41
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते ।
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥ १३.१४१.४१ ॥
说完这些,他们舍弃了那些金色果核的果实,所有坚守誓愿的仙人都去了别处。
13.141.42
अथ ते मन्त्रिणः सर्वे राजानमिदमब्रुवन् ।
उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै।
ततोऽन्यत्रैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥ १३.१४१.४२ ॥
于是那些大臣都对国王这样说;他们怀疑有诈,便舍弃那些果实,去了别处。愿此事为大王所知。
13.141.43
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह ।
तेषां वै प्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥ १३.१४१.४३ ॥
那些仆人如此说后,戉沙达尔毗(Vṛṣādarbhi)大怒。为了报复他们所有人,他回到了家中。
13.141.44
स गत्वाऽऽहवनीयेऽग्नौ तीव्रं नियममास्थितः ।
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः ॥ १३.१४१.४४ ॥
他走到āhavanīya圣火前,发下严格的誓愿,以神圣的咒语一次一次地献上祭品。
13.141.45
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी ।
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥ १३.१४१.४५ ॥
从那火中升起了令世界恐惧的克利提亚(Kṛtyā);戉沙达尔毗为她取名为耶图陀尼(Yātudhānī)。
13.141.46
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।
वृषादर्भि नरपतिं किं करोमीति चाब्रवीत् ॥ १३.१४१.४६ ॥
那位如死亡之夜般的克利提亚双手合十,站在国王戉沙达尔毗面前,说道:“我该做什么?”
13.141.47
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च ।
दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥ १३.१४१.४७ ॥
去见七位仙人和阿伦陀蒂;同样,要在心中牢记仆人之主和女仆的名字。
13.141.48
ज्ञात्वा नामानि चैवैषां सर्वानेतान्विनाशय ।
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव ॥ १३.१४१.४८ ॥
知道了他们的名字后,把他们全部消灭;待他们被消灭之后,你便可随意前往你想去的任何地方。
13.141.49
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी ।
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥ १३.१४१.४९ ॥
她答应说:“就这样吧。”便以自己的本相前往那片森林,那些大仙人正在林中游行。