Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.142

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.142.1

अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः ।
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥ १३.१४२.१ ॥

大王啊,以阿特里为首的大仙人们在那片森林中漫游,食用根茎与果实。

13.142.2

अथापश्यन्सुपीनांसपाणिपादमुखोदरम् ।
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनस्सखम् ॥ १३.१४२.२ ॥

随后他们看见一位游方苦行者,肩膀、手足、面部和腹部都很丰满,四肢粗壮,是狗的朋友。

13.142.3

अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम् ।
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥ १३.१४२.३ ॥

然而阿兰陀蒂见他全身丰满而吉祥,便对诸仙人说:“你们不会成为那样的。”

13.142.4

नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम् ।
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनस्सखः ॥ १३.१४२.४ ॥

在这里他没有像我们那样的火祭,必须早晚不缺地供奉。因此这位狗的朋友养得肥胖。

13.142.5

नैतस्येह यथाऽस्माकं क्षुधया वीर्यमाहतम् ।
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुनस्सखः ॥ १३.१४२.५ ॥

在这里他的力量不像我们那样被饥饿击垮,他艰难习得的学问也不会丢失。因此这位狗的朋友养得肥胖。

13.142.6

नैतस्येह यथाऽस्माकं शश्वच्छास्त्रकृतो ज्वरः ।
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनस्सखः ॥ १३.१४२.६ ॥

在这里他没有像我们那样因研习经典而长期发热。他懒惰,是一个只顾饥饿的愚人。因此这位狗的朋友养得肥胖。

13.142.7

नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च ।
सञ्चित्यं वार्षिकं चित्ते तेन पीवाञ्शुनस्सखः ॥ १३.१४२.७ ॥

这里他没有像我们那样的食物和燃料,心中也没有为一年储备的念头;因此他是肥狗的朋友。

13.142.8

नैतस्येह यथाऽस्माकं चत्वारश्च सहोदराः ।
देहिदेहीति भिक्षन्ति तेन पीवाञ्शुनस्सखः ॥ १३.१४२.८ ॥

这里他没有像我们那样四个兄弟口中说着“给我,给我”乞讨;因此他是肥狗的朋友。

13.142.9

नैतस्येह यथाऽस्माकं ब्रह्मबन्धोरचेतसः ।
शोको भार्यापवादेन तेन पीवाञ्शुनस्सखः ॥ १३.१४२.९ ॥

这里这个只有婆罗门之名、愚昧无知的人,没有像我们那样因妻子受诽谤而生的悲伤;因此他是肥狗的朋友。

13.142.10

नैतस्येह यथाऽस्माकं त्रिकौशेयं च राङ्कवम् ।
एकैकं वै त्रिवर्षीयं तेन पीवाञ्शुनस्सखः ॥ १३.१४२.१० ॥

这里他没有像我们那样三件丝衣,也没有可用三年的罗卢鹿皮垫;因此他是肥狗的朋友。

13.142.11

अथ दृष्ट्वा परिव्राट् स तान्महर्षीञ्शुनस्सखः ।
अभिवाद्य यथान्यायं पाणिस्पर्शमथाचरत् ॥ १३.१४२.११ ॥

那位狗友游方苦行者看见那些大仙,便依礼恭敬致礼,随后以手相触。

13.142.12

परिचर्यां वने तां तु क्षुत्प्रतीकारकाङ्क्षिणः ।
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥ १३.१४२.१२ ॥

那些渴望解除饥饿的人,彼此相告林中那项服侍之事后,便一同启程了。

13.142.13

एकनिश्चयकार्याश्च व्यचरन्त वनानि ते ।
आददानाः समुद्धृत्य मूलानि च फलानि च ॥ १३.१४२.१३ ॥

他们怀着同一个决心与目的,在森林中漫游,挖掘根茎并采集果实。

13.142.14

कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् ।
शुचिपूर्णप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥ १३.१४२.१४ ॥

有一次,他们漫游时看见一座美丽的莲池,被茂密的树木环绕,池中充满清澈纯净的水。

13.142.15

बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् ।
वैडूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥ १३.१४२.१५ ॥

池中点缀着如初升太阳身躯般光辉的莲花,并被如青金石颜色的荷叶覆盖。

13.142.16

नानाविधैश्च विहगैर्जलप्रवरसेविभिः ।
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥ १३.१४२.१६ ॥

各种各样的鸟类都来此饮用上好的水;只有一个入口,难以接近,有良好的渡口,且没有淤泥。

13.142.17

वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना ।
यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥ १३.१४२.१७ ॥

受 Vṛṣa 与 Darbhi 咒术所遣的一位形貌扭曲的 kṛtyā,名为药叉女(yātudhānī),守护着那座莲池。

13.142.18

शुनस्सखसहायास्तु बिसार्थं ते महर्षयः ।
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥ १३.१४२.१८ ॥

这些大仙人以狗为伴侣与助手,全都为了莲茎而前往那座由 kṛtyā 守护的莲池。

13.142.19

ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् ।
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥ १३.१४२.१९ ॥

于是众大仙见那站在莲池岸边、形貌丑陋的夜叉女,便对大神变女说道。

13.142.20

एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम् ।
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥ १३.१४२.२० ॥

你为何独自站在这里?你是谁?为了谁、有何目的而来到莲池岸边?请告诉我们,你想做什么?

13.142.21

याऽस्मि काऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन ।
आरक्षिणीं मा पद्मिन्या वित्त सर्वे तपोधनाः ॥ १३.१४२.२१ ॥

无论我是谁,你们都不必以任何方式追问我。诸位苦行的宝藏啊,请知道我是莲池的守护者。

13.142.22

सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः ।
भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत ॥ १३.१४२.२२ ॥

我们都饥饿难耐,别无他物。若得你的允许,我们便都取那莲藕之茎吧。

13.142.23

समयेन बिसानीतो गृह्णीध्वं कामकारतः ।
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥ १३.१४२.२३ ॥

依我们的约定,你们可以随意从这里取莲茎。每人先念出我的名字,然后再取;不要迟延。

13.142.24

विज्ञाय यातुधानीं तां कृत्यमृषिवधैषिणीम् ।
अत्रिः क्षुधा परीतात्मा ततो वचनमब्रवीत् ॥ १३.१४२.२४ ॥

阿底梨知道那夜叉女大神变想要杀害诸仙,心中因饥饿而苦恼,便说出了这些话。

13.142.25

अरात्त्रिरत्त्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै ।
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥ १३.१४२.२५ ॥

阿罗特利,阿特利:今日不三次诵读的那个夜晚。光彩照人的女子啊,请知道我的名字正是这样:阿罗特利,阿特利。

13.142.26

यथोदाहृतमेतत्ते त्वया नाम महाद्युते ।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.२६ ॥

光辉伟大的人啊,你所说的这个名字很难记在心里。去吧,走下莲花池。

13.142.27

वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि ।
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्दि माम् ॥ १३.१४२.२७ ॥

我是婆罗门仙人伐悉瑟德,至上者;我也居住于房屋之中。因为至上与居住,你应知我为伐悉瑟德。

13.142.28

नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.२८ ॥

你这个名字是依词源而成的,其音节说出来很费力,无法记住。去吧,走下莲花池。

13.142.29

कुलंकुलं च कुवमः कुवमः कश्यपो द्विजः ।
काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥ १३.१४२.२९ ॥

Kulaṃkula,kuvamaḥ,kuvamaḥ——我是再生婆罗门迦叶波,属迦尸族。因为我像迦尸草,所以请记住这就是我的名字。

13.142.30

यथोदाहृतमेतत्ते मयि नाम महाद्युते ।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.३० ॥

光辉伟大的人啊,你为我所说的这个名字很难记在心里。去吧,走下莲花池。

13.142.31

भरेऽसुतान्भरे पोष्यान्भरे देवान्भरे द्विजान् ।
भरे भार्यामहं व्याजाद्भरद्वाजोऽस्मि शोभने ॥ १३.१४२.३१ ॥

我供养儿子,供养应当扶养的人,供养诸神,供养再生者,供养妻子;光辉的女子啊,我是婆罗堕遮。

13.142.32

नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.३२ ॥

你的名字是依词源构成的,每个音节都带着悲伤说出;无法承受。去吧,下到莲池中去。

13.142.33

गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात् ।
विद्धि मां गोतमं कृत्ये यातुधानि निबोध मां ॥ १३.१४२.३३ ॥

我名为瞿昙——因为调伏、无烟,又以平等之心看待你;你应当知道我是乔答摩。女巫啊,罗刹女啊,请理解我。

13.142.34

यथोदाहृतमेतत्ते मयि नाम महामुने ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.३४ ॥

你在我身上所说的这个名字,大仙啊,无法承受。去吧,下到莲池中去。

13.142.35

विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा ।
विश्वामित्र इति ख्यातं यातुधानि निबोध मां ॥ १३.१४२.३५ ॥

诸天众神是我的朋友,我也是牛群的朋友;罗刹女啊,请认出我,我就是名为毗舍蜜多罗的人。

13.142.36

नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.३६ ॥

你的名字是依词源构成的,每个音节都带着悲伤说出;无法承受。去吧,下到莲池中去。

13.142.37

जाजमद्यजजानेऽहं जिजाहीह जिजायिषि ।
जमदग्निरिति ख्यातं ततो मां विद्धि शोभने ॥ १३.१४२.३७ ॥

我是遮遮、摩陀耶遮、遮遮那'ham、吉遮诃诃、吉遮耶湿;我以“阇摩陀吉尼”之名闻名,故你当知我,哦,光彩照人者。

13.142.38

यथोदाहृतमेतत्ते मयि नाम महामुने ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.३८ ॥

哦,大仙,你如此为我命名,这是不能忍受的。去吧,走下莲池。

13.142.39

धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् ।
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥ १३.१४२.३९ ॥

支撑大地者,婆娑陀;我紧随丈夫而立。紧随丈夫之心,故你当知我为阿伦陀蒂。

13.142.40

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.४० ॥

这是你的词源之名,音节说来令人痛苦。这是不能忍受的。去吧,走下莲池。

13.142.41

वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते ।
तेनोन्नतेन गण्डेति विद्धि माऽनलसम्भवे ॥ १३.१४२.४१ ॥

口的一部分,人们称此词根为“遮达”(脸颊)。因那隆起之处,你当知我为“遮达”,哦,火生者。

13.142.42

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ १३.१४२.४२ ॥

这是你的词源之名,音节说来令人痛苦。这是不能忍受的。去吧,走下莲池。

13.142.43

पशून्यञ्जामि दृष्ट्वाऽहं पशूनां च सदा सखा ।
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥ १३.१४२.४३ ॥

我见到牲畜,便常以其友的身份行祭。请知道我生于火中,以次要之名称为畜友。

13.142.44

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ १३.१४२.४४ ॥

你这由悲苦中所说之音节构成的名号词源,不可承受。去吧,下到莲池中去。

13.142.45

एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे ।
शुनःसखसखायं मां यातुधान्युपधारय ॥ १३.१४२.४५ ॥

我不敢在此像他们那样说出名字。夜叉女,请把我理解为狗友之友。

13.142.46

नाम न व्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा ।
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥ १३.१४२.४६ ॥

名字未曾清楚说出,语句以含混之声说出。因此,婆罗门啊,现在请再说一次你的名字。

13.142.47

सकृदुक्तं मया नाम न गृहीतं त्वया यदि ।
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥ १३.१४२.४७ ॥

我已经说过一次名字;若你未曾领会,则被三杖击中,化为灰烬去吧,莫要迟延。

13.142.48

सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा ।
कृत्या पपात मेदिन्यां भस्म साच जगाम ह ॥ १३.१४२.४८ ॥

于是她被那如婆罗门杖一般的杖击中头顶;伪造的罗刹女倒在地上,她也化为灰烬而去。

13.142.49

शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् ।
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥ १३.१४२.४९ ॥

狗友仙人杀死了那位大力的食人鬼女后,把三杖插在地上,坐在草地上。

13.142.50

ततस्ते मुनयः सर्वेः पुष्कराणि बिसानि च ।
यथाकाममुपादाय समुत्तस्थुर्मुदाऽन्विताः ॥ १३.१४२.५० ॥

于是众仙人随意取了莲花与莲茎,欢喜地站起身来。

13.142.51

श्रमेण महता युक्तास्ते बिसानि कलापशः ।
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ १३.१४२.५१ ॥

众人极为疲惫,把成捆的莲茎放在池塘岸边,用水行了奉献祭。

13.142.52

अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् ।
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ॥ १३.१४२.५२ ॥

众人从水中起身走近,啊,人中雄牛,却完全看不见那些莲茎了。

13.142.53

केन क्षुधाभिभूतानामस्माकं पापकर्मणाम् ।
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥ १३.१४२.५३ ॥

是哪个残忍的人,拿走了我们这些被饥饿所折磨、渴望食物的罪人的莲茎?

13.142.54

ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः ।
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥ १३.१४२.५४ ॥

众位最优秀的再生者彼此猜疑,互相询问。随后他们都说:“我们发誓”,啊,折磨敌人的人。

13.142.55

त उक्त्वा बाढमित्येव सर्व एव तदा समम् ।
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥ १३.१४२.५५ ॥

他们说:“好吧。”于是众人一同,因饥饿所苦、极度疲惫,便开始立誓。

13.142.56

स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु ।
अध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥ १३.१४२.५६ ॥

偷窃莲藕之人,让他用脚触碰牛,向太阳小便,并在规定的学习时间学习。

13.142.57

अनध्याये पठेल्लोके शुनः स परिकर्षतु ।
परिव्राट् कामवृत्तिस्तु बिसस्तैन्यं करोति यः ॥ १३.१४२.५७ ॥

偷窃莲藕之人,让他在禁止诵读的日子于世间诵读,拖着一条狗;而随心所欲生活的游方出家人也应同样如此。

13.142.58

शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु ।
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥ १३.१४२.५८ ॥

偷窃莲藕之人,让他杀害寻求庇护者,杀害朋友,靠自己女儿的收入生活,向吝啬者求取财富。

13.142.59

विष्णुं ब्रह्मण्यदेवेशं देवदेवं जगद्गुरुम् ।
आधातारं विधातारं सन्धातारं जगद्गुरुम्।
विहाय स भजत्वन्यं बिसस्तैन्यं करोति यः ॥ १३.१४२.५९ ॥

偷窃莲藕之人,舍弃毗湿奴——眷顾婆罗门的天神之主、神中之神、世间之师,承载者、创造者、结合者、世间之师——而去崇拜别的神。

13.142.60

सर्वत्र सर्वं लपतु न्यासलोपं करोतु च ।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ १३.१४२.६० ॥

偷窃莲藕之人,让他到处胡言乱语,违背寄托之信,并去作伪证。

13.142.61

वृथा मांसाशनश्चास्तु वृथा दानं करोतु च ।
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ १३.१४२.६१ ॥

窃取莲藕茎者,徒然食肉,徒然布施,白日亲近女子。

13.142.62

नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥ १३.१४२.६२ ॥

窃取莲藕茎者,对女子、亲族与牛残忍,舍弃法,甚至战胜婆罗门。

13.142.63

उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च ।
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥ १३.१४२.६३ ॥

窃取莲藕茎者,将师长置于其下,诵《梨俱》与《夜柔》之诗,并在草火中献祭。

13.142.64

पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यत् ।
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥ १३.१४२.६४ ॥

窃取莲藕茎者,在水中大小便,杀牛或伤害之,并于非经期时行房。

13.142.65

द्वेष्यो भार्योपजीवी स्याद्दुरबन्धुश्च वैरवान् ।
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥ १३.१४२.६५ ॥

窃取莲藕茎者,令人憎恶,依靠妻子的收入生活,成为恶劣的亲族与仇敌,并互为对方的客人。

13.142.66

अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु ।
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥ १३.१४२.६६ ॥

窃取莲藕茎者,学习吠陀之后弃之,舍弃三火,并售卖苏摩。

13.142.67

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥ १३.१४२.६७ ॥

在有井有水的村庄里,做低种姓女子丈夫的婆罗门,愿他得到偷窃莲藕之人所得的同一世界。

13.142.68

जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः ।
दरिद्रो बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥ १३.१४२.६८ ॥

在他活着的时候,愿他人供养他的尊长和仆役;偷窃莲藕之人愿他贫穷而有许多儿子。

13.142.69

अशुचिर्ब्रह्मकूटोऽस्तु मिथ्या चैवाप्यहङ्कृतः ।
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥ १३.१४२.६९ ॥

偷窃莲藕之人愿他不洁、为假婆罗门、虚妄自大、务农且好嫉妒。

13.142.70

हर्षं करोतु भृतको राज्ञश्वास्तु पुरोहितः ।
अयाज्यस्य भवेदृत्विक् बिसस्तैन्यं करोति यः ॥ १३.१४२.७० ॥

偷窃莲藕之人愿他作雇工而带来欢喜,作国王的专职祭司,并为不应为之祭祀的人主持祭祀。

13.142.71

नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः ।
एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥ १३.१४२.७१ ॥

偷窃莲藕的女子,愿她常常轻慢婆婆,对丈夫心怀怨恨,独自享用美味的食物。

13.142.72

ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये ।
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या ॥ १३.१४२.७२ ॥

偷窃莲藕的女子,愿她住在亲族的家中,日暮时只吃炒麦粉,不被夫家所爱,也不生英勇的儿子。

13.142.73

अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु ।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ १३.१४२.७३ ॥

总是说谎、与亲属争吵、收取聘礼嫁女、并偷窃莲茎的女人。

13.142.74

साधयित्वा स्वयं प्राशेद्दास्ये जीर्यतु चैव ह ।
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥ १३.१४२.७४ ॥

独自烹煮进食、沦为奴仆而老去、因恶行而死、并偷窃莲茎的女人。

13.142.75

दास एव प्रजायेतामप्रसूतिरकिञ्चन ।
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ १३.१४२.७५ ॥

生而为奴、无子且贫困、不礼拜诸神、并偷窃莲茎的人。

13.142.76

अध्वर्यवे दुहितरं वा ददातु ।
च्छन्दोगे वाऽऽचरितब्रह्मचर्ये।
आथर्वणं वेदमधीत्य विप्रः ।
स्नायीत वा यो हरते बिसानि ॥ १३.१४२.७६ ॥

应将女儿嫁给祭司阿提瓦尤、或恰多格耶,或修完梵行并学习阿闼婆吠陀的婆罗门;拿取莲茎者应当沐浴。

13.142.77

इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः ।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥ १३.१४२.७७ ॥

这正是再生者所愿的誓言,你已立下;啊,舒纳沙邪之友,你在我们众人面前窃取了莲茎。

13.142.78

न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः ।
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥ १३.१४२.७८ ॥

那些未曾见到今日所存之物的行事之人所说的,是真实而非虚假:窃取莲茎的是我。

13.142.79

मया ह्यन्तर्हितानीह बिसानीमानि पश्यत ।
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः ॥ १३.१४२.७९ ॥

我在此藏起了这些莲茎,请看。诸位无罪的尊者,我这样做是为了考验你们。

13.142.80

रक्षणार्थं च सर्वेषां भवतामहमागतः ।
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥ १३.१४२.८० ॥

我来是为了保护你们所有人。这个极其残忍的夜叉女,一个魔法造物,想要毁灭你们。

13.142.81

वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ।
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा ॥ १३.१४२.८१ ॥

这个由伐尸达尔毗派来的恶毒罪人,生于火中,本要伤害你们;已被我杀死了,诸位苦行富足的人。

13.142.82

तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ।
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः।
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥ १३.१४२.८२ ॥

因此我来到这里;诸位婆罗门,请知道我是伐娑婆(因陀罗)。因你们不贪,已经获得了满足一切愿望的不灭诸界。诸位再生者,请迅速从此起身,并真正得到它们。

13.142.83

ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम् ।
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥ १३.१४२.८३ ॥

于是大仙们欢喜,对补罗陀罗(因陀罗)说“就这样吧”,并与三十天之主一同都升往天界。

13.142.84

एवमेते महात्मानो योगैर्बहुविधैरपि ।
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः।
नैव लोभं तदा यक्रुस्ततः स्वर्गमवाप्नुवन् ॥ १३.१४२.८४ ॥

这些大德虽饥饿至极,又经诸般方便考验,却当时不起贪心,因此得升天界。

13.142.85

तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् ।
एष धर्मः परो राजंस्तस्माल्लोभं विवर्जयेत् ॥ १३.१४२.८५ ॥

因此,人在任何情况下都应舍弃贪欲。大王,这是至高的法;因此应当舍弃贪欲。

13.142.86

इदं नरः सुचरितं समवायेषु कीर्तयन् ।
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते ॥ १३.१४२.८६ ॥

在集会中宣扬此善行的人,会分享福报,也不会遭遇灾难。

13.142.87

प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा ।
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ १३.१४२.८७ ॥

他的祖先、仙人和诸神也都欢喜;人死之后,便能分享名声、法与财富。