Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.143

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.143.1

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ १३.१४३.१ ॥

此处人们讲述这段古老的故事,即在朝圣圣地途中关于誓言所发生之事;请听。

13.143.2

पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम ।
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ १३.१४३.२ ॥

婆罗多中最优秀者啊,往昔为了补湿羯罗而行窃,大王啊,由王仙所为,同样也由婆罗门仙人所为。

13.143.3

पुरा प्रभासे ऋषयः समग्राः ।
समेता वै मन्त्रममन्त्रयन्त।
चराम सर्वां पृथिवीं पुण्यतीर्थां ।
तन्नः कामं हन्त गच्छाम सर्वे ॥ १३.१४३.३ ॥

往昔在普拉巴萨,所有仙人聚集商议:「让我们遍游这整个大地,那里满是圣洁的沐浴之地;这是我们的心愿,来吧,我们都去吧。」

13.143.4

शुक्रोऽङ्गिराश्चैव कविश्च विद्वां-
स्तथा ह्यगस्त्यो नारदपर्वतौ च।
भृगुर्वसिष्ठः कश्यपो गौतमश्च ।
विश्वामित्रो जमदग्निश्च राजन् ॥ १३.१४३.४ ॥

大王啊,有顺罗、安吉罗、迦比,以及智者;还有阿伽斯提耶、那罗陀与波尔瓦塔、婆里古、婆私吒、迦叶波、乔答摩、憍尸迦、阁摩达吉尼。

13.143.5

ऋषिस्तथा गालवोऽथाष्टकश्च ।
भरद्वाजोऽरुन्धती वालखिल्याः।
शिबिर्दिलीपो नहुषोऽम्बरीषो ।
राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥ १३.१४३.५ ॥

仙人伽罗婆与阿湿吒迦,婆罗堕遮,阿盾陀蒂,伐罗琦尔亚们;尸毗、迪利普、那呼沙、安巴利沙、国王耶耶替、顿度玛罗与普卢。

13.143.6

जग्मुः पुरस्कृत्य महानुभावं ।
शतक्रतुं वृत्रहणं नरेन्द्राः।
तीर्थानि सर्वाणि परिभ्रमन्तो ।
माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥ १३.१४३.६ ॥

众王尊奉伟大的百祭因陀罗、杀除弗栗多者,遍历诸圣渡口,于末伽月前往功德圣渡卡希基。

13.143.7

सर्वेषु तीर्थेष्ववधूतपापा ।
जग्मुस्ततो ब्रह्मसरः सुपुण्यम्।
देवस्य तीर्थे जलमग्निकल्पा ।
विगाह्य ते भुक्तबिसप्रसूनाः ॥ १३.१४३.७ ॥

诸圣渡口皆已洗净罪恶,他们随后前往至圣的梵湖。入于神渡口如火般的水中,食用了莲茎与莲花。

13.143.8

केचिद्बिसान्यखनंस्तत्र राजन्न-
न्ये मृणालान्यखनंस्तत्र विप्राः।
अथापश्यन्पुष्करं ते ह्रियन्तं ।
ह्रदादगस्त्येन समुद्धृतं तत् ॥ १३.१४३.८ ॥

大王啊,有些人在那里挖取莲茎,另一些婆罗门在那里挖取莲丝。随后他们看见那朵莲花被阿伽斯蒂从湖中托起带走。

13.143.9

नानाह सर्वानृषिमुख्यानगस्त्यः ।
केनाहृतं पुष्करं मे सुजातम्।
युष्माञ्शङ्के पुष्करं दीयतां मे ।
न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ १३.१४३.९ ॥

阿伽斯蒂对众主要仙人说:“谁拿走了我那朵美丽的莲花?我怀疑是你们;请把那莲花还给我。你们拿走那朵莲花是不合适的。”

13.143.10

शृणोमि कालो हिंसते धर्मवीर्यं ।
सेयं प्राप्ता वर्तते धर्मपीडा।
पुराऽधर्मो वर्तते नेह याव-
त्तावद्गच्छामः सुरलोकं चिराय ॥ १३.१४३.१० ॥

我听说时间正在伤害法的力量。法的苦难已经降临。只要此地没有非法,我们便长久前往天界。

13.143.11

पुरा वेदान्ब्राह्मणा ग्राममध्ये ।
घुष्टस्वरा वृषलान्श्रावयन्ति।
पुरा राजा व्यवहारानधर्मा-
न्पश्यत्यहं परलोकं व्रजामि ॥ १३.१४३.११ ॥

从前,婆罗门在村中高声诵读吠陀,连首陀罗也能听到。从前国王看着不义的诉讼;我将前往他界。

13.143.12

पुरा राजा प्रत्यवरान्गरीयसो ।
मंस्यत्यथैनमनुयास्यन्ति सर्वे।
धर्मोत्तरं यावदिदं न वर्तते ।
तावद्व्रजामि परलोकं चिराय ॥ १३.१४३.१२ ॥

从前,国王会把地位低下的人视为更尊贵,于是众人都会追随他。只要这种高于法的状态尚未出现,我便长久前往他界。

13.143.13

पुरा प्रपश्यामि परेण मर्त्या-
न्बलीयसा दुर्बलान्भुज्यमानान्।
तस्माद्यास्यामि परलोकं चिराय ।
न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥ १३.१४३.१३ ॥

从前我看到弱小的凡人被强者吞噬。因此我将长久前往他界;我没有勇气在人间看到这样的事。

13.143.14

तमाहुरार्ता ऋषयो महर्षिं ।
न ते वयं पुष्करं चोरयामः।
मिथ्याभिशंसा भवता न कार्या ।
शपाम तीक्ष्णैः शपथैर्महर्षे ॥ १३.१४३.१४ ॥

受苦的仙人对那位大仙说:我们没有偷你的莲花。不要做虚假的指控。大仙啊,我们以严厉的誓言起誓。

13.143.15

ते निश्चितास्तत्र महर्षयस्तु ।
सम्पश्यन्तो धर्ममेतं नरेन्द्राः।
ततोऽशपन्त शपथान्पर्ययेण ।
सहैव ते पार्थिव पुत्रपौत्रैः ॥ १३.१४३.१५ ॥

那些坚定的大仙人明见此法,诸位人王啊,于是轮流发出咒誓。国王啊,他们与子孙们一同这样做了。

13.143.16

भृगुरुवाच ।
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्।
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ १३.१४३.१६ ॥

婆利古说:在此受辱者应当以辱还辱;被打者应当以打还打。凡夺取你的莲花(或宝藏)者,当食其自己背上的肉。

13.143.17

अस्वाध्यायपरो लोके श्वानं च परिकर्षतु ।
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥ १३.१४३.१७ ॥

筏私吒说:在世间若有人专务荒废诵习,便让他拖着一只狗;在城中做乞丐——凡夺取你的莲花者。

13.143.18

सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च ।
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥ १३.१४३.१८ ॥

迦叶波说:凡在处处贩卖一切、贪图寄托之物、又作伪证者——凡夺取你的莲花者。

13.143.19

जीवत्वहङ्कृतो बुद्ध्या विषमेणासमेन सः ।
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥ १३.१४३.१९ ॥

乔达摩说:愿他以傲慢自利的心智,以不公不平之法而生存;愿他做耕夫,且生嫉妒——凡夺取你的莲花者。

13.143.20

अशुचिर्ब्रह्मकूटोस्तु श्वानं च परिकर्षतु ।
ब्रह्महाऽनिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥ १३.१४३.२० ॥

安吉罗说:愿他成为不净的婆罗门假冒者(brahma-kūṭa),牵着一只狗行走;愿他成为杀害婆罗门者与欺诈之人——凡夺取你的莲花者。

13.143.21

अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु ।
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ॥ १३.१४३.२१ ॥

愿他对朋友忘恩负义,与首陀罗女子生子,独自享用丰盛的食物——偷取你圣器(puṣkara)的人,便当如此。

13.143.22

चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु ।
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥ १३.१४३.२२ ॥

愿他从事医术,靠妻子供养,生计来自岳父——偷取你圣器(puṣkara)的人,便当如此。

13.143.23

उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः ।
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥ १३.१४३.२३ ॥

在井水溢流的村庄里,愿一位婆罗门成为首陀罗女子的丈夫;愿他前往那些世界——偷取你圣器(puṣkara)的人,便当如此。

13.143.24

वृथा मांसं समश्नातु दिवा गच्छतु मैथुनम् ।
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥ १३.१४३.२४ ॥

愿他徒然食肉,白日行房,成为国王的仆役——偷取你圣器(puṣkara)的人,便当如此。

13.143.25

जमदग्निरुवाच ।
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्।
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ १३.१४३.२५ ॥

嘉玛达格尼说:愿他在禁读之日诵读,在祭祖礼中款待朋友,并在祭祖礼中与首陀罗同食——偷取你圣器(puṣkara)的人,便当如此。

13.143.26

शिबिरुवाच ।
अनाहिताग्निर्मियतां यज्ञे विघ्नं करोतु च।
तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम् ॥ १३.१४३.२६ ॥

尸毗说:未立圣火者便当死去,愿他在祭祀中设障,并与苦行者为敌——偷取你圣器(puṣkara)的人,便当如此。

13.143.27

ययातिरुवाच ।
अनृतौ व्रतनियतायां भार्यायां स प्रजायतु।
निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥ १३.१४३.२७ ॥

耀帝说:在非时期与持戒的妻子生育子嗣者,当舍弃吠陀;夺取你的莲花(puṣkara)者亦然。

13.143.28

नहुष उवाच ।
अतिथिर्गृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः।
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥ १३.१४३.२८ ॥

那诃沙说:客人当居家中,依欲而行者亦当受戒;受雇者当授予知识;夺取你的莲花(puṣkara)者亦然。

13.143.29

नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।
निहन्तु ब्राह्मणं चापि यस्ते हरति पुष्करम् ॥ १३.१४३.२९ ॥

安跋利沙说:残忍而舍弃正法者,对女人、亲族与牛,乃至杀害婆罗门;夺取你的莲花(puṣkara)者亦然。

13.143.30

गृहज्ञानी बहिःशास्त्रं पठतां विस्वरं पदम् ।
गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥ १३.१४३.३० ॥

那罗陀说:只知家务者,轻蔑书外诵读者那不谐和的词句,并轻慢长辈;夺取你的莲花(puṣkara)者亦然。

13.143.31

अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु ।
शुल्केन ददतु कन्यां यस्ते हरपि पुष्करम् ॥ १३.१४३.३१ ॥

那婆伽说:常说虚妄,与善人相抗,收取聘礼而嫁出少女;夺取你的莲花(puṣkara)者亦然。

13.143.32

कविरुवाच ।
पदा च गां संस्पृशतु सूर्यं च प्रति मेहतु।
शरणागतं संत्यजतु यस्ते हरति पुष्करम् ॥ १३.१४३.३२ ॥

诗人说:以足触牛,向太阳小便,抛弃来投靠者;夺取你的莲花(puṣkara)者亦然。

13.143.33

करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः ।
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥ १३.१४३.३३ ॥

凡盗取你莲花者,愿他成为使雨不降的雇工,成为国王的家祭司,并成为不该为其献祭者的主祭司。

13.143.34

ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु ।
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥ १३.१४३.३४ ॥

凡盗取你莲花者,愿他成为村中的官吏,乘驴车出行,并为谋生而用狗耕地。

13.143.35

सर्वपापसमादानं नृशंसे चानृते च यत् ।
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥ १३.१४३.३५ ॥

凡盗取你莲花者,愿那在残忍与虚妄中集聚一切罪过的罪恶,永远归于他。

13.143.36

स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत् ।
अधर्मेणाभिशास्तूर्वीं यस्ते हरति पुष्करम् ॥ १३.१४३.३६ ॥

凡盗取你莲花者,愿他成为智慧未成熟、随欲而行的作恶之王,并以不义统治大地。

13.143.37

पापिष्ठेभ्यो ह्यनर्घार्हः स नरोऽस्तु स्वपापकृत् ।
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥ १३.१४३.३७ ॥

凡盗取你莲花者,愿他不配得到回报,即使从最罪恶者手中也接受施舍,成为自己罪过的作者,并宣扬自己的布施。

13.143.38

अरुन्धत्युवाच ।
श्वश्र्वाऽपवादं वदतु भर्तुर्भवतु दुर्मनाः।
एका स्वादु समश्नातु या ते हरति पुष्करम् ॥ १३.१४३.३८ ॥

阿伦德哈蒂说:凡盗取你莲花者,愿她诽谤婆婆,对丈夫心怀恶念,并独自享用美食。

13.143.39

एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु ।
धर्मज्ञस्त्यक्तधर्मास्तु यस्ते हरति पुष्करम् ॥ १३.१४३.३९ ॥

虽知法,却舍弃法而窃取你之莲花者,为谋生计,当在村门口单足而立。

13.143.40

अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः ।
परिव्राट् कामवृत्तोस्तु यस्ते हरति पुष्करम् ॥ १३.१४३.४० ॥

轻忽火祭而安然入睡的再生者,以及窃取你莲花者,当成为随欲而行的游方苦行者。

13.143.41

सुरभ्युवाच ।
वालजेन निदानेन कांस्यं भवतु दोहनम्।
दुह्येत परवत्सेन या ते हरति पुष्करम् ॥ १३.१४३.४१ ॥

苏羅毗说:窃取你莲花者,因此其挤奶之器当为青铜,并且她当被别人的小牛所挤奶。

13.143.42

ततस्तु तैः शपथैः शप्यमानै-
र्नानाविधैर्बहुभिः कौरवेन्द्र।
सहस्राक्षो देवराट् सम्प्रहृष्टः ।
समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ १३.१४३.४२ ॥

众仙以种种咒誓相诅咒之时,俱卢之主啊,千眼的天王因阿里提也大为欢喜,见那愤怒的婆罗门首领。

13.143.43

यथाब्रवीन्मघवा प्रत्ययं स्वं ।
स्वयं समागत्य तमृषिं जातरोषम्।
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये ।
यं तं निबोधेह ममाद्य राजन् ॥ १३.१४३.४३ ॥

正如摩伽婆(因陀罗)以自己的保证所说,亲自来到那位愤怒的仙人面前,在梵仙、天仙与王仙之中,国王啊,请现在从我这里认识他。

13.143.44

अध्वर्यवे दुहितरं ददातु ।
छन्दोगे वाऽऽचरितब्रह्मचर्ये।
अथर्वणं वेदमधीत्य विप्रः ।
स्नायीत यः पुष्करमाददाति ॥ १३.१४३.४४ ॥

让他把女儿嫁给祭司阿德瓦尤,或嫁给已守持梵行修学之誓的唱歌者。学习阿沙婆吠陀的婆罗门在普什卡拉沐浴;取走它的人,就获得它。

13.143.45

सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः ।
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥ १३.१४३.४५ ॥

愿他学习一切吠陀,品性善良并且奉行正法。取走你的普什卡拉的人,前往梵天的居所。

13.143.46

आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन ।
दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥ १३.१४३.४६ ॥

啊,击败波罗的主,你已说出祝福与誓言。请将普什卡拉给我;这便是永恒的法。

13.143.47

न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै ।
धर्मांस्तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥ १३.१४३.४७ ॥

尊者,我今日取走普什卡拉并非出于贪欲,而是出于想听闻诸法的愿望。您不应当生气。

13.143.48

धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः ।
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ १३.१४३.४८ ॥

法典的至高、法之桥梁、无瑕、属于仙人的、恒常、永远、不朽——这是我所听闻的。

13.143.49

तदिदं गृह्यतां विद्वन्पुष्करं द्विजसत्तम ।
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥ १३.१४३.४९ ॥

因此,博学者,二生者中最殊胜者,请接受这普什卡拉。尊者,无可指摘者,您应当宽恕我的过失。

13.143.50

इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् ।
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥ १३.१४३.५० ॥

摩呵因陀罗如此说后,那位极为愤怒的苦行者、智者接受了普什卡拉,仙人也变得欢喜了。

13.143.51

प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः ।
पुण्येषु तीर्थेषु तथा गात्राण्याप्लावयन्त ते ॥ १३.१४३.५१ ॥

随后,那些林居者再次前往圣渡口,在圣渡口中为自己的肢体沐浴。

13.143.52

आख्यानं य इदं युक्तः पठेत्वर्वणिपर्वणि ।
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥ १३.१४३.५२ ॥

若有人虔诚地在节日时诵读此传说,他不会生出愚蠢的儿子,也不会变得形貌丑陋。

13.143.53

न तमापत्स्पृशेत्काचिद्विज्वरो न जरावहः ।
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥ १३.१४३.५३ ॥

任何灾难都不会触及他;他没有热病,衰老也不会使他衰弱。纯净并具足吉祥,死后他将得生天界。

13.143.54

यश्च शास्त्रमधीयीत ऋषिभिः परिपालितम् ।
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ १३.१४३.५४ ॥

凡学习这部由仙人们守护的圣典者,啊,人中最优秀者,愿他往生梵天不朽的世界。