摩诃婆罗多 · 章 13.144
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.144.1
यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ ।
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ॥ १३.१४४.१ ॥
婆罗多族的雄牛啊,这种在祭祖仪式中布施伞与鞋的做法是谁确立的?
13.144.2
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते ।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते ॥ १३.१४४.२ ॥
这种习俗是如何产生的,又为何而施予?不仅在祭祖仪式中,在吉祥的场合也会施予。
13.144.3
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते ।
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः ॥ १३.१४४.३ ॥
在许多场合也会凭借功德而施予。婆罗门啊,我愿详细而如实地听闻此事。
13.144.4
शृणु राजन्नवहितश्छत्रोपानहविस्तरम् ।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम् ॥ १३.१४४.४ ॥
国王啊,请专心听闻伞与鞋的完整来历:此事如何在世间闻名,又如何被确立。
13.144.5
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम् ।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप ॥ १३.१४४.५ ॥
人主啊,我将完整地讲述此事:它如何获得不朽与功德,又如何而来。
13.144.6
इतिहासं पुरावृत्तमिदं शृणु नराधिप ।
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥ १३.१४४.६ ॥
人主啊,请听这段古老的传说:伟大心灵的遮摩陀尼与太阳的对话。
13.144.7
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो ।
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः ॥ १३.१४४.७ ॥
往昔,那位世尊亲自把玩弓箭,主啊;婆利古之后一次又一次搭箭射出。
13.144.8
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ।
आनीय सा तदा तस्मै प्रादादसकृदच्युत ॥ १३.१४४.८ ॥
罗奴迦把那位光耀者射出的所有箭都拾回,一次又一次交还给他,阿周那多啊。
13.144.9
अथ तेन स शब्देनि ज्यायाश्चैव शरस्य च ।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ॥ १३.१४४.९ ॥
于是,他因弓弦与箭矢的声响而欢喜,再次射出;她则把箭取回。
13.144.10
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ।
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत् ॥ १३.१४४.१० ॥
那时正午已至,太阳位于惹耶什陀-穆拉宿,那位再生者射出箭矢后,对罗奴迦说了这些话。
13.144.11
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥ १३.१४४.११ ॥
去把这些从弓上射出的箭取来,大眼睛的女子啊,直到我再次射出它们,人主啊。
13.144.12
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी ।
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ॥ १३.१४४.१२ ॥
那位美丽的女子一路前行,中途便依靠一棵树遮阴站住;因为她的头和脚都已被灼伤。
13.144.13
स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा ।
ययावानयितुं भूयः सायकानसितेक्षणा।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥ १३.१४४.१३ ॥
她因惧怕丈夫的诅咒而站立片刻,那位眼睛黝黑的吉祥女子又去取箭;那位荣耀的女子带着这些箭回来了。
13.144.14
सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती ।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥ १३.१४४.१४ ॥
她全身被汗水浸透,忍着双脚的疼痛,因惧怕丈夫而颤抖,走到丈夫身边。
13.144.15
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम् ।
रेणुके किं चिरेण त्वमागतेति पुनःपुनः ॥ १३.१४४.१५ ॥
那时,愤怒的仙人一再对那位美颜的女子说:"雷奴卡,你为何来得这样迟?"
13.144.16
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन ।
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता ॥ १३.१४४.१६ ॥
苦行的财富啊,我的头被烤焦了,双脚也在燃烧。被太阳的光热所阻,我便躲到了树荫下。
13.144.17
एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया ।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं पतोधन ॥ १३.१४४.१७ ॥
婆罗门啊,正因这个缘故我才来得这么久。威力无边的啊,听了这话,请不要对我生气,苦行的富有者啊。
13.144.18
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् ।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥ १३.१४४.१८ ॥
今天,我要以武器之火的光辉,用箭射落这颗光芒灼热、让你痛苦的太阳,雷奴卡啊。
13.144.19
स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहूंन् ।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥ १३.१४४.१९ ॥
他拉开神弓,取了许多箭,站在太阳周围,无论太阳往哪里去,他都转身面向那里。
13.144.20
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत् ।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति ॥ १३.१४४.२० ॥
太阳见他已披甲准备,便走近说道:“俱卢族的儿子啊,你以婆罗门的身份,太阳对你有何过错?”
13.144.21
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः ।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः ॥ १३.१४४.२१ ॥
太阳立于天空,以光线从各处汲取水汽;到了雨季,这位昼之创造者便将水汽化为雨降下。
13.144.22
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् ।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥ १३.१४४.२२ ॥
然后,婆罗门啊,便生出给人类带来幸福的食物;正如吠陀中所诵:“食物即是生命。”
13.144.23
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः ।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥ १३.१४४.२३ ॥
然后,他隐于云中,被光线环绕,婆罗门啊,便在这七大洲上降下雨水。
13.144.24
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम् ।
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ॥ १३.१४४.२४ ॥
然后,主啊,由雨水所生的草药与藤蔓的花叶,便产生了一切食物。
13.144.25
जातकर्माणि सर्वाणि व्रतोपनयनानि च ।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥ १३.१४४.२५ ॥
一切诞生礼、誓愿与入门礼,赠牛之礼与婚礼,以及祭祀的兴盛。
13.144.26
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः ।
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥ १३.१४४.२६ ॥
祭祀之会、布施,以及结合与财富的积聚,皆由食物而生起,如你所知,婆伽婆。
13.144.27
रमणीयानि यावन्ति यावदारम्भिकाणि च ।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥ १३.१४४.२७ ॥
凡所有可爱之物与一切始创之事,皆从食物而生;此为众所周知之理,我今向你宣说。
13.144.28
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया ।
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते ॥ १३.१४४.२८ ॥
我所说的这一切你本已知晓,婆罗门啊。婆罗门仙人,我使你欢喜——为了你,何必令太阳陨落呢?