Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.149

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.149.1

एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः ।
सर्वाभिरूपसेवाभिस्तुष्यन्ति यतयो यथा ॥ १३.१४९.१ ॥

因此应当不懈地努力服侍;以一切恰当的侍奉,苦行者便会欢喜。

13.149.2

नापराध्येत भिक्षोस्तु न चैनमवधीरयेत् ।
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत् ॥ १३.१४९.२ ॥

不可冒犯乞食的比丘,也不可轻慢他;对发怒者不应回嘴,而应安抚他。

13.149.3

श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् ।
तूष्णींभावेन वै तत्र न क्रुद्धमभिसंवदेत् ॥ १३.१४९.३ ॥

只应说出并做善事,如同心怀喜悦;在那里保持沉默,不应与发怒者交谈。

13.149.4

नाददीत परस्वानि न गृह्णीयादयाचितम् ।
लब्धालब्धेन जीवेत तथैव परितोषयेत् ॥ १३.१४९.४ ॥

不可取他人之物,不可接受未经请求的施舍;得到或得不到,都应以此维生,并且知足。

13.149.5

कोपिनं तु न याचेत ज्ञानविद्वेषकारितः ।
स्थावरेषु दयां कुर्याज्जङ्गमेषु चु प्राणिषु ॥ १३.१४९.५ ॥

不应因憎恶智慧而去乞求遮身布;应当对不动的众生和动的众生怀有慈悲。

13.149.6

यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत् ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते ॥ १३.१४९.६ ॥

如同看待自己,也应以平等之心看待他人;若能见到一切众生中的自我,又在自我中见到一切众生,行走于世的人便有资格成为梵。

13.149.7

हिंसा वा यदि वाऽहिंसां न कुर्यादात्मकारणात् ।
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत् ॥ १३.१४९.७ ॥

无论暴力还是非暴力,不应为了自身而为之;若他人常因此而有过失,则不应使其陷入此过失。

13.149.8

एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन् ।
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान् ॥ १३.१४९.८ ॥

如此,依靠他人而行事者便脱离过失;而愚钝之人则被从自身依赖中产生的过失所玷污。

13.149.9

जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये ।
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः ॥ १३.१४९.९ ॥

胎生、卵生、湿生、化生的一切众生,都不可杀害,智者如此宣说。

13.149.10

निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते ।
हिंसा यथाऽन्या विहिता तथा दोष प्रयोजयेत्।
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् ॥ १३.१४९.१० ॥

为了确定,觉悟者须行赎罪之法;正如其他暴力被规定,那也应当造成过失。如此,老师向行持此规的弟子教授了这一法则。

13.149.11

न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका ।
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना ॥ १३.१४९.११ ॥

贪欲不生起,暴力及其本性也不生起;这是经典的见解,由宇宙之源所规定。

13.149.12

यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान् ।
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते ॥ १३.१४९.१२ ॥

若有智慧的首陀罗也如此思考、如此领悟,他也会达到已完成其业者的境界;更何况是实践它的人呢?

13.149.13

न शूद्रः पतते कश्चिन्न च संस्कारमर्हति ।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥ १३.१४९.१३ ॥

没有首陀罗会堕落,他也不配行圣礼。他在法中没有权利,法也并不禁止他。

13.149.14

अनुग्रहार्तं मनुना सर्ववर्णेषु वर्णितम्। ॥ १३.१४९.१४ ॥

为施恩惠,摩奴已就一切种姓作了宣说。

13.149.15

यदापवादस्तु भवेत्स्त्रीकृतः परिचारके ।
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम्।
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत् ॥ १३.१४९.१५ ॥

若因一名女仆而生过失,则为他规定一年露天睡于天空之下。由此他得到平安,之后他可以再次前往。

13.149.16

सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति ।
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः।
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः। ॥ १३.१४९.१६ ॥

此为与同种姓女子者而言;与低贱女子者,则只应当一半。与吠舍女子三年,与刹帝利女子六年;而与婆罗门女子交合者,则宣说为十二年。

13.149.17

कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत् ।
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात् ॥ १३.१४९.१७ ॥

或于当下即以干草之火焚烧之;或断其阳具,亦可得清净。

13.149.18

अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत् ।
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश ॥ १३.१४९.१८ ॥

若有人夺去一个无骨生灵的性命,他应当禁食一日,并修十二次调息(prāṇāyāma)。

13.149.19

त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते ।
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते ॥ १३.१४९.१९ ॥

在水中沐浴三次,便可脱离那罪过;对于骨节的伤害,规定的赎罪加倍。

13.149.20

अनेन विधिना वाऽपि स्थावरेषु न संशयः ।
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते ॥ १३.१४९.२० ॥

依此规则,或对于不动之物,毫无疑问;因身体、双足或双手所犯的过错,便可得到解脱。

13.149.21

अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत् ।
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु ॥ १३.१४९.२१ ॥

对于毁灭无辜之物者,或在一切种姓中行事者,赎罪应知为八倍;亦是如此。

13.149.22

चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते ।
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् ॥ १३.१४९.२२ ॥

行为者四倍,以言语污染者两倍;然而心中所犯之罪,同样被记为一倍。

13.149.23

तस्मादेतानि सर्वाणि विदित्वा न समाचरेत् ।
सर्वभूतहितार्थं हि कुशलानि समाचरेत् ॥ १३.१४९.२३ ॥

因此,明了这一切之后,不应去做;为了一切众生的利益,应当行善。

13.149.24

एवं समाहितमनाः सेवते यदि यत्तमान् ।
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः ॥ १३.१४९.२४ ॥

如此,心神专一,若克制者奉行之,其归宿即在于此,其行为即在于此,其心意即在于此,此即其至高的归依。

13.149.25

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ १३.१४९.२५ ॥

如同受雇的仆人等待约定的期限,人不应欢迎死亡,也不应欢迎生命,只应等待时间。

13.149.26

एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान् ।
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति ॥ १३.१४९.२६ ॥

如此行事、谦逊且自制之人,很快便会得到由功德与罪过所决定的裁决。