摩诃婆罗多 · 章 13.150
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.150.1
शुश्रूषानिरतो नित्यमरिष्टान्युपलक्षयेत् ।
त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम् ॥ १३.१५०.१ ॥
常行侍奉者应当辨识已显现的凶兆,它们预示死亡将在三年、两年或一年之内到来。
13.150.2
षाण्मासिकं मासिकं वा साप्तरात्रिकमेव वा ।
सर्वांस्तदर्थान्वा विद्यात्तेषां चिह्नानि लभयेत् ॥ १३.१५०.२ ॥
应知晓所有这些的含义,无论死亡是在六个月、一个月还是七夜之内,并应获取它们的征兆。
13.150.3
पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम् ।
लक्षयेदुत्तरेणैव मृत्युस्त्रैवार्षिको भवेत् ॥ १३.१५०.३ ॥
若有人从北方望见一个面朝南方站立的金色人影,他将在三年之内死去。
13.150.4
शुद्धमण्डलमादित्यमरश्मिं सम्प्रपश्यतः ।
संवत्सरद्वयेनैव तस्य मत्युं समादिशेत् ॥ १३.१५०.४ ॥
对于清楚看见圆盘纯净、无光芒之太阳的人,应宣告其将在两年内死亡。
13.150.5
ज्योत्स्नायामात्मनश्छायां सच्छिद्रां यः प्रपश्यति ।
मृत्युं संवत्सरेणैव जानीयात्सुविचक्षणः ॥ १३.१५०.५ ॥
智者应知:在月光下看见自己影子有孔洞的人,将在一年之内死去。
13.150.6
विशिरस्कां यदा छायां पश्येत्पुरुष आत्मनः ।
जानीयादात्मनो मृत्युं षाण्मासेनेह बुद्धिमान् ॥ १३.१५०.६ ॥
人若见自己的影子没有头,智者应知其死期在六个月之内。
13.150.7
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि ।
जानीयादात्मनो मृत्युं मासेनैव विचक्षणः ॥ १३.१५०.७ ॥
若以双手掩耳仍听不到声音,智者应知自己将在一个月内死去。
13.150.8
शवगन्धमुपाघ्राति अन्यद्वा सुरभिं नरः ।
देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक् ॥ १३.१५०.८ ॥
若人闻到尸体的臭味,或闻不到其他香气,而此事发生在他站在神庙之中时,他将在七夜之内走向死亡。
13.150.9
कर्णनासापनयनं दन्यदृष्टिविरागता ।
लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत् ॥ १३.१५०.९ ॥
耳鼻失去感觉,双眼冷漠地转向他处,诸根失去知觉——这些应被视为即刻死亡的征兆。
13.150.10
एवमेषामरिष्टानां पश्येदन्यतमं यदि ।
न तं कालं परीक्षेत यथाऽरिष्टं प्रकल्पितम् ॥ १३.१५०.१० ॥
如此,若见到这些死亡征兆中的任何一种,不应去试探那个时限;应当依征兆所定而接受它。
13.150.11
अभ्यासेन तु कालस्य गच्छेत पुलिनं शुचि ।
तत्र प्राणान्प्रमुञ्चेत तमीशानमनुस्मरन् ॥ १३.१५०.११ ॥
经由修习,时候到了,人应前往洁净的沙洲;在那里,不断忆念伊舍那神,舍弃生命之气。
13.150.12
ततोऽन्यदेहमासाद्य गान्धर्वं स्थानमाप्नुयात् ।
तत्रस्थो वसते विंशत्पद्मानि सुहहाद्युतिः ॥ १३.१५०.१२ ॥
此后,他获得另一副身体,到达乾闼婆的处所;住在那里,具备如朋友般的光辉,度过二十个“莲”劫之久。
13.150.13
गन्धर्वैश्चित्रसेनाद्यैः सहितः सत्कृतस्तथा ।
नीलवैडूर्यवर्णेन विमानेनावभासयन् ॥ १३.१५०.१३ ॥
与乾闼婆众(以citrasena为首)同行,同样受到尊敬,以青金石色的天车照亮天空。
13.150.14
नभस्थलमदीनात्मा सार्धमप्सरसां गणैः ।
छन्दकामानुसारी च तत्रतत्र महीयते ॥ १३.१५०.१४ ॥
以无畏之心游于天空,与阿普萨拉斯众同行,随意而行,到处受到尊崇。
13.150.15
मोदतेऽमरतुल्यात्मा सदाऽमरगणैः सह ।
पतितश्च क्षये काले क्षणेन विमलद्युतिः ॥ १३.१५०.१५ ॥
其心如同不死者,常与天神众同乐;然而时至功德耗尽之时,他在刹那间坠落,光明依旧清净。
13.150.16
वैश्यस्य बहुवित्तस्य कुलेऽग्र्ये बहुगोधने ।
अवाप्य तत्र वै जन्म स पूतो देवकर्मणा ॥ १३.१५०.१६ ॥
在富有的商人之家,牛群财富丰盛的高贵门第中,他在那里获得出生,因天神之业而得清净。
13.150.17
छन्दसा जागतेनैव प्राप्तोपनयनं ततः ।
क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु ॥ १३.१५०.१७ ॥
以jāgata韵律受得入门礼,之后身穿丝衣、具备所需之物,完全获得再生者之位。
13.150.18
अधीयमानो वेदार्थान्गुरुशुश्रूषणे रतः ।
ब्रह्मचारी जितक्रोधस्तपस्वी जायते ततः ॥ १३.१५०.१८ ॥
研习吠陀之义,专心侍奉师长,为梵行者,克服愤怒,此后成为苦行者。
13.150.19
अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम् ।
कृतदारः समुपैति गृहस्थव्रतमुत्तमम् ॥ १३.१५०.१९ ॥
学习吠陀,依照仪轨向师尊奉上酬礼,娶妻之后,他便进入家主的最高誓愿。
13.150.20
ददाति यजते चैव चज्ञैर्विपुलदक्षिणैः ।
अग्निहोत्रमुपासन्वै जुह्वच्चैव यथाविधिः ॥ १३.१५०.२० ॥
他布施,并以丰厚酬礼的祭祀行祭;依法侍奉火供,亦依仪轨献祭。
13.150.21
धर्मं सञ्चिनुते नित्यं मृदुगामी जितेन्द्रियः ।
स कालपरिणामात्तु मृत्युना सम्प्रयुज्यते ॥ १३.१५०.२१ ॥
行止温和、诸根已调伏之人,常积累法;然而随着时间的推移,他终究会与死亡相遇。
13.150.22
संस्कृतश्चाग्निहोत्रेण कृतपात्रोपधानवान् ।
संस्कृतो देहमुत्सृज्य मरुद्भिरुपपद्यते ॥ १३.१५०.२२ ॥
以火供净化,备好器皿与坐垫,经诸礼仪净化的他舍弃身体,便生于摩禄多之间。
13.150.23
मरुद्भिः सहितश्चापि तुल्यतेजा महाद्युतिः ।
बालार्कसमवर्णेन विमानेन विराजता ॥ १३.१५०.२३ ॥
与摩禄多同在,光辉与之相等,大放光明,乘坐色如初升朝阳的天车而辉耀。
13.150.24
सुखं चरति तत्रस्तो गन्थर्वाप्सरसां गणैः ।
विरजोम्बरसंवीतस्तप्तकाञ्चनभूषणः ॥ १३.१५०.२४ ॥
住在那里,他快乐地与乾闼婆和阿普萨拉斯之众同游,身著无垢衣裳,佩戴炼金般的金饰。
13.150.25
छन्दकामानुसारी च द्विगुणं कालमावसेत् ।
सन्निवर्तेत कालेन स्थानादस्मात्परिच्युतः ॥ १३.१५०.२५ ॥
随从自己意愿者,应在彼处居住两倍的时间;然后从那处坠落,待时而返。
13.150.26
अवितृप्तविहारार्थो दिव्यभोगान्विहाय तु ।
सञ्जायते नृपकुले गजाश्वरथसंकुले ॥ १३.१५०.२६ ॥
为求未满足的享乐,舍弃天上的享受,他降生于充满象、马、车的王族之中。
13.150.27
पार्थिवीं श्रियमापन्नः श्रीमान्धर्मपतिर्यथा ।
जन्मप्रभृति संस्कारं चौलोपनयनानि च ॥ १३.१५०.२७ ॥
获得尘世的荣光,如法王般辉煌,他自出生起便行受持之礼、剃发礼与入门礼。
13.150.28
प्राप्य राजकुले तत्र यथावद्विधिपूर्वकम् ।
छ्दसा त्रैष्टुभेनेह द्विजत्वमुपनीयते ॥ १३.१५०.२८ ॥
于彼王族中依法如理,此处以三颂体之诗律授予再生族之身份。
13.150.29
अधीत्य वेदमखिलं धनुर्वेदं च मुख्यशः ।
समावृत्तस्ततः पित्रा यौवराज्येऽभिषिच्यते ॥ १३.१५०.२९ ॥
修习全部吠陀,尤其是弓箭之术,归来后,由父亲册封为太子。
13.150.30
कृतदारक्रियः श्रीमान्राज्यं सम्प्राप्य धर्मतः ।
प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः ॥ १३.१५०.३० ॥
完成婚礼,这位光荣者依法获得王国,设立六分之一的税制,善护其民。
13.150.31
यज्ञैर्बहुभिरीजानः सम्यगाप्तार्थदक्षिणैः ।
प्रशासति महीं श्रीमान्राज्यमिन्द्रसमुद्युतिः ॥ १३.१५०.३१ ॥
这位光辉的国王以众多祭祀、充分布施祭礼,光芒如同因陀罗,统治大地与王国。
13.150.32
स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान् ।
कालस्य वशमापन्नः प्राणांस्त्यजति संयुगे ॥ १३.१५०.३२ ॥
他始终坚守自己的本分,有子孙相助,却落入时间之手,在战场上舍弃生命。
13.150.33
देवराजस्य भवनमिन्द्रलोकमवाप्नुते ।
सम्पूज्यमानस्त्रिदिवैर्विचचार यथासुखम् ॥ १३.१५०.३३ ॥
他抵达天神之王的居所——因陀罗世界,在那里受天人尊崇,安乐地游行。
13.150.34
राजर्षिभिः पुण्यकृद्भिर्यथा देवपतिस्तथा ।
तैः स्तूयते बन्दिभिस्तु नानावाद्यैः प्रबोध्यते ॥ १३.१५०.३४ ॥
如同天神之主,他受到行善的王仙赞颂;吟游歌者赞美他,以种种乐器唤醒他。
13.150.35
दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः ।
वराप्सरोभिः सम्पूर्णं देवगन्धर्वसेवितम् ॥ १३.१५०.३५ ॥
以神圣的赡部那河金所造,四面光辉,充满殊胜的天女,受天神与乾闼婆侍奉。
13.150.36
यानमारुह्य विचरेद्यथा शक्रः शचीपतिः ।
स तत्र वसते षष्टिं पद्मानीह मुदान्वितः ॥ १३.१५०.३६ ॥
如同舍支之夫、帝释天乘车游行,他也在那里乘车游行;怀着喜悦,他在那里居住六十个莲花劫。
13.150.37
सर्वाँल्लोकाननुचरन्महर्द्धिरवभासयन् ।
अथ पुण्यक्षयात्तस्मात्स्थाप्यते भुवि भारत।
जायते च द्विजकुले वेदवेदाङ्गपारगे ॥ १३.१५०.३७ ॥
游历一切世界,以大光辉照耀它们。然后,婆罗多啊,当功德耗尽时,他被安置于大地,并降生于精通吠陀及吠陀支分的再生族之家。