Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.151

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.151.1

ततः श्रुतिसमापन्नः संस्कृश्च यथाविधि ।
चौलोपनयनं तस्य यथावत्क्रियते द्विजैः ॥ १३.१५१.१ ॥

此后,他完成吠陀之学并依规矩受戒,婆罗门们依法为他行剃发与入门之礼。

13.151.2

ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः ।
क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते ॥ १३.१५१.२ ॥

此后在他八岁时,通过誓愿、入门及其他依规定的仪式,使他趋近婆罗门的境界。

13.151.3

गायत्रेण छन्दसा तु संस्कृतश्चरितव्रतः ।
अधीयमानो मेधावी शुद्धात्मा नियतव्रतः ॥ १३.१५१.३ ॥

以伽亚特里韵律受戒,持守誓愿,勤勉学习,聪慧,心地清净,持戒坚定。

13.151.4

अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते ।
समावृत्तः स धर्मात्मा समावृत्तिक्रियस्तथा ॥ १३.१५१.४ ॥

不久之后,他便通晓吠陀及其六支之学;心怀正法的他完成归家之礼后便返回。

13.151.5

याजनाध्यापनरतः कुशले कर्मणि स्थितः ।
अग्निहोइत्रपरो नित्यं देवतातिथिपूजकः ॥ १३.१५१.५ ॥

专注于主持祭祀与教授,安住于善行,恒常专注于火供,礼敬诸神与宾客。

13.151.6

यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च ।
न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः ॥ १३.१५१.६ ॥

他以种种祭祀及诵持之祭来行祭;寻求依法所得之财,行事正直,以苦行为财富。

13.151.7

सर्वभूतहितश्चैव सर्वशास्त्रविशारदः ।
स्वदारपरितुष्टात्मा क्रतुगामी जितेन्द्रियः ॥ १३.१५१.७ ॥

他对一切众生怀有善意,精通一切经论,内心只满足于自己的妻子,行祭祀之事,并已克制诸根。

13.151.8

परापवादविरतः सत्यव्रतपरः सदा ।
स कालपरिणामात्तु संयुतः कालधर्मणा ॥ १३.१५१.८ ॥

远离诽谤他人、常修真实誓愿的人,随着时间的变迁,便与时间之法(死亡)相合。

13.151.9

संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम् ।
सोमलोकमवाप्नोति देहन्यासान्न संशयः ॥ १३.१५१.९ ॥

依照规定、如法地以阿耆尼霍特拉之祭礼受净者,舍弃身体后便得到月神(Soma)之界,此无疑问。

13.151.10

तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः ।
तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि ॥ १३.१५१.१० ॥

在那里,有光耀如月神的诸天、阿耆尼什瓦特人与光明者,又有巴尔希沙德人,以及安吉拉斯诸神。

13.151.11

विश्वेभिश्चैव देवैश्च तथा ब्रह्मर्षिभिः पुनः ।
देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः।
साध्यैः सिद्धैश्च सततं सत्कृतस्तत्र मोदते ॥ १३.१५१.११ ॥

在那里,他始终受到诸毗首提婆、诸天、梵仙、无与伦比的天仙、天女群、萨底亚与成就者的尊敬,并在那里欢喜。

13.151.12

जातरूपमयं दिव्यमर्कतुल्यं मनोजवम् ।
देवगन्धर्वसंकीर्णं विमानमधिरोहति ॥ १३.१५१.१२ ॥

他登上一辆金造的天界车舆,神圣如日,迅捷如意念,满是诸天与乾闼婆。

13.151.13

सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः ।
सोमकन्या विमानस्थं रमयन्ति मुदान्विताः ॥ १३.१५१.१३ ॥

月神之女形貌温柔、令人心悦,佩戴精炼金饰,满怀喜悦,使立于天车之中的人欢乐。

13.151.14

स तत्र रमते प्रीतः सह देवैः सहर्षिभिः ।
लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः ॥ १३.१५१.१४ ॥

他在那里欢喜快乐,与诸神和仙人同在;光辉灿烂,疾如意念,遍游一切世界。

13.151.15

सभां कामजवीं चापि नित्यमेवाभिगच्छति ।
सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम् ॥ १३.१५१.१५ ॥

他也常常前往那如欲望般迅速的集会,向祖父、诸世界之主的仙人致敬之后,走近他。

13.151.16

परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः ।
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तम ॥ १३.१५१.१६ ॥

至上者,拥有无尽的光辉,诸世界的生灭皆由其出;创造与毁灭的一切变化皆由其而起。那位光辉者在那里居住二百(年),婆罗门中最优秀的人啊。

13.151.17

अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः ।
जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च ॥ १३.१५१.१७ ॥

然后,当时间耗尽时,他又从那个地方返回,重新获得生之法则与一切,以及创造之初所发生的回归。

13.151.18

अशाश्वतमिदं सवेमिति चिन्त्योपलभ्य च ।
शाश्वतं दिव्यमचलमदीनमपनर्भवम् ॥ १३.१५१.१८ ॥

思惟一切皆是无常,既已领悟,他便证得永恒、神圣、不动、不衰、无再生的境界。

13.151.19

आस्थास्यत्यभयं नित्यं यत्रावृत्तिर्न विद्यते ।
यत्रि गत्वा न म्रियते जन्म चापि न विद्यते ॥ १३.१५१.१९ ॥

他将永远安住于无畏之中,那里没有轮回;到达那里的人不死,那里也没有生。

13.151.20

गर्भक्लेशामयाः प्राप्ता जायता च पुनः पुनः ।
कायक्लेशाश्च विविधा द्वन्द्वानि विविधानि च ॥ १३.१५१.२० ॥

胎中之苦与疾病一再降临,在一次次出生之时;还有种种身体的苦痛,以及种种对立之双。

13.151.21

शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च ।
तत्रतत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः ॥ १३.१५१.२१ ॥

寒热、苦乐,以及由嫉妒和憎恨所生的种种,在此处彼处经历;没有任何地方有恒常的状态。

13.151.22

एवं स निश्चयं कृत्वा निर्मुच्यि ग्रहबन्धनात् ।
छित्त्वा भार्यामयं पाशं तथैवापत्यसम्भवम् ॥ १३.१५१.२२ ॥

如是下定决心,从执著之缚中解脱,斩断由妻子所结之索,也斩断由子嗣所生之索。

13.151.23

यतिधर्ममुपाश्रित्यि गुरुशुश्रूषणे रतः ।
अचिरेणैव कालेन श्रेयः समभिगच्छति ॥ १३.१५१.२३ ॥

依托遁世者之法,专心侍奉上师,不久便能获得至善。

13.151.24

योगशास्त्रं च साङ्ख्यं च विदित्वा सोऽर्थतत्वतः ।
अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः ॥ १३.१५१.२४ ॥

他从义理的真实本质上通晓瑜伽之学与数论,得到上师允许,依照经典而安住。

13.151.25

पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः ।
शून्यागारनिकेतश्च वनवृक्षगुहाशयः ॥ १३.१५१.२५ ॥

常往圣地沐浴,居于河流沙洲,以空屋为居所,于林中树下或洞穴中寝卧。

13.151.26

अरण्यानुचरो नित्यं देवारण्यनिकेतनः ।
एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः ॥ १३.१५१.२६ ॥

常游于林中,以神圣之林为居所,不于任何处停留逾一两夜,此即再生之婆罗门。

13.151.27

शीर्णपर्णभुगेवापि वने चरति भिक्षुकः ।
न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते ॥ १३.१५१.२७ ॥

乞士在林中游行,只食落下的干叶;不为享乐而往,只取维持生命所需。

13.151.28

धर्मलब्धं समश्नाति न कामात्किञ्चिदश्नुते ।
युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति ॥ १३.१५१.२८ ॥

唯食以法所得之物,不因欲望而食;行路只看一轭之远,不过一克罗舍。

13.151.29

समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः ।
सर्वभूताभयकरस्तथैवाभयदक्षिणः ॥ १३.१५१.२९ ॥

荣辱皆平,视土块、石头与黄金为一,使一切众生无所畏惧,以无畏为其布施。

13.151.30

निर्द्वन्द्वो निर्नमस्कारो निरानन्दपरिग्रहः ।
निर्ममो निरहङ्कारः सर्वभूतनिराश्रयः ॥ १३.१५१.३० ॥

超越二元对立,不向任何人致礼,不接受令人欢喜之物,无我所执与我慢,不依赖任何众生。

13.151.31

परिसङ्ख्यानतत्वज्ञस्तदा सत्यरतः सदा ।
ऊर्ध्वं नाधो न तिर्यक्च न किञ्चिदभिकामयेत् ॥ १३.१५१.३१ ॥

通晓辨别之真理、始终乐于真实者,不应向上、向下或旁侧有任何所欲。

13.151.32

एवं हि रममाणस्तु यतिधर्मं यथाविधि ।
कालस्य परिणामात्तु यथा पक्वफलं तथा ॥ १३.१५१.३२ ॥

如是依规则欢喜行苦行者之法,犹如果实因时节成熟,

13.151.33

स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम् ।
निरामयमनाद्यन्तं गुणसौम्यमचेतनम् ॥ १३.१५१.३३ ॥

舍弃自己的身体,他应进入永恒的梵,它无病、无始无终、以德性温和、无知觉。

13.151.34

निरक्षरमबीजं च निरिन्द्रियमजं तथा ।
अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च ॥ १३.१५१.३४ ॥

无音节、无种子、无根、无生、不可胜、不灭、不可分、微细,正是此。

13.151.35

निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः ।
भूतभव्यभविष्यस्य कालस्य परमेश्वरम्। ॥ १३.१५१.३५ ॥

无德性、超越自性、一切皆不变,是过去、现在、未来众生之时的至上主宰。

13.151.36

अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते॥ ॥ १३.१५१.३६ ॥

他为了无尽,而证得未显现的补鲁沙与田。