摩诃婆罗多 · 章 13.156
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.156.1
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् ।
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥ १३.१५६.१ ॥
婆罗多族中最优秀的人啊,我已听闻供奉花朵与焚香者的果报,也听闻献祭仪轨的果报。请您再次讲述此事。
13.156.2
धूपप्रदानस्य फलं प्रदीपस्य तथैव च ।
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥ १३.१५६.२ ॥
供奉焚香的果报是什么,供奉灯火的果报也是如此吗?家主们为何要投撒供物(bali)?
13.156.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नहुषस्य च संवादमगस्त्यस्य भृगोस्तता ॥ १३.१५६.३ ॥
关于此事,人们也讲述这段古老的传说——那呼沙与阿伽斯提耶、婆利古的对话。
13.156.4
नहुषो हि महाराज राजर्षिः सुमहातपाः ।
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥ १३.१५६.४ ॥
大王啊,那呼沙是一位苦行极深的王仙,他凭借善行在此获得了诸神之王的权位。
13.156.5
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् ।
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥ १३.१५६.५ ॥
大王啊,那呼沙住在天界时也保持克制,举行了种种人间与天界的仪式。
13.156.6
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः ।
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥ १३.१५६.६ ॥
大王啊,那位大德的一切人间仪式在天界持续进行,神圣而永恒的仪式亦然。
13.156.7
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा ।
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥ १३.१५६.७ ॥
火祭之事、祭薪、吉祥草、香花、以食物与炒米所作的供养、焚香以及点灯之事。
13.156.8
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः ।
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥ १३.१५६.८ ॥
在那位大德国王的家中,一切仍照常进行;即使在天界,他也举行念诵祭与意念祭。
13.156.9
देवानभ्यर्चयच्चापि विधिवत्स सुरेश्वरः ।
सर्वानेव यथान्यायं यथापूर्वमरिंदम ॥ १३.१५६.९ ॥
那位诸神之王也依仪轨礼敬诸神;叻,敌人的征服者啊,他依正法如往昔一样礼敬了他们所有人。
13.156.10
अथेनद्रोऽहमिति ज्ञात्वा अहङ्कारं समाविशत् ।
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः ॥ १३.१५६.१० ॥
于是他认定“我即因陀罗”,便陷入了傲慢,那位国王的一切仪式都被废弃了。
13.156.11
सप्तर्षीन्वाहयामास वरदानदमान्वितः ।
परिहीनक्रियश्चैव दुर्बलत्वमुपेयिवान् ॥ १३.१५६.११ ॥
他虽具足恩赐与自制,却令七仙人抬着他的轿子;他的仪式既已废弃,便陷入了衰弱。
13.156.12
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् ।
अहङ्काराभिभूतस्य सुमहानत्यवर्तत ॥ १३.१५६.१२ ॥
他让苦行丰盈的诸位大仙抬着他,而他被傲慢所压倒,漫长的时日就这样过去了。
13.156.13
अथ पर्यायशः सर्वान्वाहनायोपचक्रमे ।
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥ १३.१५६.१३ ॥
于是他依次开始抬负众人;婆罗多之子啊,轮到阿伽斯蒂亚的时候了。
13.156.14
अथागत्य महातेजा भृगुर्ब्रह्मविदांवरः ।
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥ १३.१५६.१४ ॥
这时,光辉伟大、知梵者中最为杰出的婆利古前来,走近住在静修处的阿伽斯蒂亚,说了这番话。
13.156.15
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः ।
नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ १३.१५६.१५ ॥
如此,我们为何要忍受这位心术不正的诸神之主那呼沙的轻慢呢,大仙?
13.156.16
कथमेष मया शक्यः शप्तुं यस्य महामुने ।
वरदेन वरो दत्तो भवतो विदितश्च सः ॥ १३.१५६.१६ ॥
大仙啊,赐福者已赐予他恩惠,我怎能诅咒他呢?这您也是知道的。
13.156.17
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति ।
इत्यनेन वरं देवो याचितो गच्छता दिवम् ॥ १३.१५६.१७ ॥
“凡进入我视线之人,都将归我所有。”这位神在前往天界时如此请求了一个恩惠。
13.156.18
एवं न दग्धः स मया भवता च न संशयः ।
अन्येनाप्यृषिमुख्येन न दग्धो न च पातितः ॥ १३.१५६.१८ ॥
这样,他既未被我焚毁,也未被你焚毁——这毫无疑问;也未被任何其他首席仙人焚毁或击倒。
13.156.19
अमृतं चैव पानाय दत्तमस्मै पुरा विभो ।
महात्मना तदर्तं च नास्माभिर्विनिपात्यते ॥ १३.१५६.१९ ॥
啊,大能者!往昔那位大德曾给他饮用甘露,因此我们不将他推倒。
13.156.20
प्रायच्छत वरं देवः प्रजानां दुःखकारणम् ।
द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥ १३.१५६.२० ॥
神赐予他一个成为民众苦难之因的恩典;那个人中最卑劣者对再生者行不义之事。
13.156.21
तत्र यत्प्राप्तकालं नस्तद्ब्रू वदतांवर ।
भवांश्चापि यथा ब्रूयात्तत्कर्तास्मि न संशयः ॥ १३.१५६.२१ ॥
因此,请告诉我们当下应做之事,言者中最杰出者啊;您如何说,我便如何做,此无疑问。
13.156.22
पितामहनियोगेन भवन्तं सोऽहमागतः ।
प्रतिकर्तुं बलवति नहुषे दर्पमोहिते ॥ १३.१५६.२२ ॥
奉祖父之命,我来到您这里,要制止那被傲慢迷惑的强大的那呼沙。
13.156.23
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट् ।
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥ १३.१५६.२३ ॥
今日,诸天之王将把你套上他的战车,愚蠢的人啊;今日我将以我的威力,使这个傲慢者不再是因陀罗。
13.156.24
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् ।
सञ्चाल्य पापकर्माणमैन्द्रात्स्थानात्सुदुर्मतिम्। ॥ १३.१५६.२४ ॥
今日,就在您眼前,我将恢复百祭的因陀罗;让那作恶、心术极坏的人从因陀罗之位上倾覆下来。
13.156.25
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति ।
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥ १३.१५६.२५ ॥
今日那恶神因陀罗将以脚踩辱你。你心被天命所伤,愚钝之人,正自取毁灭。
13.156.26
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् ।
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥ १३.१५६.२६ ॥
我因受辱而极为愤怒,将以怒意诅咒那违背正法、仇视婆罗门的罪人:“你成为蛇吧!”
13.156.27
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् ।
धरण्यां पातयिष्यामि पश्यतस्ते महामुने ॥ १३.१५६.२७ ॥
然后,大仙,在你注视之下,我要将那心地极其邪恶、光彩因‘可耻’之声而受挫的人掷倒在地。
13.156.28
नहुषं पापकर्माणमैश्वर्यबलमोहितम् ।
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥ १३.१५६.२८ ॥
至于造恶的那赫沙,他被权势之力所迷惑,大仙,你如何喜欢,我便如何去做。
13.156.29
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः ।
अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥ १३.१५६.२९ ॥
婆利古如此说后,不灭的阿伽斯提耶(密特罗与伐楼那之子)大为欢喜,心中焦虑之热也消退了。