Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.157

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.157.1

कथं वै स विपन्नश्च कथं वै पातितो भुवि ।
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥ १३.१५७.१ ॥

他如何陷入毁灭,又如何被抛落大地?他如何获得天神之主的地位?这件事只有您才有资格说明。

13.157.2

एवं तयोः संवदतोः क्रियास्तस्य महात्मनः ।
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषाः ॥ १३.१५७.२ ॥

如此,当二人交谈之时,那位大德的一切仪轨都得以施行——既有天界的,也有人间的。

13.157.3

तथैव दीपदानानि सर्वोपकरणानि वै ।
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः ॥ १३.१५७.३ ॥

同样,还有供灯之施、一切器具、献祭之仪,以及其他种种,还有各种小牛。

13.157.4

सर्वास्तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः ।
देवलोके नृलोके च सदाचारपुरस्कृताः ॥ १३.१५७.४ ॥

这些都从那位大德的天神之主而生,在天界与人间都因善行而受到尊崇。

13.157.5

ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः ।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥ १३.१५७.५ ॥

王中之王啊,居家者为求兴旺而行这些——以焚香之供、燃灯,以及礼敬。

13.157.6

यथा सिद्धस्य चान्नस्य गृह्य चाग्रं प्रदीयते ।
बलयश्च गृहोद्देशे ततः प्रीयन्ति देवताः ॥ १३.१५७.६ ॥

正如将煮好的食物取其首份供奉,并在家中之处献上祭品,诸神便因此而欢喜。

13.157.7

यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि ।
तथा शतगुणा प्रीतिर्देवतानां प्रजायते ॥ १३.१५७.७ ॥

如同家主在供奉之礼中得到满足,诸神也会生起百倍的喜悦。

13.157.8

एवं धूपप्रदानं च दीपदानं च साधवः ।
प्रयच्छति नमस्कारैर्युक्तमात्मगुणावहम् ॥ १३.१५७.८ ॥

同样,善人以礼拜之心奉献香与灯,这是合宜的行为,能增长自身的德性。

13.157.9

स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता ।
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः ॥ १३.१५७.९ ॥

智者以沐浴与水所行之事,若伴以礼拜,便能使诸神欢喜。

13.157.10

पितरश्च महाभागा ऋषयश्च तपोधनाः ।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनाऽर्चिताः ॥ १३.१५७.१० ॥

大福的祖先、以苦行为财富的仙人,以及一切家中神祇,若依法礼敬,皆会欢喜。

13.157.11

इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः ।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥ १३.१५७.११ ॥

那位人主那呼沙采纳此见,获得了诸天之主的伟大地位,因而做出了这件奇异之事。

13.157.12

कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते ।
सर्वमेतदवज्ञाय न चकार यथाविधि ॥ १३.१५७.१२ ॥

然而到了某个时候,他的福运衰竭之时到来,他轻慢了这一切,未依规定而行。

13.157.13

ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः ।
धूपदीपादिकविधिं न यथावच्चकार ह।
ततोऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते ॥ १३.१५७.१३ ॥

于是他因力量的傲慢而衰弱,未能如法行焚香燃灯等仪式。于是他的祭祀之地被罗刹所侵扰。

13.157.14

अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ।
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥ १३.१५७.१४ ॥

于是那位大力者召唤圣仙中最杰出的阿伽斯提耶,让他充当坐骑。他仿佛含笑,从萨拉斯瓦蒂河岸迅速而来。

13.157.15

ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् ।
निमीलयस्व नयने जटां यावद्विशामि ते।
सुरेन्द्रपतनायेति स च नेत्र न्यमीलयत् ॥ १३.१५७.१५ ॥

于是大光明的婆利古对弥陀罗与伐楼那之子说:"闭上你的眼睛,待我进入你的发髻,为了使诸神之王倾覆。"他便闭上了眼睛。

13.157.16

ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः ।
भृगुः स सुमहातेजाः पातनाय नृपस्य च ॥ १३.१५७.१६ ॥

于是,阿伽斯提耶的发髻被看到之后,不朽的婆利古进入其中——那位极大光明的婆利古,为了使国王倾覆。

13.157.17

ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै ।
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते ॥ १३.१५७.१७ ॥

于是诸神之王来到那位圣仙面前,充当坐骑。阿伽斯提耶对诸神之主说道:"哦,人民之主,快把我套上;我该把你带到哪里去?"

13.157.18

यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ।
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम् ॥ १३.१५७.१८ ॥

"你说到哪里,我就带你到哪里,诸天之主。"听了这话,那呼沙便把那位圣仙套上了。

13.157.19

भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम् ।
न चापि दर्शनं तस्य चकार स भृगुस्तदा।
वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥ १३.१५७.१९ ॥

婆利古住在他的发髻之中,极其欢喜;然而他当时没有显现于他之前,因为他知道伟大的那护沙所得恩赐的威力。

13.157.20

न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै ।
तं तु राजा पदैकेन चोदयामास भारत।
श्रुतिः स्मृतिः प्रमाणं वा नेतिवादेन देवराट् ॥ १३.१५७.२० ॥

那时阿伽斯提亚没有生气,尽管他被套在那护沙身上。婆罗多啊,国王用一只脚催促他;诸神之王以“没有天启,没有传承,也没有权威”的说法(催促他)。

13.157.21

न चुकोप स धर्मात्मा ततः पादेन देवराट् ।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥ १३.१५७.२१ ॥

那时正义之心的诸神之王没有生气;随后,他对阿伽斯提亚发怒,用左脚击打了他的头。

13.157.22

तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः ।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥ १३.१५७.२२ ॥

当他的头被击打时,住在发髻中的婆利古大怒,诅咒了心怀恶念的那护沙。

13.157.23

यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम् ।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥ १३.१५७.२३ ॥

因为你愤怒地用脚击打了这位大仙的头,所以,愚昧之人啊,你要迅速变成蛇,前往大地。

13.157.24

शप्तोऽथ स तदा तेन सर्पो भूत्वा पपात ह ।
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ १३.१५७.२४ ॥

那时,他被婆利古诅咒,化作蛇跌落大地,婆罗多中最优秀者啊,而婆利古仍然隐身不现。

13.157.25

भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते ।
स शक्तोनाऽभविष्यद्वै पातने तस्य तेजसा ॥ १३.१५७.२५ ॥

地上之主啊,若那诃沙曾见到婆利古,他便不会被其光辉所推倒。

13.157.26

स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ।
पतितोऽपि महाराज भूतले स्मृतिमानभूत् ॥ १३.१५७.२६ ॥

然而他以种种布施、苦行与戒律,大王啊,虽已坠落于地,仍恢复了记忆。

13.157.27

प्रसादयामास भृगुं शापान्तो मे भवेदिति ।
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥ १३.१५७.२७ ॥

“愿我的诅咒有终结。”他说着去安抚婆利古。于是怀着悲悯的阿伽斯提耶安抚了那位婆利古。大王啊,他怀着慈悲,为了诅咒的终结而将其赐予。

13.157.28

राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः ।
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत ॥ १३.१५७.२८ ॥

一位名为坚战的国王将是俱卢中最优秀的人。他将使你脱离诅咒——说完这话,他便消失了。

13.157.29

अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः ।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥ १३.१५७.२९ ॥

大光明的阿伽斯提耶也完成了因陀罗的使命,受到再生族的敬拜,回到了自己的修行处。

13.157.30

नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः ।
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप ॥ १३.१५७.३० ॥

大王啊,那诃沙也由你从那诅咒中解救出来。人主啊,在你眼前,他前往梵天的居所。

13.157.31

तदा स पातयित्वा तं नहुषं भूतले भृगुः ।
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत् ॥ १३.१५७.३१ ॥

于是婆利古将那诃沙推落在地,前往梵天的居所,并向梵天禀告。

13.157.32

ततः शक्रं समानाय्य देवानाह पितामहः ।
वरदानान्मम सुरा नहुषो राज्यमाप्तवान्।
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥ १३.१५७.३२ ॥

于是祖父召来因陀罗,对诸神说:“诸天啊,因我的恩赐,那诃沙得到了王位;但被愤怒的阿伽斯提亚所摧,他已坠落,去了大地。”

13.157.33

न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित् ।
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥ १३.१५७.३३ ॥

没有国王,任何地方都不可能安然生活;因此,愿这位释迦再次在诸神的王位上受灌顶。

13.157.34

एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् ।
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप ॥ १३.१५७.३४ ॥

普利塔之子啊,当祖父如此说话时,诸神欢喜地回答道:“就这样吧。”人主啊。

13.157.35

सोऽभिषिक्तो भगवता देवराज्ये च वासवः ।
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥ १३.१५७.३५ ॥

王中猛虎啊,被世尊梵天在诸神王位上灌顶之后,婆娑瓦如前一样光辉闪耀。

13.157.36

एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् ।
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥ १३.१५७.३६ ॥

这古老的事件就是这样因那诃沙的过犯而发生的;而那位那诃沙,又凭借同样的业行而重新成就。

13.157.37

तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः ।
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥ १३.१५७.३७ ॥

因此在家者应在傍晚布施灯火。布施灯火者死后得天眼。布施灯火者如满月般光明。

13.157.38

यावदक्षिनिमेषाणि ज्वलन्ते तावतीः समाः ।
रूपवान्बलवांश्चापि नरो भवति दीपदः ॥ १३.१५७.३८ ॥

灯火燃烧的时间有几次眨眼,布施灯火者便有几年为相貌端正、力量强大之人。

13.157.39

य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः ।
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः ॥ १३.१५७.३९ ॥

听闻此法者,或最优秀的再生族诵读此法者,皆得至梵天之界,此无疑也。