摩诃婆罗多 · 章 13.158
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.158.1
ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ ।
नृशंसकारिणो योनिं कां ते गच्छन्ति मानवाः ॥ १३.१५८.१ ॥
婆罗多的雄牛啊!那些愚昧地窃取婆罗门财物、行残酷之事的人,将投生何种胎胞?
13.158.2
पातकानां परं ह्येतद्ब्रह्मस्वहरणं बलात् ।
सान्वयास्ते विनश्यन्ति चण्डालाः प्रेत्य चेह च ॥ १३.१५८.२ ॥
以暴力夺取婆罗门的财物,是一切罪中最重的;这样的旃陀罗连同其族类,今生与死后都将毁灭。
13.158.3
अत्राप्युदाहरन्तीममितिहासं पुरातनमम् ।
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥ १३.१५८.३ ॥
婆罗多啊,关于此事,人们引用这段古老的故事,即旃陀罗与一个堕落的刹帝利之间的对话。
13.158.4
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे ।
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥ १३.१५८.४ ॥
旃陀罗啊,你外貌虽老,行为却像孩童。你以狗和驴的尘土为食,为何要害怕牛群?
13.158.5
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते ।
कस्माद्गोरजसा ध्वस्तमङ्गं तोयेन सिञ्चसि ॥ १३.१५८.५ ॥
善人所鄙弃的行为,才是旃陀罗所应做的。既然如此,你为何用水洒在被牛尘玷污的身上?
13.158.6
ब्राह्मणस्य गवां राजन्प्रयान्तीनां रजः पुरा ।
सोममुद्ध्वंसयामास तं सोममपिबन्द्विजाः ॥ १३.१५८.६ ॥
国王啊,往昔婆罗门的牛群行走时扬起的尘土,污染了苏摩;婆罗门们便饮下了那被污染的苏摩。
13.158.7
भृत्यानामपि राज्ञस्तु रजसा ध्वंसितं मखे ।
तत्पानाच्च द्विजाः सर्वे क्षिप्रं नरकमाविशन् ॥ १३.१५८.७ ॥
即便被国王仆从的尘土所污染,此祭中的(苏摩)也被玷污;饮用之后,所有再生者迅速堕入地狱。
13.158.8
दीक्षितश्च स राजाऽपि क्षिप्रं नरकमाविशत् ।
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥ १३.१५८.८ ॥
那位受戒的国王也与所有那些祭司一起,因依靠婆罗门的财物为生,迅速堕入地狱。
13.158.9
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः ।
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥ १३.१५८.९ ॥
在那里饮用牛奶、酥油和凝乳的人们——婆罗门与刹帝利一起——全部堕入地狱。
13.158.10
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधूय तान् ।
पशूनवेक्षमाणश्च साधुवृत्तेन दंपती ॥ १३.१५८.१० ॥
那些(母牛)以乳汁杀死了儿子,也同样杀死了孙子;那对行为善良的夫妇,甩开他们,看着牲畜。
13.158.11
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः ।
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥ १३.१५८.११ ॥
国王啊,我在那里以梵行者的身份、克制诸根而居住;我的乞食因他们的尘土而被玷污了,人主啊。
13.158.12
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं नृप ।
ब्रह्मस्वहारी न नृपः सोऽप्रतिष्ठां गतिं ययौ ॥ १३.१५८.१२ ॥
国王啊,于是我食用了那些,便成了旃陀罗,国王啊。那位盗取婆罗门财物的国王,没有立足之处,走向了他的归宿。
13.158.13
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन ।
न पश्येन्नानुमोदेच्च न हर्तुं किञ्चिदाहरेत् ॥ १३.१५८.१३ ॥
因此,绝不可夺取婆罗门的财产分毫;不可觊觎,不可赞同,也不可为夺取它而携带任何东西。
13.158.14
ब्रह्मस्वं रजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ।
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता ॥ १३.१५८.१४ ॥
看看吃了被罪孽尘埃玷污的婆罗门财产的结果吧:看看我,看我落到了什么地步。因此,有智慧的人甚至不可出售苏摩。
13.158.15
एतद्धि धनमुत्कृष्टं द्विजानामविशेषतः ।
विक्रयं त्विह सोमस्य गर्हयन्ति मनीषिणः ॥ १३.१५८.१५ ॥
此财富对再生族而言无分高下,乃是至上之财;而在此处,智者谴责出售苏摩。
13.158.16
ये चैनं क्रीणते तात ये च विक्रीणते जनाः ।
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥ १३.१५८.१६ ॥
亲爱的孩子,那些购买它的人和出售它的人,他们全都到达毗婆娑多的世界,然后完全堕入劫火地狱(Raurava)。
13.158.17
सोमं तु रजसा ध्वस्तं विक्रीणन्विधिपूर्वकम् ।
श्रोत्रियो वार्धुषी भूत्वा नचिरं स विनश्यति ॥ १३.१५८.१७ ॥
然而,那按规矩出售被罪尘玷污之苏摩的人,即使是精通吠陀的婆罗门,也会变成放高利贷者,不能长久,终将毁灭。
13.158.18
नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति ।
ब्रह्मस्वहारी नरकान्यातनाश्चानुभूय तु।
मलेषु च कृमिर्भूत्वा श्वविष्ठामुपजीवती ॥ १३.१५८.१८ ॥
他堕入三十种地狱,以自己的粪便为食。窃取婆罗门财产的人,历经地狱与种种酷刑之后,又化为秽物中的蛆虫,以狗屎为食。
13.158.19
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् ।
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥ १३.१५८.१९ ॥
贱民的行为、对朋友与妻子的过度傲慢与违逆——法(达摩)把它们放在秤上称量,只有过度的傲慢更重。
13.158.20
म्लानं मां विकलं पश्य विवर्णं हरिणं कृशम् ।
अतिमानेनि मां पश्य पापां गतिमुपागतम् ॥ १३.१५८.२० ॥
看我——枯萎、残破、变色、发黄而消瘦;看我,因过度的傲慢而堕入罪恶之境。
13.158.21
अहं वै विपुले तात कुले दनसमन्विते ।
पौराणे जन्मनि विभो ज्ञानविज्ञानपारगः ॥ १३.१५८.२१ ॥
我啊,尊者,在一个富于布施的庞大家族中,在古老的出生中,主啊,我曾精通知识与特殊的智慧。
13.158.22
अभवं तत्र जानानो ह्येतान्दोषान्मदात्सदा ।
संरब्ध एव भूतानां पृष्ठमांसमभक्षयम् ॥ १३.१५८.२२ ॥
在那里,我虽知道这些过失,却总被傲慢所迷醉;对众生愤怒,我吃他们背上的肉。
13.158.23
सोऽहं वै विदितः सर्वैर्दूरगो वनिनो वने ।
साधूनां परिभावेप्सुर्विप्राणां गर्वितो धनैः।
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ॥ १३.१५८.२३ ॥
我——众人皆知,在林中远游的隐居者,想要轻慢善人,因财富而骄傲地对待婆罗门——我落到了这般境地;看时间的翻转吧。
13.158.24
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् ।
धावमानं सुसंरब्दं फश्य मां रजसाऽन्वितम् ॥ १३.१५८.२४ ॥
看我——如同燃烧的衣角,被苍蝇所扰,极度慌乱地奔跑,满身尘土。
13.158.25
स्वाध्यायैस्तु महात्पापं हरन्ति गृहमेधिनः ।
दानैः पृथग्विधैश्चापि विप्रजात्यां मनीषिणः ॥ १३.१५८.२५ ॥
居家者以诵读吠陀去除大罪;婆罗门种姓中的智者也以种种布施去除。
13.158.26
तथा पापकृतं विप्रमाश्रमस्तं महीपते ।
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥ १३.१५८.२६ ॥
同样,大王,即使犯下罪过的婆罗门,一旦在其修行阶段摆脱了一切执着,吠陀也能将他渡过彼岸。
13.158.27
अहं हि पापयोन्यां वै प्रसूतः क्षत्रियर्षभ ।
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥ १३.१५८.२७ ॥
我确实生于罪过的胎中,刹帝利中的雄牛啊;我找不到确定的方法,不知如何才能解脱。
13.158.28
जातिस्मरत्वं च मम केनचित्पूर्वकर्मणा ।
शुभने येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥ १३.१५८.२८ ॥
因前世某种善业,我记得前世的生命;大王,正因此,我愿获得解脱。
13.158.29
त्वमिमं सम्प्रपन्नाय संशयं ब्रूहि पृच्छते ।
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥ १३.१५८.२९ ॥
善人中最优者啊,请你告诉这位前来请教疑问的人:身为旃陀罗,我如何能够解脱?
13.158.30
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि ।
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥ १३.१५८.३० ॥
旃陀罗啊,你要立下誓愿,由此你将获得解脱;为婆罗门舍弃性命,你将得到所求的归宿。
13.158.31
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् ।
हित्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥ १३.१५८.३१ ॥
在战火中为了婆罗门而将身体献给食肉者,舍弃生命,你便能获得解脱;否则你不配得到解脱。
13.158.32
इत्युक्तः स तदा तेन ब्रह्मस्वार्थे परन्तप ।
हित्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥ १३.१५८.३२ ॥
灭敌者啊,他这样被劝说之后,便为了婆罗门的财物,在战阵前舍弃生命,获得了所愿的归宿。
13.158.33
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ ।
यदीच्छसि महाबाहो शाश्वतीं गतिमात्मनः ॥ १३.१५८.३३ ॥
因此,我的儿子,婆罗多的雄牛,你必须守护婆罗门的财物,大臂者啊,如果你想为自己获得永恒的归宿。