Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.160

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.160.1

दानं बहुविधाकारं शान्तिः सत्यमहिंसितम् ।
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य वाऽपि यत् ॥ १३.१६०.१ ॥

多种多样的布施、寂静、真实、不害,以及对自己妻子的满足,还有布施的果报——这些你都已宣说。

13.160.2

पितामहस्य विदितं किमन्यत्तपसो बलात् ।
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि ॥ १३.१६०.२ ॥

祖父啊,在苦行之力之外,还有什么是您所不知的?比苦行更高的,今天请您为我们解说。

13.160.3

तपसः प्रक्षयो यावत्ताल्लोको युधिष्ठिर ।
मतं ममात्र कौन्तेय तपो नानशनात्परम् ॥ १३.१६०.३ ॥

坚战啊,世界存续的范围,正是苦行耗尽之所及。依我之见,贡蒂之子,没有比禁食更高的苦行。

13.160.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥ १३.१६०.४ ॥

此处人们也引用这个古老的故事——大德婆伽罗陀与梵天的对话。

13.160.5

अतीत्य सुरलोकं च गवां लोकं च भारत ।
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम् ॥ १३.१६०.५ ॥

越过天神之界与牛之界,婆伽罗陀前往仙人之界——据闻如此,婆罗多啊。

13.160.6

तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथम् ।
कथं भगीरथाऽऽगास्त्वमिमं लोकं दुरासदम् ॥ १३.१६०.६ ॥

梵天见到他,便对国王婆伽罗陀说:“婆伽罗陀啊,你是如何来到这难以到达的世界的?”

13.160.7

न हि देवा न गन्धर्वा न मनुष्या भगीरथ ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥ १३.१६०.७ ॥

跋吉罗陀啊,未曾修苦行的天神、乾达婆和凡人都不会来到这里。你是怎样来到这里的?

13.160.8

निश्शङ्कमन्नमददां ब्राह्मणोभ्यः ।
शतं सहस्राणि सदैवतानाम्।
ब्राह्मं व्रतं नित्यमास्थाय विद्व-
न्न त्वेवाहं तस्य फलादिहागाम् ॥ १३.१६०.८ ॥

我毫不犹豫地将食物施予婆罗门,十万之众连同诸神。常持梵行之誓,博学者啊,我并非因其果报而来到这里。

13.160.9

दशैकरात्रान्दशपञ्चरात्रा-
नेकादशैकादशकान्क्रतूंश्च।
ज्योतिष्टोमानां च शतं यदिष्टं ।
फलेन तेनापि च नागतोऽहम् ॥ १३.१६०.९ ॥

十次一夜祭、十五次五夜祭、每十一次的祭祀,以及我所行的一百次Jyotiṣṭoma祭——即便凭借其果报,我也未曾来到此处。

13.160.10

यच्चावसं जाह्नवीतीरनित्यः ।
शतं समास्तप्यमानस्तपोऽहम्।
अदां च तत्राश्वतरीसहस्रं ।
नारीपुरं न च तेनाहमागाम् ॥ १३.१६०.१० ॥

我常住在阇诃维河岸,苦修百年,在那里布施了一千头母骡和一座妇女之城,但即便凭此,我也未曾来到这里。

13.160.11

दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम् ।
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः ॥ १३.१६०.११ ॥

在普什卡罗,我以数十万计,向再生者布施了十万匹马和二十万头牛。

13.160.12

सुवर्णचन्द्रोत्तमधारिणीनां ।
कन्योत्तमानामददं सहस्रम्।
षष्टिं सहस्राणि विभूषितानां ।
जाम्बूनदैराभरणैर्न तेन ॥ १३.१६०.१२ ॥

我布施了一千位佩戴金饰与月形饰物的上等少女,又布施了六万位以阎浮檀金饰装扮的女子;即便凭此,我也未曾来到这里。

13.160.13

दशार्बुदान्यददं गोसवेज्या-
स्वेकैकशो दश गा ओकनाथ।
समानवत्साः पयसा समन्विताः ।
सुवर्णकांस्योपदुहा न तेन ॥ १३.१६०.१३ ॥

在牛祭与祭祀中,我每次施舍十个阿尔布达,每次十头牛,家主啊;牛犊大小相等、乳汁充足,并配有金铜挤奶器。由于那功德,我并未来到此处。

13.160.14

आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् ।
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च ॥ १३.१६०.१४ ॥

在阿普托里亚玛祭中,我每次按规定施舍十头;还有数百头产奶的格里希提牛和赤色的罗希尼牛。

13.160.15

दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह ।
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः ॥ १३.१६०.१५ ॥

我还施舍了十普拉尤塔的产奶母牛,梵天啊,且以十倍之数施予。由于那功德,我并未来到此处。

13.160.16

वाजिनां बाह्लिजातानामयुतान्यददं दश ।
कर्काणां हेममालानां न च तेनाहमागतः ॥ १३.१६०.१६ ॥

我施舍了十阿尤塔产于巴赫利卡的马,也有带金花环的灰马。由于那功德,我并未来到此处。

13.160.17

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम् ।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥ १३.१६०.१७ ॥

我还施舍了八千万金币,梵天啊,每日十枚,在每次祭祀中。由于那果报,我并未来到此处。

13.160.18

वाजिनां श्यामकर्णानां हरितानां पितामह ।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥ १३.१६०.१८ ॥

祖父啊,在耳朵黑、毛色青的马中,我施舍了十与七千万匹佩戴金花环的马,梵天啊。

13.160.19

ईषादन्तान्महाकायान्काञ्चतस्रग्विभूषितान् ।
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च ॥ १३.१६०.१९ ॥

我确实布施了成千上万头长着辕状獠牙、身躯庞大、饰有金花环、带莲花纹的象马之类,共十七。

13.160.20

अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः ।
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ॥ १३.१६०.२० ॥

众神之主啊,我布施了一万辆装饰着神圣金饰、车身镶金的战车。

13.160.21

सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ।
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः ॥ १३.१६०.२१ ॥

另外七组以华美装饰的马匹驾驭的车驾,即吠陀所宣说的某些祭礼酬金之部分。

13.160.22

वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम् ।
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह ॥ १३.१६०.२२ ॥

我在十次瓦阇佩耶祭中布施,其中也包括我,凭借祭祀与勇力,布施给那些力量与因陀罗相等之人。

13.160.23

सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ।
विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह।
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥ १३.१६०.२३ ॥

我以一千名佩金项链者作为祭礼酬金布施,征服了诸王并以财富举行祭祀,祖父啊;八次罗阇苏耶祭之后,我因此并未归来。

13.160.24

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते ।
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥ १३.१६०.२४ ॥

世界之主啊,恒河的水流所及之处,都被倾注的祭礼酬金所覆盖,我的象群也因此而来。

13.160.25

वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते ।
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम् ॥ १३.१६०.२५ ॥

每个太阴日,我都以恩赐之礼施予两千匹饰以数百件金饰的马,以及一百个村庄。

13.160.26

तपस्वी नियताहारः शममास्थाय वाग्यतः ।
दीर्घकालं हिमवति गङ्गार्थमचरं तपः ॥ १३.१६०.२६ ॥

我以苦行者之身,饮食有节,安住于寂静,守口不语,为了恒河在喜马拉雅山上长期修行苦行。

13.160.27

मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः ।
न तेनाप्यहमागच्छं फलेनेह पितामह ॥ १३.१६०.२७ ॥

国王以头叩拜大天神哈罗,并加以供养;然而,祖父啊,即使凭那果报,我也未能来到此地。

13.160.28

शम्याक्षेपैरयजं यच्च देवा-
ञ्शतैः क्रतूनामयुतैश्चापि यच्च।
त्रयोदशद्वादशाहैश्च देव ।
सपौण्डरीकैर्न च तेषां फलेन ॥ १३.१६०.२८ ॥

我以投掷沙弥(śamyā)之仪式祭祀诸神,以数百、数万次祭祀,以十三日与十二日之仪式,以及,哦神明,以白莲祭祀;然而即便凭借这些的果报,也未能如愿。

13.160.29

अष्टौ सहस्राणि ककुद्मिनामहं ।
शुक्लर्षभाणामददं द्विजेभ्यः।
एकैकं वै काञ्चनं शृङ्गमेभ्यः ।
पत्नीश्चैषामददं निष्ककण्ठीः ॥ १३.१६०.२९ ॥

我将八千头有峰的白牛施予再生者,每头牛的角都是金的;也将它们的母牛施予,佩戴金项链。

13.160.30

हिरण्यरत्ननिचयानददं रत्नपर्वतान् ।
धनधान्यैः समृद्धांश्च ग्रामाञ्शतसहस्रशः ॥ १३.१६०.३० ॥

我施予堆积如山的金子与珍宝,施予珠宝之山,并施予数十万个富饶的村庄,财富与谷物充盈。

13.160.31

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः ।
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥ १३.१६०.३१ ॥

我不知疲倦地向婆罗门布施了数以百计的哺乳母牛,并举行了许多大祭;而凭此……

13.160.32

एकादशाहैरयजं सदक्षिणै-
र्द्विर्द्वादशाहैरश्वमेधैश्च देव।
गवां धनैः षोडशभिश्च ब्रह्मं-
स्तेषां फलेनेह न चागतोऽस्मि ॥ १३.१६०.३२ ॥

神啊,我举行了附有布施的十一日祭,两次十二日祭,以及马祭;婆罗门啊,我还以牛和财物举行了十六种祭祀;然而我并非凭借这些的果报才来到这里。

13.160.33

निष्कैककण्ठमददं योजनायतं ।
तद्विस्तीर्णं काञ्चनपादपानाम्।
वनं चूतानां रत्नविभूषितानां ।
नचैव तेषामागतोऽहं फलेन ॥ १३.१६०.३३ ॥

我为每一个喉咙施舍一枚金币,还施舍了一片长一由旬、宽也一由旬、以珠宝装饰的芒果树与金树之林;然而我并非凭借它们的果报才来到这里。

13.160.34

तुरायणं हि व्रतमप्यधृष्य-
मक्रोधनोऽकरवं त्रिंशदब्दान्।
शतं गवामष्टशतानि चैव ।
दिनेदिने ह्यददं ब्राह्मणेभ्यः ॥ १३.१६०.३४ ॥

我也以不生气的心持守不可侵犯的图罗耶那誓愿三十年;每日向婆罗门布施一百头和八百头牛。

13.160.35

पयस्विनीनामथ रोहिणीनां ।
तथैवान्याननडुहो लोकनाथ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश ।
नेहागतस्तेन फलेन चाहम् ॥ १३.१६०.३५ ॥

世界之主啊,我每日向婆罗门布施产乳的母牛、红色母牛,以及同样的其他公牛;诸神之主啊,我也并非凭借这果报而来到这里。

13.160.36

शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन् ।
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा।
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ १३.१६०.३६ ॥

我以投掷沙弥(śamyā)将大地分为三份,四处行走祭祀。婆罗门啊,我在三十座火中经常献祭,也行了八次一切祭和七次人祭。

13.160.37

दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः ।
न चैव तेषां देवेश फलेनाहमिहागमम् ॥ १३.१६०.३७ ॥

以十次毗湿伐吉特祭和另外一千八百次,天神之主啊;但我并非凭借它们的果报而来到这里。

13.160.38

सरय्वां बाहुदायां च गङ्गायामथ नैमिषे ।
गवां शतानामयुतमददं न च तेन वै ॥ १३.१६०.३८ ॥

在萨拉尤河、巴呼达河、恒河边,然后在奈弥沙林,我布施了一万头牛,每次一百头;但我也并非因此而来到这里。

13.160.39

इन्द्रेण गुह्यं निहितं वै गुहायां ।
यद्भार्गवस्तपसेहाभ्यविन्दत्।
जाज्वल्यमानमुशनस्तेजसेह ।
तत्साधयामासमहं वरेण्य ॥ १३.१६०.३९ ॥

因陀罗藏在洞中的秘密,婆利伽瓦・乌尚那斯以苦行在此获得的、以光辉闪耀的那物——尊贵者啊,我把它成就了。

13.160.40

ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत् ।
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते।
पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः ॥ १३.१६०.४० ॥

我为婆罗门所行的祭祀与战事;那祭祀成就之时,婆罗门便感到满意。虽然我时常受到婆罗门的尊敬,但我也并非因此而来到这里。

13.160.41

सहस्रमृषयश्चासन्ये वै तत्र समागताः ।
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥ १३.१६०.४१ ॥

聚集在那里的千位仙人对我说:“主啊,你去梵界吧。”

13.160.42

प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो ।
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥ १३.१६०.४२ ॥

千位婆罗门欢喜地对我说:主啊,我已来到此世界;你对此不应有任何疑虑。

13.160.43

कामं यथावद्विहितं विधात्रा ।
पृष्टेन वाच्यं तु मया यथावत्।
तपो हि नान्यच्चानशनान्मतं मे ।
नमोस्तु ते देववर प्रसीद ॥ १३.१६०.४३ ॥

依造物主所定,既被问及,我便如实说。在我看来,唯有苦行,除禁食外别无他物。至上的天神啊,向您致敬;请您慈悲。

13.160.44

इत्युक्तवन्तं ब्रह्मि तु राजानं स भगीरथम् ।
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥ १३.१६०.४४ ॥

如此说完之后,那位值得尊敬的人依照规定所见的仪式,尊敬了值得尊敬的国王跋吉罗陀。

13.160.45

तस्मादनशनैर्युक्तो विप्रान्पूज्य नित्यदा ।
विप्राणां वचनात्सर्वं परत्रेहं च सिध्यति ॥ १३.१६०.४५ ॥

因此,专心禁食之人应当常常尊敬婆罗门;依婆罗门之言,今世与来世一切皆得成就。

13.160.46

वासोभिरन्नैर्गोभिस्च शुभैर्नैवेशिकैरपि ।
शुभैः सुरक्षणैश्चापि स्तोष्या एव द्विजास्तथा।
एतदेव परं गुह्यमलोभेन समाचर ॥ १३.१६०.४६ ॥

以衣服、食物、牛只、吉祥的住所布施,以及良好的庇护,应当赞美并尊敬再生族。这确是至高的秘密;无贪地践行之。