摩诃婆罗多 · 章 13.164
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.164.1
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।
गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः ॥ १३.१६४.१ ॥
大祖父以大德者之身,依规则宣说了祭祀,并如实说明了它们在今生与来世的各种功德。
13.164.2
न तै शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह ।
बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ १३.१६४.२ ॥
祖父啊,贫穷之人无法完成这些祭祀;祭祀需要许多器具,以及种种繁多的供品。
13.164.3
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह ।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥ १३.१६४.३ ॥
祖父啊,这些祭祀能被国王或王子完成吗?不是被缺乏财富与德行、孤立而不团结的人所能完成的。
13.164.4
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् ।
अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः।
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥ १३.१६४.४ ॥
祖父啊,请告诉我那种即使贫穷、缺乏财富与德行、孤立而不团结的人也总能完成、其果报与这些祭祀相等的仪轨。
13.164.5
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥ १३.१६४.५ ॥
这一仪轨以斋戒之果为本质,与祭祀之果相等,是安吉罗斯所宣说的。你要理解它,坚战。
13.164.6
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्।
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः ॥ १३.१६४.६ ॥
若人只在清晨与傍晚进食,其间不饮水,常行不害,并向迦塔吠陀斯(阿耆尼)奉献供养,则只需六年便能成就,此事无疑。
13.164.7
तप्तकाञ्चनवर्णं च विमानं लभते नरः ।
देवस्त्रीणामधीवासे नृत्तगीतनिनादिते।
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसन्निभे ॥ १३.१६४.७ ॥
此人获得如熔金之色的天车,居于天女之居所,其间回荡着歌舞之声;在生主之界,他居住如莲花般的数年,光辉如火。
13.164.8
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ।
धर्मत्नीरतो नित्यमग्निष्टोमफलं लभेत्।
यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत् ॥ १३.१६४.८ ॥
若有人连续三年每日只食一餐,常与其正法之妻相守,便得阿耆尼输姆祭的果报;或者应举行多金的、为因陀罗所喜的祭祀。
13.164.9
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः ।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥ १३.१६४.९ ॥
诚实、好施、敬重婆罗门、无嫉妒、能忍耐、自制且胜过愤怒者,便往至至高之境。
13.164.10
पाण्डुराभ्रपतीकाशे विमाने हंसलक्षणे ।
द्वे समाप्ते ततः पद्मे सोप्सरोभिर्वसेत्सह ॥ १३.१६४.१० ॥
乘白云般、有天鹅标记的天车,待二莲花期满,便与天女们同居。
13.164.11
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३.१६४.११ ॥
于第二日仅食一餐,连续十二个月常向阿耆尼(生知者)献供者。
13.164.12
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३.१६४.१२ ॥
常勤于火祭、每日黎明即起之人,得阿耆尼输姆祭之果报。
13.164.13
हंससारसयुक्तं च विमानं लभते नरः ।
इन्द्रलोके च वसते वरस्त्रीभिः समावृतः ॥ १३.१६४.१३ ॥
人得到以天鹅和鹤驾驾的天车,并在因陀罗界中被殊胜的女子环绕而居住。
13.164.14
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३.१६४.१४ ॥
若人于第三日只食一餐,并且十二个月中常以供品奉献于迦塔吠陀火者——
13.164.15
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः ।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ १३.१६४.१५ ॥
常勤奉行火祭、每日黎明而起的人,将获得阿提罗特拉祭的无上果报。
13.164.16
मयूरहंसयुक्तं च विमानं लभते नरः ।
सप्तर्षीणां सदा लोके सोप्सरोभिर्वसेत्सह।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥ १३.१६४.१६ ॥
人得到以孔雀和天鹅驾驾的天车,常与天女一同居住于七仙人的世界。据说那里有三朵莲花为他的归来而备。
13.164.17
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।
वाजपेयस्य यज्ञस्य फलं प्राप्नीत्यनुत्तमम्। ॥ १३.१६४.१७ ॥
若人于第四日只食一餐,并且十二个月中常以供品奉献于迦塔吠陀火者,将获得伐阇跋耶祭的无上果报。
13.164.18
इन्द्रिकन्याभिरूढं च विमान लभते नरः ।
सागरस्य च पर्यन्ते वासवं लोकमावसेत्।
देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥ १३.१६४.१८ ॥
人得到由因陀罗之女乘坐的天车,在海边的伐娑婆世界中居住,并常常观看天王的游戏。
13.164.19
दिवसे पञ्चमे यस्तु प्राश्नीयादैकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३.१६४.१९ ॥
若于第五日只食一餐,并连续十二个月常向遍知生者(火神阿耆尼)献祭者,
13.164.20
अलुब्धः। सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ।
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥ १३.१६४.२० ॥
若无贪欲、说真话、敬重婆罗门、不伤害他人、无嫉妒并安住于无罪者,将获得十二日之果。
13.164.21
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ।
सूर्यमालासमाभासमारोहेत्पाण्डुरं गुहम् ॥ १३.१६४.२१ ॥
以贤部那金所作、饰有天鹅之相、光如日鬘的天界车辇;他应当登上那白色的洞窟。
13.164.22
आवर्तनानि चत्वारि तथा पद्मानि द्वादश ।
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥ १३.१६४.२२ ॥
彼处有四转与十二莲花,以箭与火为量;他在那里安乐而住。
13.164.23
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.२३ ॥
若于第六日如贤者般进食,并连续十二个月常向遍知生者(火神阿耆尼)献祭者,
13.164.24
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ।
गवामयनयज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ १३.१६४.२४ ॥
若常于三时沐浴、守梵行且无嫉妒者,将获得加瓦玛耶那祭的无上之果。
13.164.25
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ।
शातकुम्भसमायुक्तं साधयेद्यानमुत्तमम् ॥ १३.१६४.२५ ॥
光辉如火焰,有天鹅与孔雀侍奉,饰以黄金,他当获得至上的乘载。
13.164.26
तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते ।
नूपुराणां निनादेन मेखलानां च निःस्वनैः ॥ १३.१६४.२६ ॥
同样,他在天女的怀中再次入睡,又被脚环的鸣响与腰带的叮当声唤醒。
13.164.27
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ।
पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥ १३.१६४.२७ ॥
千万亿年(千克罗)、三百克罗、十八个波德玛,以及两面旗幡,同样也是。
13.164.28
अयुतानि च पञ्चशदृक्षचर्मशतस्य च ।
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥ १३.१६४.२८ ॥
一万零五十,与百张熊皮之毛的数量相等,他在梵天之界受到尊崇。
13.164.29
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.२९ ॥
若于第七日仅食一餐,并连续十二个月向迦陀吠陀之火献供者。
13.164.30
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ।
सुमनोवर्णकं चैव मधु मांसं च वर्जयन् ॥ १३.१६४.३० ॥
守护萨拉斯瓦蒂河,奉行梵行,戒除花色之物、蜂蜜与肉类。
13.164.31
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ।
तत्रतत्र हि सिद्धार्थो देवकन्याभिरुह्यते ॥ १३.१६४.३१ ॥
人往诸风神(Marut)之界及因陀罗界而去。在那里,目的已成就者被诸天女簇拥而行。
13.164.32
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ।
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥ १३.१६४.३२ ॥
人获得以多量黄金布施之祭祀的果报,在那些世界中以不可计数的功德而欢喜。
13.164.33
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ।
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥ १३.१६४.३३ ॥
若人一年忍耐,于第八日进食,常专注于诸天之事,向火神耶多吠陀(Jātavedas)献供——
13.164.34
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
पद्मवर्णनिभं चैव विमानमधिरोहति ॥ १३.१६४.३४ ॥
他获得大白莲(Puṇḍarīka)祭祀的无上果报,登上如莲花色的天车。
13.164.35
मृष्टाः कनकगौर्यश्च नार्यः श्यामास्तथा पराः ।
वयोरूपविलासिन्यो लभते नात्र संशयः ॥ १३.१६४.३५ ॥
他将得到盛装的、如金色般白皙的、肤色黝黑的及其他女子,她们因青春与美貌而妩媚——此事毫无疑问。
13.164.36
यस्तु संवत्सरं भुङ्क्ते नवमेनवमेऽहनि ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.३६ ॥
若人一年每逢第九日进食,十二个月中常向火神耶多吠陀(Jātavedas)献供——
13.164.37
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ।
पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ १३.१६४.३७ ॥
此人获得千次马祭的无上果报,并得到如白莲般光辉的天车。
13.164.38
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ।
नीयते रुद्रकन्याभिः सोन्तरिक्षं सनातनम् ॥ १३.१६४.३८ ॥
楼陀罗之女闪耀着日与火的光辉,佩戴天界花环,引领他穿越永恒的天空。
13.164.39
अष्टादशसहस्राणि वर्षाणां कल्पमेव च ।
कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥ १३.१६४.३९ ॥
一万八千年、一劫以及十万亿(俱胝)之时,他在那些世界中欢喜。
13.164.40
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गतेगते ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.४० ॥
若有人一年之中每逢第十日进食,又于十二个月中常以供奉投入名为遍知的火中,
13.164.41
ब्रह्मकन्यानिवासे स सर्वभूतमनोहरे ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ १३.१६४.४१ ॥
在梵天之女的居所,那令一切众生心醉的地方,他获得千次马祭的无上果报。
13.164.42
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् ।
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥ १३.१६४.४२ ॥
容貌美丽的少女们常使那人欢喜,她们的肤色如青莲,又如红莲。
13.164.43
विमानं मण्डलावर्तमावर्तगहनाकुलम् ।
सागरोर्मिप्रतीकाशं स लभेद्यानमुत्तमम् ॥ १३.१६४.४३ ॥
他将获得至上的乘具——一辆天车(毘摩那),旋转如圈,充满漩涡,宛如海洋的波浪。
13.164.44
विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः ।
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम्।
आरोहति महद्यानं हंससारसवाहनम् ॥ १३.१६४.४४ ॥
他登上那辆大车,车上饰有各种宝珠串成的花环,回响着海螺之声,有水晶与金刚坚石制成的柱子,有精巧的平台,由天鹅与鹤牵引。
13.164.45
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३.१६४.४५ ॥
若在十一日食所得之祭品,并连续十二个月向火神(生知者 Jātavedas)献祭。
13.164.46
परिस्त्रियं नाभिलषेद्वाचाथ मनसाऽपि वा ।
अनृतं च न भाषेत मातापित्रोःक कृतेऽपि वा।
अभिगच्छेन्महादेवं विमानस्थं महाबलम् ॥ १३.१६४.४६ ॥
不可以言语或心念贪求他人之妻,即便为父母也不可说谎;应当亲近那乘于天车之上、大力无比的大天神。
13.164.47
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ।
स्वायंभुवं च पश्येत विमानं समुपस्थितम् ॥ १३.१६४.४७ ॥
他获得千次马祭的无上果报,并看见近在眼前的自生神(Svayambhū)的天车。
13.164.48
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥ १३.१६४.४८ ॥
身如金光、容貌美丽的少女,将他引向天上诸楼陀罗的那处神圣而迷人的居所。
13.164.49
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् ।
कोटीशतसहस्रं च दशकोटिशतानि च ॥ १३.१६४.४९ ॥
无量之岁,乃至直至劫末,他都将居住其中;以及十万亿,并十亿百亿之数。
13.164.50
रुद्रं नित्यं प्रणमते देवदानवसम्मतम् ।
स तस्मै दर्शनं प्राप्तो दिवसेदिवसे भवेत् ॥ १३.१६४.५० ॥
常向罗陀(Rudra)礼拜者,为诸天与阿修罗所尊敬,他每日都能得见其身。
13.164.51
दिवसे द्वादशे यस्तु प्राप्तो वै प्राशते हविः ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.५१ ॥
于第十二日来临者,食用祭品;又常年十二月中,向火神迦塔维达萨献祭者。
13.164.52
नियमेन समायुक्तः सर्वमेधफलं लभेत ।
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते ॥ १३.१६४.५२ ॥
具足戒律者,得一切祭祀之果;由十二位阿提亚,为其布置天车。
13.164.53
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ।
हंसभासा परिक्षिप्तं नागवीथीसमाकुलम् ॥ १३.१६४.५३ ॥
以摩尼、珍珠与珊瑚等贵重宝物庄严,周围环绕着天鹅之光,充满象道。
13.164.54
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ।
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ॥ १३.१६४.५४ ॥
以孔雀与赤鸭的鸣叫庄严,连接着巍峨的楼阁,安立于梵天世界之中。
13.164.55
नित्यमावसथं राजन्नरनारीसमावृतम् ।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मिवित् ॥ १३.१६४.५५ ॥
大王啊,那是一处总是充满男人和女人的居所。具有大福的仙人安吉罗斯,通晓法的人,这样说道。
13.164.56
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः ।
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥ १३.१६४.५६ ॥
当第十三日到来时,食用祭供者,将长久十二个月获得天神祭祀(devasatra)的果报。
13.164.57
रक्तपद्मोदयं नाम विमानं साधयेन्नरः ।
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ॥ १३.१६४.५७ ॥
人应当获得名为赤莲升起(Raktapadmodaya)的天车,装饰以黄金,并以堆积的宝石点缀。
13.164.58
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् ।
पुण्यगन्धोदयं दिव्यं वादित्रैरुपशोभितम् ॥ १३.१६४.५८ ॥
它充满天女,饰以天界璎珞,升起清净的香气,是神圣的,并以乐器增辉。
13.164.59
तत्र शङ्कुपताके द्वे युगान्तं कल्पमेव च ।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥ १३.१६४.५९ ॥
那里有两面尖刺之旗;人可以在那里居住直到一个世代的终结、一劫、万万之数、莲花与大海(作为时间的计数)。
13.164.60
गीतगन्धर्वघोषैश्च भेरीपणवनिःस्वनैः ।
सदा प्रह्लादितस्ताभिर्देवकन्याभिरीड्यते ॥ १३.१६४.६० ॥
总是被歌声、乾闼婆的喧声以及鼓与小鼓的声音所欢愉,那些天女赞美它。
13.164.61
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः ।
सदा द्वादशमासांस्तु महामेधफलं लभेत् ॥ १३.१६४.६१ ॥
在第十四日、满月之时食用祭物的人,连续十二个月,便能获得大马祠祭的果报。
13.164.62
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः ।
मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम् ॥ १३.१६४.६२ ॥
容貌与年岁无法形容的天女,盛装打扮,身体如精炼的赤金,乘坐天车来到他身边。
13.164.63
कलहंसविनिर्घोषैर्नूपुराणां च निःखनैः ।
काञ्चीनां च समुत्कर्षैस्तत्रतत्र निबोध्यते ॥ १३.१६४.६३ ॥
在此处那处,可以听到如天鹅鸣叫般的声音、脚镯与腰带的叮当声,以及高亢的喧响,由此得知其存在。
13.164.64
देवकन्यानिवासे च तस्मिन्वसति मानवः ।
जाह्नवीवालुकाकीर्णं पूर्णं संवत्सरं नरः ॥ १३.१६४.६४ ॥
人若在天女所居之处,满一年地居住在那布满恒河沙的地方……
13.164.65
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३.१६४.६५ ॥
若人调伏诸根,每过半月只吃一餐,连续十二个月常向迦陀吠陀(火神)献上供奉……
13.164.66
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ।
यानमारोहते दिव्यं हंसबर्हिणलक्षणम् ॥ १३.१६४.६६ ॥
他获得千次王祭的至高果报,并登上以天鹅与孔雀为标志的神圣乘具。
13.164.67
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ।
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् ॥ १३.१६४.६७ ॥
以宝石圆环装饰、覆以黄金,并以佩戴神圣首饰、光彩照人的优美女子点缀。
13.164.68
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।
वैजयन्तीसहस्रैश्च शोभितं गीतनिःस्वनै।
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ॥ १३.१६४.६८ ॥
这是一座神圣的天车,独柱、四门、七层,极为吉祥,饰有千面胜幢,并回荡着歌声,具有神圣的品质,他登上了它。
13.164.69
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥ १३.१६४.६९ ॥
以宝石、珍珠和珊瑚装饰,光如闪电,他居留千个时代,以剑与象为乘骑。
13.164.70
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः ।
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत् ॥ १३.१६४.७० ॥
若在第十六日来临时食用祭品,他便常在十二个月中获得苏摩祭的果报。
13.164.71
सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः ।
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥ १३.१६४.७१ ॥
他常住于苏摩少女的居所,涂抹着悦人的芬芳,并能随意而行。
13.164.72
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च ।
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥ १३.१६४.७२ ॥
他受到容貌美丽、温柔可人的女子敬奉;立于天车之中,他又享受着欲望的种种乐趣。
13.164.73
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ।
आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः ॥ १३.१६४.७३ ॥
此人获得如百莲之果报,多十大劫,并能成就四个轮回。
13.164.74
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.७४ ॥
于第十七日到来时食用祭品,并连续十二个月向火神耶多的遍知者献祭之人。
13.164.75
स्थानं वारुणमैन्द्रं च रौद्रं वाऽप्यधिगच्छति ॥ १३.१६४.७५ ॥
他可以到达伐楼那、因陀罗,或甚至楼陀罗的居所。
13.164.76
मारुतं शयनं चैव ब्रह्मलोकं स गच्छति ।
तत्र दैवतकन्याभिरासनेनोपचर्यते ॥ १३.१६४.७६ ॥
他往诸风之床及梵天世界;在那里,天女们献上座位侍奉他。
13.164.77
भूर्भुवःस्वश्च देवर्षिर्विश्वरूपमवेक्षते ।
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्।
द्वात्रिंशद्रूपदारिण्यो मधुराः समलङ्कृताः ॥ १३.१६४.७७ ॥
在地、空、天三界,天仙见到了宇宙形相者。在那里,神中之神的少女们使他欢悦——三十二位美丽、柔和、装饰华丽的女子。
13.164.78
चन्द्रादित्यावुभौ यावद्गगते चरतः प्रभो ।
तावच्चरत्यसौ धीरः सुधातुल्यरसाशनः ॥ १३.१६४.७८ ॥
主啊,只要日月二者在天空运行,那坚定的人便行走其间,食用如甘露般滋味的食物。
13.164.79
अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति ॥ १३.१६४.७९ ॥
若于第十八日仅食一餐,则常年十二个月,得见七界。
13.164.80
रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ।
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥ १३.१६४.८० ॥
后有声如雷鸣的车驾随行,车上乘坐着光彩焕发、装饰华美的天女。
13.164.81
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् ।
विमानमुत्तमं दिव्यं सुसुखि ह्यधिरोहति ॥ १३.१६४.८१ ॥
他极其欢喜地登上那辆以虎狮驾驭、如雷鸣般轰响的殊胜天界飞车。
13.164.82
तत्र कल्पसहस्रं स कन्याभिः सह मोदते ।
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥ १३.१६४.८२ ॥
在那里,他与天女们欢乐千劫,并享用如甘露般至上的仙露之浆。
13.164.83
एकोनविंशदिवसे यो भुङ्क्ते एकभोजनम् ।
सदा द्वादशमासान्वै सप्त लोकान्स पश्यति ॥ १३.१६४.८३ ॥
若于第十九日仅食一餐,则常年十二个月,得见七界。
13.164.84
उत्तमं लभते स्थानमप्सरोगणसेवितम् ।
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥ १३.१६४.८४ ॥
他获得殊胜的住所,有众阿卜萨拉斯侍奉,又得一辆由乾闼婆歌唱、如太阳般光辉的天车。
13.164.85
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ।
दिव्याम्बरधरः श्रीमानयुतानां शतंशतम् ॥ १३.१६४.८५ ॥
在那里,他与不死者中最优秀的女子欢乐,摆脱了热恼,身着天衣,光辉灿烂,与成百上千的万数为伴。
13.164.86
पूर्णेऽथ विंशे दिवसे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः ॥ १३.१६४.८६ ॥
若在第二十日圆满之时只食一餐,常如此行十二个月,诚实语,坚持誓愿者。
13.164.87
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः ।
स लोकान्विपुलान्रम्यानादित्यानामुपाश्नुते ॥ १३.१६४.८७ ॥
不食肉、修梵行、乐于利益一切众生者,得到阿提耶诸神广大而可爱的世界。
13.164.88
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः ।
विमानैः काञ्चनैर्हृद्यैः पृष्ठतश्चानुगम्यते ॥ १३.१६४.८८ ॥
乾闼婆与阿普萨拉斯,持天花与香膏,乘金色可爱的天车,从后随之。
13.164.89
एकविंशो तु दिवसे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ॥ १३.१६४.८९ ॥
若在第二十一日只食一餐,常如此行十二个月,并向迦陀吠陀火供奉献祭,便往神圣的乌尚那世界及帝释天之世界。
13.164.90
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ।
अनभिज्ञश्च दुःखानां विमानवरमास्थितः।
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥ १३.१६४.९० ॥
常乐于双马童与风神们的安乐,不知苦恼,安坐于最上天车,受美女侍奉,那位主宰如不死者般嬉戏。
13.164.91
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ १३.१६४.९१ ॥
当第二十二日来临时,若人只进一餐,并且常年十二个月向遍知者(阿耆尼)献祭,
13.164.92
अहिंसानिरतो धीमान्सत्यवागनसूयकः ।
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥ १३.१६४.९२ ॥
智者专注于不害,言语真实,不嫉妒,便能获得诸婆薮的世界,光辉如太阳。
13.164.93
कामचारी सुधाहारो विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ १३.१६४.९३ ॥
随意游行,以甘露为食,乘坐最好的天车,饰以天界的装饰,与天女们同乐。
13.164.94
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ।
सदा द्वादशमासांस्तु मिताहारो जितेन्द्रियः।
वायोरुशनसस्चैव रुद्रलोकं च गच्छति ॥ १३.१६४.९४ ॥
第二十三日只进一餐,常年十二个月节制饮食、克制诸根,便往生风神与乌尚那斯之界,以及楼陀罗之界。
13.164.95
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ।
अनेकयुगपर्यन्तं विमानवरमास्थितः।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ १३.१६४.९५ ॥
随意游行,随心所往,受诸阿block罗天女群的尊崇,经历无数劫住于最好的天车之中,饰以天界的装饰,与天女们同乐。
13.164.96
चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासांश्च जुह्वानो जातवेदसम्।
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ॥ १३.१६४.९६ ॥
当第二十四日来临时,若人食用祭供之食,并常年十二个月向遍知者(阿耆尼)献祭,便欢喜地长久居住于阿提耶的住处。
13.164.97
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे।
रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥ १३.१६४.९७ ॥
身着天界花环与衣裳,涂抹天界香膏,乘坐以天鹅驾驭的金色天界宝车,与数千、数万天女同乐。
13.164.98
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादशमासांस्तु पुष्कलं यानमारुहेत् ॥ १३.१६४.९८ ॥
在二十五日只食一餐,常年十二个月,便乘坐丰盛的车驾。
13.164.99
सिंहव्याग्रप्रयुक्तैस्तु मेघनिःस्वननादितैः ।
स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते।
देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः ॥ १३.१६४.९९ ॥
由狮子与老虎驾驭,声如雷云,伴随难提鼓声,身后有天女所乘的金色、清净、吉祥之车相随。
13.164.100
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ।
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते।
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥ १३.१६४.१०० ॥
乘上殊胜、神圣、极其美妙的天车,被数百位女子环绕,在那里居住千劫,以如甘露般殊胜的仙露为食。
13.164.101
षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम् ।
सदा द्वादशमासांस्तु नियतो नियताशनः।
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ॥ १३.१६४.१०१ ॥
在二十六日只食一餐,常年十二个月,饮食有节,克制诸根,离欲,向迦陀吠陀火供奉祭品。
13.164.102
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ।
सप्तानां मरुतां लोकान्वसूनां चापि सोश्नुते ॥ १३.१६४.१०२ ॥
这位大福者受到众天女的尊崇,获得并享受七位摩specialized伽与婆苏的世界。
13.164.103
विमानैः स्फाटिकैर्दिव्यैःइ सर्वरत्नैरलङ्कृतैः ।
गन्धर्वैरप्सरोभिश्चि पूज्यमानः प्रमोदते।
द्वेऽर्बुदानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ १३.१६४.१०३ ॥
乘坐以水晶制成、饰以一切宝石的天界车舆,受乾闼婆与天女尊崇而欢喜;以天神之光,在两千个亿(车舆)之中。
13.164.104
सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ १३.१६४.१०४ ॥
于第二十七日只食一餐,并于十二个月中向迦陀吠陀(火神)献祭之人。
13.164.105
फलं प्राप्नोति विपुलं देवलोके च पूज्यते ।
अमृताशी वसंस्तत्र स वितृपः प्रमोदते ॥ १३.१६४.१०५ ॥
他获得丰厚的果报,在天界受人尊崇;住在那里,食甘露,满足而欢喜。
13.164.106
देवर्षिचरिताँल्लोकान्राजर्षिभिरनुष्ठितान् ।
अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥ १३.१६४.१०६ ॥
在天神仙人所行、王仙所修的诸世界中,这位神圣之魂站在最好的天车上居住。
13.164.107
स्त्रीभिर्मिनोभिरामाभी रममाणो मदोत्कटः ।
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥ १३.१६४.१०७ ॥
与美丽的女子和男子相娱,因喜乐而欢腾,他安乐地居住三千个劫时(yuga-kalpa)。
13.164.108
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जितात्मा विजितेन्द्रियः ॥ १३.१६४.१०८ ॥
在第二十八日只进一餐者,十二个月中常能自制、克服诸根。
13.164.109
फलं देवर्षिचरितं विपुलं समुपाश्नुते ।
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥ १३.१६४.१०९ ॥
他获得天仙圣贤行持的丰厚果报;拥有享乐,以光辉照耀,如同无垢的千光太阳。
13.164.110
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ।
पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥ १३.१६४.११० ॥
柔美光彩的女子与他同乐,胸部丰满、大腿与臀部圆润,身佩天界的饰物。
13.164.111
रमयन्ति मनःकान्ता विमाने सूर्यसन्निबे ।
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥ १३.१६४.१११ ॥
心所爱慕的女子在如太阳般的天界神车中与他同乐,此车随意而行,历经十万个劫。
13.164.112
एकोनत्रिंशदिवसे यः प्राशेदेकभोजनम् ।
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ॥ १३.१६४.११२ ॥
在第二十九日只进一餐者,其所往之界吉祥而神圣,受天王与仙人尊崇。
13.164.113
विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति ।
जातरूपमयं युक्तं सर्वरत्नसमन्वितम्।
अप्सरोगणसङ्कीर्णं गन्धर्वैरभिनादितम् ॥ १३.१६४.११३ ॥
他获得天界神车,光如日月,以黄金制成,装备齐全,饰有一切宝石,充满天女群,回响着乾闼婆的乐声。
13.164.114
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ।
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥ १३.१६४.११४ ॥
在那里,佩戴天界饰品的吉祥女子,悦人心意,甜美而沉醉于情欲,使他欢愉。
13.164.115
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ।
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥ १३.१६४.११५ ॥
享受欢乐,具足光辉,光明如同火神吠舍婆罗,以天界之身闪耀,宛如不死之神。
13.164.116
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ।
रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति ॥ १३.१६४.११६ ॥
他前往诸婆苏、摩嚕多、萨底耶、双马童与楼陀罗的世界,也前往梵天之界。
13.164.117
यस्तु मासे गते भुङ्क्ते एकभक्तं समाहितः ।
सदा द्वादश मासान्वै ब्रह्म्लोकमवाप्नुयात् ॥ १३.१६४.११७ ॥
若有人在一月过后,心神专注,持续十二个月每日只食一餐,便能获得梵天之界。
13.164.118
सुधारसकृताहार श्रीमान्सर्वमनोहरः ।
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥ १३.१६४.११८ ॥
以甘露之精华为食,光彩夺目,令一切心意迷醉,以光辉、身体与美丽闪耀,如同放射光芒的太阳。
13.164.119
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
सुखेष्वभिरतो भोगी दुःखानामविजानकः ॥ १३.१६४.११९ ॥
身披天界花环与衣裳,涂抹天界香膏,沉溺于欢乐,享受欢愉,不知忧苦。
13.164.120
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते ।
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥ १३.१६४.१२० ॥
与自光明的女子同住天车之中,他受人尊崇,并不断受到楼陀罗、天神与仙人之女的礼拜。
13.164.121
नानारमणरूपाभिर्नानारागाभिरेव च ॥ १३.१६४.१२१ ॥
与形貌各异、爱意各异的美丽女子同在。
13.164.122
विमाने गगनाकारे सूर्यवैडूर्यसन्निभे ।
पृष्ठतः सोमसङ्करो उदर्के चाभ्रसन्निभे ॥ १३.१६४.१२२ ॥
于如天空之形、似太阳与吠琉璃宝的天车中;后方与月相融,晨时如云。
13.164.123
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ।
ऊर्ध्वं विचित्रसङ्काशे नैको वसति पूजितः ॥ १३.१६४.१२३ ॥
于南方红光之中,下方青蓝之域,上方奇妙之形——受人礼拜者,并非独自居住。
13.164.124
यावद्वर्षसहस्रं वै जम्बूद्वीपे प्रवर्षति ।
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः ॥ १३.१६४.१२४ ॥
闍普陀洲降雨的千年之数,即是这位智者居于梵天界的年数。
13.164.125
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ।
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥ १३.१६४.१२५ ॥
自天空落下的水滴之数,以及雨季降落的水滴之数,他便居住多久,光明如天神。
13.164.126
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ।
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥ १३.१६४.१२६ ॥
若人禁食一月,十年之中便可升入至上天界,获得大仙之位,并以身体往生。
13.164.127
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा ।
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ॥ १३.१६४.१२७ ॥
贤者自制,已胜愤怒,已胜欲望与腹腹,常向火中献供,持守戒律,专心于晨昏的礼拜。
13.164.128
बहुभिर्नियमैरेवं शुचिरश्नाति यो नरः ।
अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः ॥ १३.१६४.१२८ ॥
人若如此以众多戒律清净而食,又习惯居于露天之下,其光辉便如太阳之光。
13.164.129
दिवं गत्वा शरीरेण स्वेन राजन्यथाऽमरः ।
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते तथाविधः ॥ १३.१६४.१२९ ॥
大王,此人以自身之身升往天界,如神一般随心享受那福德之天界。
13.164.130
एथ ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ।
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥ १३.१६४.१३० ॥
婆罗多族中最优秀者,这以禁食之果为本的至上祭祀规则,已依次为你宣说。
13.164.131
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ।
देवद्विजातिपूजायां रतो भरतसत्तमम् ॥ १३.१६४.१३१ ॥
普利塔之子啊,如贫穷之人亦可获得祭祀之果,同样,专心礼敬诸神与再生者的人,婆罗多族中最优秀者啊。
13.164.132
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः ।
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥ १३.१६४.१३२ ॥
此断食之法已详细宣说,为那些克制、警觉、保持清净的大德之人而设。
13.164.133
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत ।
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ १३.१६४.१३३ ॥
对于那些远离虚伪与恶意、意志坚定、不动不摇的人,哦,婆罗多,关于此事你不应有任何疑惑。