Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.165

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.165.1

पितामहेन कथिता दानधर्माश्रिताः कथाः ।
मया श्रुता ऋषीणां तु संनिधौ केशवस्य च ॥ १३.१६५.१ ॥

祖父讲述了关于布施之法的故事,我在众仙人与克沙瓦面前听闻了这些故事。

13.165.2

पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति ।
कथाः कथय राजेन्द्र त्वदन्यः क उदाहरेत् ॥ १३.१६५.२ ॥

我对那些关于内在自我的故事再次生起好奇。王中之王啊,请讲述吧;除您之外,谁能讲述呢?

13.165.3

एष यादवदायादस्तथानुज्ञातुमर्हति ।
ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत ॥ १३.१६५.३ ॥

这位亚达瓦的亲族也值得获准。婆罗多啊,一旦认识了他,所应认识的一切便都被认识了。

13.165.4

पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह ।
कौतूहलमृषीणां तु च्छेतुमर्हसि साम्प्रतम् ॥ १३.१६५.४ ॥

之后我们将聆听适合国王听闻的法。祖父啊,现在您应当消除仙人们的好奇。

13.165.5

अत ऊर्ध्वं महाराज साङ्ख्ययोगोभयशास्त्राधि-
गतयाथात्म्यदर्शनसम्पन्नयोराचार्ययोः संवादमनुव्याख्यास्यामः ॥ १३.१६५.५ ॥

从此以后,大王,我们将依次讲述两位导师的对话,他们都由数论与瑜伽两部论典获得了真实的见解。

13.165.6

ष्टमुपससर्प भगवन्तमाचार्यं भगवानाचार्यो रुद्रः ॥ १३.१६५.६ ॥

……走近尊贵的导师;尊贵的导师是楼陀罗。

13.165.7

तं प्रोवाच स्वागतं महेश्वर ब्रह्मसुत एतदास-
नमास्तां भगवान् ॥ १३.१६५.७ ॥

他对他说:"欢迎,大自在天,梵天之子。这是座位,请世尊就座。"

13.165.8

इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं ।
प्रोवाच भगवानपि ध्यानमावर्तयति। इत्युक्ते चाह
भगवान्सनत्कुमारस्तथेति ॥ १३.१६५.८ ॥

如此说后,坐着的无量形相世尊楼陀罗对他说;世尊也重新转入禅定。如此说后,世尊萨那特鸠摩罗说:"就这样吧。"

13.165.9

तथेत्युक्तश्च प्रोवाच भगवाञ्शङ्करस्तदा ।
परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम् ॥ १३.१६५.९ ॥

听到"就这样吧"后,世尊湿婆便对那位通晓三界一切高下之理的大仙说道。

13.165.10

किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति ।
यच्च ध्यात्वा न शोचन्ति यतयस्तत्वदर्शिनः ॥ १३.१६५.१० ॥

"你所见的,通过禅定要看到的是什么?而禅思之后,苦行者与真理见者不再悲伤的又是什么?"

13.165.11

कथय त्वमिमं देवं देहिनां यतिसत्तम ।
यच्च तत्पुरुषं शुद्धमित्युक्तं योगसाङ्ख्ययोः ॥ १३.१६५.११ ॥

"最杰出的苦行者,请为有身者讲说此神,以及瑜伽与数论所说的那清净的补卢沙。"

13.165.12

किमध्यात्माधिभूतं च तथा चाप्यधिदैवतम् ।
कालसङ्ख्या च का देव द्रष्टव्या तस्य ब्रह्मणः ॥ १३.१६५.१२ ॥

"天神啊,那梵的内在我是什么?同样,外在元素与神性又是什么?时间的计算又当如何观察?"

13.165.13

सङ्ख्या सङ्ख्यादनस्यैव या प्रोक्ता परमर्षिभिः ।
शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम ॥ १३.१६५.१३ ॥

依照经典所见之道,如实说出至上仙人所宣示的计数与计数者,苦行者中最优秀的人啊。

13.165.14

यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम् ।
बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च ॥ १३.१६५.१४ ॥

那补鲁沙清净、觉醒、不老、恒常,唯以智慧可知,无论知者还是不知者。

13.165.15

विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदांवर ।
परिसाङ्ख्यं च साङ्ख्यानां ध्यानं योगेषु चार्थवत् ॥ १३.१६५.१५ ॥

精通解脱者中最优秀的人啊,请说三种解脱,说数论的完整计数,以及瑜伽中有意义的禅定。

13.165.16

एकत्वदर्शनं चैव तथा नानात्वदर्शनम् ।
अरिष्टानि च तत्वेन तथैवोत्क्रमणानि च ॥ १३.१६५.१६ ॥

见一与见多,如实的死兆,以及同样的诸气出离。

13.165.17

दैवतानि च सर्वाणि निखिलेनानुपूर्वशः ।
यान्याश्रितानि देहेषु देहिनां यतिसत्तम।
सर्वमेतद्यथातत्वमाख्याहि मुनिसत्तम ॥ १३.१६५.१७ ॥

请完整而有序地说出所有安住于有身众生身体中的诸神,苦行者中最优秀的人啊。请如实说出这一切,圣者中最优秀的人啊。

13.165.18

श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दितः ।
चतुर्थस्त्वं त्रयाणां तु ये गताःइ परमां गतिम्।
ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् ॥ १३.१६५.१८ ॥

你确实是所有梵知者中最杰出、无可指责的人;在三位达到至上归宿者之中,你是第四位,凭借天生的智慧,你已从死亡的束缚中解脱。

13.165.19

वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा ।
परमुत्सृज्य पन्थानममृताक्षरमेव तु ॥ १३.१६५.१९ ॥

我们却依托于变化的、总是朽坏的道路,舍弃了至高、不死、不灭的道路。

13.165.20

न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा ।
महिमानं प्रगृह्येमं विचरामो यथासुखम् ॥ १३.१६५.२० ॥

我们沉溺于低下的道路与具备八种功德的主宰权,执取此荣耀,随心所欲地漫游。

13.165.21

न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम् ।
मूर्तिमत्परमेतत्स्यादिदमेवं सुसत्तम ॥ १३.१६५.२१ ॥

这种快乐并非终极;随之而来的更为低下。最善者啊,这具象的状态本身或许便是至高。

13.165.22

पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते ।
न पुनर्मृत्युमित्यन्यं निर्मुक्तानां तु मूर्तितः ॥ १३.१६५.२२ ॥

反复堕落只是针对具象状态而教导的;但对解脱者而言,从形体上不再有死亡,这是另一种境界。

13.165.23

मृत्युदोषास्त्वनन्ता वै उत्पद्यन्ते कृतात्मनाम् ।
मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने ॥ १३.१६५.२३ ॥

大仙啊,死亡的过患无穷无尽;即便是自制其心者,也会在凡人、天界高处和地狱之中产生。

13.165.24

तत्र मञ्जन्ति पुरुषाः सुखदुःखेन वेष्टिताः ॥ १३.१६५.२४ ॥

人们在那里被苦乐所包围,而沉没其中。

13.165.25

सुखदुःखव्यपेतं च यदाहुरमृतं पदम् ।
तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात् ॥ १३.१६५.२५ ॥

我愿如实听闻那超越苦乐、被称为不死之境的真理,依照天启所闻与所见。

13.165.26

यदुक्तं भवता वाक्यं तत्वसंज्ञेति देहिनाम् ।
चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः ॥ १३.१६५.२६ ॥

你所说的有身者之真理名为「谛」之言中,一些智者认为这里有二十四种。

13.165.27

केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात् ।
वयं तु पञ्चविंशं वै तदधिष्ठानसंज्ञितम्।
तत्वं समधिमन्यामः सर्वतन्त्रप्रलापनात् ॥ १३.१६५.२७ ॥

有人依天启之所闻说为二十三;但我们依据一切论典之说,以二十五为真理,称之为其所依之基。

13.165.28

अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक् ।
सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ ॥ १३.१६५.२८ ॥

不灭者与显现者二者,以及持毗那迦弓者;这二者无论相合或相离,都互相依立。

13.165.29

हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतांवर ।
चकार पुरुषस्तात विकारपुरुषावुभौ ॥ १३.१६५.२९ ॥

此神进入金色之形,哦,有形者中最殊胜者,亲爱的,造作了两个变化之人。

13.165.30

अव्यक्तादेक एवैष महानात्मा प्रसूयते ।
अहङ्कारेण लोकांश्च व्याप्य चाहंकृतेन वै ॥ १३.१६५.३० ॥

从未显者中生出这一伟大的我;以我慢,并成为有我慢者,它遍及诸世界。

13.165.31

पिना सर्वं तदव्यक्तादभफिमन्यस्व शूलधृक् ।
भूतसर्गमहङ्कारात्तृतीयं विद्धि वै क्रमात् ॥ १३.१६५.३१ ॥

手持三叉戟者啊,一切皆从未显者而生。应知由我慢而生的元素之创造依次为第三。

13.165.32

अहङ्काराच्च भूतेषु चतुर्थं विद्दि वैकृतम् ।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर ॥ १३.१६५.३२ ॥

应知由我慢而生,在元素中第四为变异之创造。天神之主啊,由我慢同时生出了这些。

13.165.33

सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः ।
चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति ॥ १३.१६५.३३ ॥

智者称五大元素连同其差别。在所述二十四之上,第二十五者统摄之。

13.165.34

एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह ।
अहङ्काराच्च जातानि युगपद्विबुधेश्वर ॥ १३.१६५.३४ ॥

此处我所说的这四种自然之创造,皆由我慢同时生出,天神之主啊。

13.165.35

अङ्काराच्च भूतेषु विविधार्थं व्यजायत ।
इन्द्रियैर्युगपत्सर्वैः सो नित्यश्च समीक्षते ॥ १३.१६५.३५ ॥

又从我慢在元素中生出具有多种作用的心。那常住之心与一切根同时观察。

13.165.36

मरुत्त्वं सत्वसर्गश्च तुष्टिः सिद्धिस्तथैव च ।
वैकृतानि प्रवक्ष्यामि शृणु तानि महामते ॥ १३.१६५.३६ ॥

摩噜多性、萨埵之创造、满足与成就,亦复如是。我将说明那些变异之创造,大智者啊,请听。

13.165.37

एषा तत्वचतुर्विंशन्मया शास्त्रानुमानतः ।
वर्णिता तव देवेश पञ्चविंशत्समन्विता ॥ १३.१६५.३७ ॥

天神之主啊,依据经典与推理,我为你阐述了这二十四种原理,连同第二十五种。

13.165.38

पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैः सह ।
ऐन्द्रेप्यहमधोप्यन्यन्ममात्मनि च भास्वरः ॥ १३.१६५.३८ ॥

第五是恩典;这九者与自然原理一起,在因陀罗、在我、也在下界以及我自身中闪耀。

13.165.39

यच्च देहमयं किञ्चित्त्रिषु लोकेषु विद्यते ।
सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन ॥ १३.१६५.३९ ॥

凡三界之中有形体所成者,你应当处处如此看待,啊,摧毁三城者。

13.165.40

अन्यथा येऽनुपश्यन्ति ते न पश्यन्ति ब्रह्मज ।
एतदव्यक्तविषयं पञ्चविंशसमन्वितम् ॥ १३.१६५.४० ॥

以别样观看者,实则不见,啊,梵天之子。此以不显现者为对象,连同二十五者。

13.165.41

अनेन कारणेनैव तत्वमाहुर्मनीषिणः ।
विकारमात्रमेतं तु तत्वमाचक्षते परम् ॥ १३.१६५.४१ ॥

正因如此,智者称之为原理。它只是变化,然而他们宣称它是至高的原理。

13.165.42

निस्तत्वश्चैष देवेश बोद्धव्यं तु न बुद्ध्यते ।
यदि बुद्ध्येत्परं बुद्धं बुद्ध्यमानः सुरर्षभः।
प्रबुद्धो ह्यभिमन्येत योयं नाहमिति प्रभो ॥ १३.१६५.४२ ॥

天神之主啊,此乃无原理者;应当知晓,却无人知晓。若有人知晓至高者,啊,天神中的雄牛,觉醒而了悟者会认为:这不是我,啊,主。