Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.168

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.168.1

इन्द्रियेभ्यो मनः पूर्वमहङ्कारस्ततः परम् ।
अहङ्कारात्परा बुद्धिर्बुद्धेः परतरं महत् ॥ १३.१६८.१ ॥

在感官之前是意,其次是我执。超越我执的是觉(智性),超越觉的则是大(摩诃)。

13.168.2

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
एतावदेतत्सांख्यानां दर्शनं देवसत्तम ॥ १३.१६८.२ ॥

超越大(摩诃)的是未显现者,超越未显现者的是至上的补鲁莎。最优秀的神啊,数论派的学说不过如此。

13.168.3

अव्यक्तं बुद्ध्यहङ्कारौ महाभूतानि पञ्च च ।
मनस्तथा विशेषाश्च दश चैवेन्द्रियाणि च।
एतास्तत्वचतुर्विंशन्महापुरुषसम्मिताः ॥ १३.१६८.३ ॥

未显现者、觉与我执、五大元素、意、诸境以及十根,这就是二十四谛,与大补鲁莎相称。

13.168.4

बुद्ध्यामानेन देवेश चेतनेन महात्मना ।
संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः ॥ १३.१६८.४ ॥

神主啊,以觉的尺度,以有觉知的大我,人们说这二者——未显现者与补鲁莎——的结合是永恒的。

13.168.5

एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः ।
तमःसंज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक् ॥ १३.१६८.५ ॥

合一与多样,经历千万次的创造与毁灭——他们说,这被称为暗性(tamas),手持三叉戟者啊。

13.168.6

समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनःपुनः ।
आदिरेष महानात्मा गुणानामिति नः प्रभो ॥ १३.१६८.६ ॥

众生从未显现者中被拔出,一次又一次地轮回。这伟大的我是诸德(gunas)的根源——主啊,我们被如此教导。

13.168.7

गुणस्थत्वाद्गुणं चैनमाहुरव्यक्तलक्षणम् ।
एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्युत ॥ १३.१६८.७ ॥

因其住于诸德之中,人们称之为具未显现特征的德。被它所居的显现者,也使三德者有所觉知。

13.168.8

अचेतनः प्रकृत्येषु न चान्यमनुबुध्यते ।
बुध्यमानो ह्यहंकारो नित्यं मानाप्रबोधनात् ॥ १३.१६८.८ ॥

其中本性无知者不觉知他者。然而我慢常使人觉知,因为它总是唤起骄慢。

13.168.9

विमलस्व विशुद्धस्य नीरुजस्य महात्मनः ।
विमलोदरशीलः स्याद्बुध्यमानाप्रबुद्धयोः ॥ १३.१६८.९ ॥

对于无垢、清净、无病的大我,在觉知者与不觉知者之间,内在应有无垢的本性。

13.168.10

द्रष्टा भवत्यभोक्ता च सत्वमूर्तिश्च निर्गुणः ।
बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः ॥ १३.१६८.१० ॥

他成为见者而非受用者,以萨埵为体,无德。异于觉知者与不觉知者,他确是无德。

13.168.11

उपेक्षकः शुचिस्ताभ्यामुभाभ्यामयुतस्तथा ।
बुध्यमानो न बुध्येत बुद्धमेवं सनातनम् ॥ १३.१६८.११ ॥

他是超然、清净、不与二者相连者;觉知者不知他。如此,永恒者被知晓。

13.168.12

स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः ।
सोहमेव न मेऽन्योस्ति य एवमभिमन्यते ॥ १३.१६८.१२ ॥

此即因觉性之未显现本性而无知。那样自认为的人说:「我即彼,此外无他」。

13.168.13

न मन्यते ममान्योस्ति येन चेतोस्म्यचेतनः ।
एवमेवाभिमन्येत बुध्यमानोप्यनात्मवान् ॥ १३.१६८.१३ ॥

若不认为除我之外另有他者——因此我是无意识的——他便会这样看待自己,即使他有所觉知;他是没有自制的人。

13.168.14

अहमेव न मेऽन्योस्ति न प्रबुद्धवशानुगः ।
अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते ॥ १३.१६८.१४ ॥

唯我存在,我之外更无他者;不随觉者之力而行,安住于未显现之中的此者,始终将诸德视为自己的。

13.168.15

तेनाधिष्ठिततत्वज्ञैर्महद्भिरभिधीयते ।
अहङ्कारेण संयुक्तस्ततस्ददभिमन्यते ॥ १३.१६८.१५ ॥

为其所主宰的、通晓本原的大人们称之为“大”(mahat);与我慢相结合,他便把那视为自己的。

13.168.16

क्षेत्रं प्रविश्य दुर्बुद्धिर्बुद्ध्यमानो ह्यनात्मवान् ।
अहमेव सृजत्यन्यद्द्वितीयं लोकसारथिः ॥ १३.१६८.१६ ॥

入于田野,恶意之人虽有所觉知,却无自制,说“唯我”,便创造另一者——世界的御者。

13.168.17

सर्वाभावैरहङ्कारैस्तृतीयं सर्गसंज्ञितम् ।
ततो भूतान्यहङ्कारमहङ्कारो मनोऽसृजत् ॥ १३.१६८.१७ ॥

与一切存在状态及我执相伴的第三者,称为创造;于是诸元素生起我执,我执生起意。

13.168.18

सर्वस्नोतस्यभिमुखं सम्प्रावर्तत बुद्धिमान् ।
तथैव यज्ञे भूतेषु विषयार्थी पुनःपुनः।
इन्द्रियैः सह शूलाङ्क पञ्च पञ्चभिरेव च ॥ १३.१६८.१८ ॥

智者面向一切流注,同样地在祭祀中、在众生中,一再追求诸境,与诸根相伴——那有戟标记的五者,以及与五者相随。

13.168.19

मनो वेद न चात्मानमङ्कारं प्रजापतिः ।
न वेद वाप्यहङ्कारो बुद्धिं बुद्धिमतांवर ॥ १३.१६८.१९ ॥

生主既不知意,也不知自我,也不知我慢;我慢也不知智者中最上的覺慧。

13.168.20

एवमेते महाभाग नेतरे नयवादिनः ।
अहङ्कारेण संयुक्तः स्रोतस्यभिमुखः सदा ॥ १३.१६८.२० ॥

大福者啊,如此,这些人和其他讲道理的人(并不知道)。与我慢相连者,总是面向那激流。

13.168.21

एवमेष विकारात्मा महापुरुषसञ्ज्ञकः ।
प्रतनोति जगत्कृत्स्नं पुनराददते सकृत् ॥ १३.१६८.२१ ॥

如此,这以变化为本性、名为大人者,展开整个世界,又一次将其全部收回。

13.168.22

ससंज्ञत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम् ।
संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे ॥ १३.१६८.२२ ॥

因为具有觉知,整个世界安住于未显现者的心中。进入整个夜晚,夜末,白日来临之时,(它再次显现)。

13.168.23

पुनरात्मा विजयते बहवो निर्गुणास्तथा ।
अज्ञानेन समायुक्तः सोव्यक्तेन तमोत्मना ॥ १३.१६८.२३ ॥

自我又再次获胜,许多无德者也是如此。与无明相结合者,与以黑暗为本性的未显现者相连。

13.168.24

यदि ह्येषो नु मन्येत ममास्ति परतो वरः ।
स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च ॥ १३.१६८.२४ ॥

若此人认为有胜过自己的人,就不应反复自我抬高,也不应自我贬抑。

13.168.25

एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान् ।
पञ्चविंशं महादेव महापुरुषवैकृतम् ॥ १३.१६८.२५ ॥

智者应当认为此物以未显为对象,是微妙的,即第二十五原理,大天啊,乃大补鲁沙的变化。

13.168.26

प्रबुद्धौ बुद्धवानेतत्सृजमानमबुद्धवान् ।
गुणान्पुनश्च तानेव सोत्मनात्मनि निक्षिपेत् ॥ १३.१६८.२६ ॥

觉悟者知此;无知者不知所创造者。再者,让他以自己将那些德性收摄于自身之中。

13.168.27

अव्यक्तस्य वशीभूतो योऽज्ञानस्य तमोत्मनः ।
बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते ॥ १३.१६८.२७ ॥

受未显所役、以无明与暗性为本的人,如未觉者那样理解;而觉悟者则体验此物。

13.168.28

उपेक्षकः शुचिर्व्यग्रः सोलिङ्गः सोव्रणोऽमलः ।
षड्विंशो भगवानास्ते बुद्धः शुद्धो निरामयः ॥ १३.१६८.२८ ॥

超然、清净、无扰,具标记与伤痕,无垢——第二十六者,世尊安住;他觉悟、清净、无病。

13.168.29

अव्यक्तादिविशेषान्तमेतद्वैद्या वदन्त्युत ।
एतैरेव विहीनं तु केचिदाहुर्मनीषिणः ॥ १३.१६८.२९ ॥

从未显乃至最后的差别,此为智者所说;而某些思者则说它离于这些。

13.168.30

निस्तत्वं बुध्यमानास्तु केचिदाहुर्महामते ।
केचिदाहुर्महात्मानस्तत्वसंज्ञितमेव तु ॥ १३.१६८.३० ॥

大智者啊,有些人认为它无原理而如此说;而另一些大德则说,此物正是被称为“原理”者。

13.168.31

तत्वस्य श्रवणादेनं तत्वमेवं वदन्ति वै ।
सत्वसंश्रयणाच्चैव सत्ववन्तं महेश्वर ॥ १३.१६८.३१ ॥

因听闻真实之故,人们称之为“真谛”;因依止于善性(sattva)之故,啊大自在天,人们称之为“具善者”。

13.168.32

एवमेष विकारात्मा बुध्यमानो महाभुज ।
अव्यक्तो भवते व्यक्तौ सत्वंसत्वं तथा गुणौ।
विद्या च भवते विद्या भवेत्तु ग्रहसंज्ञितम् ॥ १३.१६८.३२ ॥

如此,此以变化为自性者,一旦被领悟,啊大臂者,便成为未显现者;在显现者之中有善性与善性,两种德性亦然。知识也成为知识,被称为“执取”(graha)之名。

13.168.33

य एवमनुबुद्ध्यन्ते योगसाङ्ख्याश्च तत्वतः ।
तेऽव्यक्तं शङ्करागाढं मुञ्चन्ते शास्त्रबुद्धयः ॥ १३.१६८.३३ ॥

那些如此如实领悟的瑜伽行者与数论者,以经典为智慧者,便舍弃了深深扎根于大自在天(Śaṅkara)之中的未显现者。

13.168.34

तेषामेतत्तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम् ।
बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि ॥ १३.१६८.३४ ॥

这是那些有细微洞见的讲说者的经义:他们的智慧遍及一切,如同油滴落入水中。

13.168.35

विद्या तु सर्वविद्यानामवबोध इति स्मृतः ।
येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः ॥ १३.१६८.३५ ॥

智慧被记载为对一切学问的理解;最优秀的苦行者通过它获得知识与无知。

13.168.36

सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता ।
यां बुद्ध्यमानो बुद्ध्येत बुद्ध्यात्मनि समं गतः ॥ १३.१६८.३६ ॥

此三明为最上之学;第四者被称为“观察(ānvīkṣikī)”。领悟之,在觉性之我中达到平等,人便能知晓。

13.168.37

अप्रबुद्धमथाव्यक्तमविद्यासंज्ञिकं स्मृतम् ।
विमोहितं तु शोकेन केवलेन समन्वितम्।
एतद्बुद्ध्या भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम् ॥ १३.१६८.३७ ॥

未觉醒、未显现者,被称为无明,完全为悲伤所迷惑。以此觉悟便成为觉者;智慧还有什么别的标志?

13.168.38

ये त्वेतन्नावबुद्ध्यन्ते ते प्रबुद्धवशानुगाः ।
ते पुनःपुनरव्यक्ताज्जनिष्यन्त्यबुधांत्मनः ॥ १३.१६८.३८ ॥

不理解此者,是觉者之权威的追随者;他们将一次又一次地从未显现者中,以无智之我而生。

13.168.39

तमेव तुलयिष्यन्ति अबुद्धिवशवर्तिनः ।
ये चाप्यन्ये तन्मनसस्तेप्येतत्फलभागिनः ॥ १३.१६८.३९ ॥

受无智支配者将权衡的正是此物;心意系于此者,也将分享其果报。

13.168.40

विदित्वैनं न शोचन्ति योगोपेतार्थदर्शिनः ।
स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम् ॥ १३.१६८.४० ॥

知此之后,具备瑜伽、洞见真义者不再悲伤;他们将获得自主与光明的独一之境。

13.168.41

अज्ञानबन्धनान्मुक्तास्तीर्णाः संसारबन्धनात् ।
अज्ञानसागरं घोरमगाधं तमसंज्ञकम्।
यत्र मज्जन्ति भूतानि पुनःपुनररिंदम् ॥ १३.१६८.४१ ॥

从无明之缚中解脱,度过轮回之缚者。那可怕而无底的无明之海,名为黑暗,众生在其中一再沉没,啊,征服敌人者!

13.168.42

एषा विद्या तथाऽविद्या कथिता ते मयाऽर्थतः ।
यस्मिन्देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च ॥ १३.१६८.४२ ॥

此智与同样的无明,我已依其义理为你说明;其中对我们而言并无施与与获取——数论者亦同样如此认识数论。

13.168.43

तथा चैकत्वनानात्वमक्षरं क्षरमेव च ।
निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते ॥ १३.१६८.४३ ॥

同样,我将宣说一与多、不灭与可灭,哦天神之主;我也将向你讲说三种解脱。

13.168.44

बुद्ध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम् ।
भूय एव निबोध त्वं देवानां देवसत्तम ॥ १३.१६८.४४ ॥

由觉者与未觉者,未觉者的展开……你应再次领会,诸神中最殊胜者。

13.168.45

यच्च किञ्च श्रुतं न स्याद्दृष्टं चैव न किञ्चन ।
तच्च ते सम्प्रवक्ष्यामि एकाग्रः शृणु तत्परः ॥ १३.१६८.४५ ॥

凡未曾听闻、也未曾见到的,我也要为你完整宣说;你应专心一意地聆听,全心投入其中。