摩诃婆罗多 · 章 13.169
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.169.1
अरिष्टानि प्रवक्ष्यामि तत्वेन शृणु तद्भवान् ।
मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम् ॥ १३.१६९.१ ॥
我将宣说凶兆;请如实听来,孩子。在中间,从北方,面朝南方而立之人。
13.169.2
विद्युत्संस्थानपुरुषं यदि पश्येत मानवः ।
वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम्।
एतत्फलमंरिष्टस्य शङ्कराहुर्मनीषिणः। ॥ १३.१६९.२ ॥
若人见到闪电形状的人影,应知三年之内身体将舍弃。此为凶兆之果,湿婆与智者如是说。
13.169.3
शुद्धमण्डमादित्यमरश्मिमथ पश्यतः ।
वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम् ॥ १३.१६९.३ ॥
若见太阳清净之轮无光芒,半年之内应知身体将舍弃。
13.169.4
छिद्रां चन्द्रमसश्छायां पादावप्यनपश्यतः ।
संवत्सरेण जानीयाद्देहन्यासमुपस्थितम् ॥ १३.१६९.४ ॥
若不见月影有孔,甚至不见自己双足,一年之内应知身体将舍弃。
13.169.5
कनीनिकायामशिरःपुरुषं यदि पश्यति ।
जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम् ॥ १३.१६९.५ ॥
若于眼中瞳孔见无头之人,六个月之内应知身体将舍弃。
13.169.6
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि ।
विजानीयात्तु मासेन देहन्यासमुपस्थितम् ॥ १३.१६९.६ ॥
若以双手掩耳仍听不到声音,一个月之内应知身体将舍弃。
13.169.7
आमगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम् ।
देवतायतनस्थोपि सप्तरात्रेण मृत्युभाक् ॥ १३.१६९.७ ॥
即使站在神庙之中,遇到明亮的芬芳,若嗅到生腐的恶臭,七夜之内便会走向死亡。
13.169.8
सर्वाङ्गधारणावस्थां धारयेत समाहितः ।
यथा स मृत्युं जयति नान्यथेह महेश्वर।
यदि जीवितुमिच्छेत चिरकालं महामुने ॥ १३.१६९.८ ॥
他应当专注地保持全身凝持的姿势;如此他便能战胜死亡,此处别无他法。大自在天啊,若他想长久生存,大仙啊。
13.169.9
अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना ।
केवलं चिन्तयानस्तु निष्कलं स निरामयम् ॥ १३.१६९.९ ॥
若他不愿长久生存,便当以自我舍弃自我;唯专注思念那无分、无病之自性。
13.169.10
अथ तं निर्विकारं तु प्रकृते परमं शुचिः ।
पुरुषं देहसाधर्म्यं देहन्यासमुपाश्नुयात् ॥ १३.१६९.१० ॥
然后,他应当清净,在那超越自然、不变易的至上补卢沙中,获得与身体相似的身体安置。
13.169.11
जाग्रतो हि मयोक्तानि तवारिष्टानि तत्वतः ।
धारणाच्चैव सर्वाङ्गे मृत्यु जीयात्सुरर्षभ ॥ १३.१६९.११ ॥
我已如实告诉你死亡的征兆,你在醒时便能知道;且以全身的凝持,人可以战胜死亡,诸神中最优秀者啊。
13.169.12
एकत्वदर्शनं भूयो नानात्वं च निबोध मे ।
अक्षरं च क्षरं चैव चतुष्टयविधानतः ॥ १३.१६९.१२ ॥
请从我这里理解一的见地,以及多的见地;依照四分的安排,理解不灭与可灭。
13.169.13
अव्यक्तादीनि तत्वानि सर्वाण्येव महाद्युते ।
आहुश्चतुर्विंशतितमं विकारपुरुषान्वितम् ॥ १३.१६९.१३ ॥
光明伟大者啊,他们说:从未显现者开始的一切原理,以及与变异相结合的补鲁沙,是第二十四者。
13.169.14
एकत्वदर्शनं चैव नानात्वेन वरं स्मृतम् ।
पञ्चविंशतिवर्गः स्यादपवर्गोऽजरामरः ॥ १३.१६९.१४ ॥
见一被认为胜过多样;二十五个之群即是解脱,它不老不死。
13.169.15
स निर्विकारः पुरुषस्तत्वेनैवोपदिश्यते ।
स एव पञ्चविंशस्तु विकारः पुरुषः स्मृतः ॥ १३.१६९.१५ ॥
那无变异的补鲁沙被教导为原理;他即是第二十五者,而具有变异的补鲁沙被认为是有变异者。
13.169.16
यद्येष निर्विकारः स्यात्तत्वं न तु भवेद्भव ।
विकारो विद्यमानस्तु तत्वसंज्ञकमुच्यते ॥ १३.१६९.१६ ॥
若此者无变异,啊,婆婆,他便不是原理;被称为原理的,正是存在的变异。
13.169.17
यद्योषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः ।
तथा भवति निस्तत्वस्तथा सत्वस्तथागुणः ॥ १३.१६९.१७ ॥
若此者不能达到未显现的状态,由排除而言无疑:他便成为无原理、具足悦性、无德性的。
13.169.18
विकारगुणसंत्यागात्प्रकृत्यन्यत्वता शुचिः ।
तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक् ॥ १३.१६९.१८ ॥
舍弃变异与德性,与自性相异而清净,那时他便达到多样;远离创造,他成为解脱的分享者。
13.169.19
बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान् ।
अक्षरश्च भवत्येष यथावा च्युतवान्क्षणात् ॥ १३.१६९.१९ ॥
被唤醒者完全觉醒;智者成为平等之人。此人也成为不朽者,或者在刹那间堕落。
13.169.20
अव्यक्ताव्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात् ।
एतदेकत्वनानात्वमक्षरः क्षर एव च ॥ १३.१६९.२० ॥
从无属性者、从诸德之源,说有未显现与显现。这是一与多——不灭者,也是可灭者。
13.169.21
व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि ।
विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते।
यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम् ॥ १३.१६९.२१ ॥
持三叉戟标记者啊,关于凶兆已为你解说,同样,解脱的其余特征我也在此告诉你;知道它们的苦行者获得了无病的唯一境界。
13.169.22
साङ्ख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः ।
अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव ॥ १३.१६९.२२ ॥
数论者与瑜伽行者,污垢已焚、无热恼者,证得无形。你应成为无属性、无畏者。
13.169.23
विपाप्मानो महादेव मुक्ताः संसारसागरात् ।
सरणे प्रजनादाने गुणानां प्रकृतिः सदा।
परा प्रमत्ता सततमेतावत्कार्यकारणम् ॥ १३.१६९.२३ ॥
大天啊,无罪者从轮回之海中解脱。在行去与接受子嗣之中,诸德之原质恒常至上而不断迷醉——因果止于此。
13.169.24
असच्चैव च सच्चैव कुरुते स पुनः पुनः ।
चैतन्येन पुराणेन चेतनाचेतनात्परः ॥ १३.१६९.२४ ॥
他一再地造作非实与实。以古老的觉性,他超越有情与无情而至上。
13.169.25
यस्तु चेतयते चेतो मनसा चैकबुद्धिकम् ।
स नैव सन्न चैवासन्सदसन्न च संस्मृतः ॥ १३.१६९.२५ ॥
以意与一慧觉知心识者,既不被称为有,也不被称为无,亦不被称为有无。
13.169.26
व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा ।
उपेक्षकश्च प्रकृतेर्विकारपुरुषः स्मृतः ॥ १३.१६९.२६ ॥
彼超脱、清净、异于、非自性,是自性的旁观者,被称为变异之神我。
13.169.27
विकारपुरुषेणैषा संयुक्ता सृजते जगत् ।
पुनराददते चैव गुणानामन्यथात्मनि ॥ १३.१६९.२७ ॥
此自性与变异之神我相合,创造世界,又以不同方式将诸德收回于自我之中。
13.169.28
मत्स्योदकात्ससंज्ञातः प्रकृतेरेव कर्मणः ।
तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति ॥ १३.१६९.२८ ॥
如鱼从水中生出,因自性之业而为人所知,他也将生成千万个田地。
13.169.29
क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते ।
सयोगो नित्य इत्याहुर्ये जनास्तत्वदर्शिनः ॥ १३.१६९.२९ ॥
知晓田之灭尽者,称为知田者;见真谛之人说,此结合是常住的。
13.169.30
एवमेष ह्यसत्सच्च विकारपुरुषः स्मृतः ।
विकारापद्यमानं तु विकृतिं प्रवदन्ति नः ॥ १३.१६९.३० ॥
如是,此变异之神我被称为非有与有;而那经历变异者,他们称之为对我们而言的变化。
13.169.31
यदा त्वेष विकारस्य प्रकृतानिति मन्यते ।
तदा विकारतामेति विकारान्यत्वतां व्रजेत् ॥ १३.१६९.३१ ॥
当他把变化当作本性时,便陷入变化之态,而不会进入超越诸变化的境界。
13.169.32
प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत् ।
शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम्।
अयुक्तं निष्कलं शुद्धमव्ययं चाजरामरम् ॥ १३.१६९.३२ ॥
当他与原质及诸变化相分离时,他便成为清净、至上、纯洁、觉悟、永恒、无染、无分、清净、不灭、不老不死者。
13.169.33
समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः ।
विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात् ॥ १३.१६९.३३ ॥
与那清净者相合而觉悟的光明者,从显现、未觉及无识之中获得解脱。
13.169.34
उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा ।
तथाऽव्यक्तस्य संत्यागान्निर्ममः पञ्च विंशकः ॥ १३.१६९.३४ ॥
如蚊虫从优昙树果中或从劫灭中出现,同样,完全舍弃未显者之后,第二十五者便离于“我所”。
13.169.35
यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत् ।
तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः ॥ १३.१६९.३५ ॥
如荷叶上的水滴不沾染荷叶,同样,第二十五者不被未显者的境域所染污。
13.169.36
आकाश इव निःसङ्गस्तथा सङ्गस्त्था वरः ।
पञ्चविंशतिमो बुद्धो बुद्धेनि समतां गतः ॥ १३.१६९.३६ ॥
如虚空般无所执著,即便在执著中亦同样殊胜;第二十五者觉悟之后,与觉者达成平等。
13.169.37
एतद्धि प्रकृतं ज्ञानं तत्वतश्च समुत्थितम् ।
पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्तथानघ ॥ १३.१६९.३७ ॥
此智由自然、依真实而生起,亦由先祖与梵天之子所生,哦,无罪者。
13.169.38
आदिसर्गो महाबाहो तामसेनावृतं परम् ।
प्रतिष्टावयवंदेवमभेद्यमजरामरम् ॥ १३.१६९.३८ ॥
哦,大臂者,初始之创造为暗性所覆,是至上的;以安住为其肢体的那位神,不可分割,不老不死。
13.169.39
सनकः सनन्दनश्चैवि तृतीयश्च सनातनः ।
ते विदुः परमं धर्ममव्ययं व्ययधर्षणम् ॥ १३.१६९.३९ ॥
萨那卡、萨南达那,以及第三位萨纳塔那,知晓那至上的、不坏的法,它不为坏灭所动摇。
13.169.40
अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसंज्ञकात् ।
क्षेत्रज्ञो भगवानास्ते नरायणपरायणः ॥ १३.१६९.४० ॥
超越未显、至上、微细、无缺而名为具形者,那位知场者薄伽梵安住其中,专心归依那罗延。
13.169.41
अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम् ।
एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे ॥ १३.१६९.४१ ॥
在与我们同生的兄弟之中,生起了至上的智慧;我们确实以具形之身遍行于诸世界。
13.169.42
पुनःपुनः प्रजाता वै तत्रतत्र पिनाकधृक् ।
द्वन्द्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम् ॥ १३.१६९.४२ ॥
反复出生于此处彼处,由持毗那迦弓者(湿婆)所成就:在已离诸对立之人心中,生起至上的智慧。
13.169.43
कपिलान्मूलआचार्यात्तत्वबुद्धिविनिश्चयम् ।
योगसांख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात् ॥ १३.१६९.४३ ॥
我从原始导师迦毗罗、众仙之中最上者那里,完整地获得了对诸原理的坚定悟解,以及瑜伽与数论之知。
13.169.44
तेन संबोधिताः शिष्या बहवस्तत्वदर्शिनः ।
तद्बुद्ध्वा बहवः शिष्या मयाप्येतन्निदर्शिताः ॥ १३.१६९.४४ ॥
许多受他教导的弟子成为了真理的见者;领悟此理后,我也将此指示给许多弟子。
13.169.45
जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम् ।
यज्ज्ञात्वा नानुशोचन्ति तत्वज्ञाना निरिन्द्रियाः ॥ १३.१६९.४५ ॥
真实而永恒的知识,能除去生死,应当被认知;知晓它之后,通达诸原理者超越诸根,不再悲伤。
13.169.46
शुद्धबीजमलाश्चैव विपङ्का वै निरक्षराः ।
स्वतन्त्रास्ते स्वतन्त्रेण सम्मिता निष्कलाः स्मृताः ॥ १३.१६९.४६ ॥
种子与污垢已净,无泥无灭,他们是自在的;与自在者相合,被称为无分。
13.169.47
शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वर ।
विपाप्मानस्तथा सर्वे सत्वस्थाश्चापि निर्व्रणाः ॥ १३.१६९.४७ ॥
永恒不灭,可被黑暗所执,光耀者啊;他们皆无罪,安住于悦性,无伤。
13.169.48
विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा ।
अमूर्तास्ते महाभाग सर्वे च विगतज्वराः ॥ १३.१६९.४८ ॥
解脱、独存,离于迷惑与恐惧;同样,他们无形,大福者啊,他们皆无苦恼之热。
13.169.49
हिरण्यनाभस्त्रिशिरास्तथा प्रह्लादभास्करौ ।
वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा ॥ १३.१६९.४९ ॥
黑兰耶那跋、三头,以及钵罗诃罗陀与婆竭罗,婆苏与毗湿婆婆苏,连同般遮尸诃。
13.169.50
गार्ग्योऽथासुरिरावन्त्यो गौतमो वृत एव च ।
कात्यायनोऽथ नमुचिर्हरिश्च दमनश्चि ह ॥ १३.१६९.५० ॥
伽尔伽、阿苏梨、阿槃底、乔达摩、伐栗多,迦旃延,然后是那母支、诃梨与达摩那。
13.169.51
एते चान्ये च बहवस्तत्वमेवोपदर्शिताः ।
केचिन्मुक्ताः स्थिताः केचिच्छन्दतश्चापरे मृताः ॥ १३.१६९.५१ ॥
这些人以及其他许多人被展示为真理的范例:有人得到解脱,有人留存,有人随意而亡。
13.169.52
दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा ।
अज्ञानं चैव रागश्च संयोगं प्राकृतं तथा ॥ १३.१६९.५२ ॥
三种束缚与三种解脱已被揭示:无明与贪欲,以及同样的自然结合。
13.169.53
एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु ।
परितस्तावता सम्यक्सम्बन्धो यावता कृतः ॥ १३.१६९.५३ ॥
束缚已由这些而说;现在也请从我这里听解脱。凡完全的联结所及之处,便四面相连。
13.169.54
कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नः श्रुतिः ।
निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः ॥ १३.१६९.५४ ॥
我们听说,舍弃彻底的毁灭便得解脱。远离一切执著、独一无染的士夫,即是解脱者。
13.169.55
इत्येवमुक्त्वा भगवानीश्वराय महात्मने ।
सनत्कुमारः प्रययावाकाशं समुपाश्रितः ॥ १३.१६९.५५ ॥
说完这些,尊贵的萨那库玛拉向伟大的自在天告别,升入天空而去。