Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.170

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.170.1

यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह ।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि ॥ १३.१७०.१ ॥

祖父啊,请告诉我,在一切圣渡之中何者最为殊胜,至上的清净又在何处;请您为我解说。

13.170.2

सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः ।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥ १३.१७०.२ ॥

智者说,一切圣渡确实都具有功德;但你要专心听我说,什么是圣渡与清净。

13.170.3

अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे ।
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम् ॥ १३.१७०.३ ॥

应当在深不可测、清净无垢的真实圣渡中、在坚定之湖中、在意念之圣渡中沐浴,并依止那永恒的内在平衡。

13.170.4

तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम् ।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥ १३.१७०.४ ॥

圣渡之清净、苦行、智慧、柔和、真实、正直、对一切众生不害、慈悲、克制与寂静。

13.170.5

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ।
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते ॥ १३.१७०.५ ॥

离我所有、无我慢、离二元、无所执取的瑜伽行者,自身便成为圣渡;他们被称为至上圣渡。

13.170.6

नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम् ।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः ॥ १३.१७०.६ ॥

对那罗延或对楼陀罗的虔信,被认为是至上圣渡;这便是你应当处处加以审察的清净之相。

13.170.7

रजस्तमःसत्वमथो येषां निर्धूतमात्मना ।
तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम्। ॥ १३.१७०.७ ॥

对于那些以自我抖落了激情、昏暗与善性的人而言,圣浴之地、行为的清净以及寻求自己的道路,便是清净(śauca)。

13.170.8

सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः ।
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च ॥ १३.१७०.८ ॥

那些喜好一切舍弃、通达一切、一视同仁、乐于这些清净的人,他们即便通过圣地也已是清净的。

13.170.9

नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते ।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥ १३.१७०.९ ॥

身体被水浸湿的人,不被称为沐浴者。以自制(dama)沐浴者,才是沐浴者;他内外皆清净。

13.170.10

अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः ।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥ १३.१७०.१० ॥

对于那些不期待不可见之物、对已得之物无“我所”之念、心中不生贪求的人,清净才是至上。

13.170.11

प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः ।
तथा निष्किंचनत्वं च मनसश्च प्रसन्नता ॥ १३.१७०.११ ॥

此处,智慧本身即是清净,尤其对身体而言;同样,无所执著与心的明净也是清净。

13.170.12

वृत्तं शौचं महाशौचं तीर्थशौचमतः परम् ।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम् ॥ १३.१७०.१२ ॥

行为是清净,是大清净;在此之上是圣地的清净。由智慧生起的清净,被称为最上的清净。

13.170.13

मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च ।
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः ॥ १३.१७०.१३ ॥

以明亮之心与梵知之水,在意之圣渡中沐浴者,乃知此者,并得见田之知者。

13.170.14

समारोपितशौचस्तु नित्यं भवसमन्वितः ।
केवलं गुणसम्पन्नः शुचिरेव नरः सदा ॥ १३.१७०.१४ ॥

培养了清净、常具吉祥、full具德性的人,才永远是清净的。

13.170.15

शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत ।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥ १३.१७०.१५ ॥

婆罗多之子啊,这些圣渡被说为在身体之中;现在也请听那些在大地上的圣渡。

13.170.16

शरीरस्य यथोद्देशः शरीरोपरि निर्मिताः ।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥ १३.१७०.१६ ॥

如身体的布局正构于身体之上,大地的诸部分与圣水亦然。

13.170.17

कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् ।
शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम्। ॥ १३.१७०.१७ ॥

诵念圣渡、沐浴、供奉祖先,罪过便在圣渡中得以洗净;得净者便快乐地升往天界。

13.170.18

परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा ।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा ॥ १३.१७०.१८ ॥

因善人所居,又因大地与水之光辉,那些部分极为圣洁。

13.170.19

मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे ।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात् ॥ १३.१७०.१९ ॥

心之圣渡与地之圣渡,以及其他圣渡。凡在二者中沐浴者,迅速获得成就(悉地)。

13.170.20

यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता ।
नेह साधयते कार्यं समायुक्ता तु सिध्यति ॥ १३.१७०.२० ॥

无行之果,或无果之行,在此不能成事;唯二者相合,方得成就。

13.170.21

एवं शरीरशौचेन तीर्थशौचेन चान्वितः ।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥ १३.१७०.२१ ॥

如此,身之清净与圣渡之清净兼备的清净者,获得成就;二种清净最为殊胜。