摩诃婆罗多 · 章 13.172
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.172.1
शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् ।
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः ॥ १३.१७२.१ ॥
大智的坚战走近躺在箭床上的老人、俱卢族祖父毗湿摩,向他发问。
13.172.2
अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत् ।
धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् ॥ १३.१७२.२ ॥
肢体如何获得美貌、福运与可爱?人如何具足法、利、欲,而成为享受幸福的人?
13.172.3
मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते ।
पादौ मूलेन राजेन्द्रि जङ्घायामथ रोहिणीम् ॥ १३.१७२.३ ॥
在孟冬月,当月亮与Mūla宿相合时,双足属Mūla;大王,然后胫部属Rohiṇī。
13.172.4
अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा ।
गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा ॥ १३.१७२.४ ॥
大腿属Aśvinī,两个Āṣāḍhā属股部;私处应由Phālgunī得知,腰胯由Kṛttikā得知。
13.172.5
नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम् ।
पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा ॥ १३.१७२.५ ॥
肚脐应由Bhādrapada得知,眼眶由Revatī得知;背部由Dhaniṣṭhā得知,Anurādhā与Uttarā亦如此。
13.172.6
बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत् ।
पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा ॥ १३.१७२.६ ॥
臂由Viśākhā指示,手由Hasta指示;大王,指由Punarvasu,甲由Āśleṣā,亦如此。
13.172.7
ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः ।
मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते ॥ १३.१७२.७ ॥
诸王之主啊,Jyeṣṭhā 主颈项,Śravaṇa 主双耳;Puṣya 主面,Dāna 主牙齿与嘴唇;据说 Svāti 主之。
13.172.8
हासं शतभिषां चैव मघां चैवाथ नासिकाम् ।
नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु ॥ १३.१७२.८ ॥
Śatabhiṣā 主笑,Maghā 主鼻;应知 Mṛgaśiras 主双眼,Mitra(Anurādhā)主额。
13.172.9
भरण्यां तु शिरो विद्यात्केशानार्द्रां नराधिप ।
समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे ॥ १३.१७२.९ ॥
人主啊,应知 Bharaṇī 主头,Ārdrā 主发;仪式终了时,应向精通吠陀的婆罗门供奉酥油。
13.172.10
सुभगो दर्शनीयश्च ज्ञानभाग्यथ जानते ।
जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः ॥ १३.१७२.१० ॥
智者知,其人吉祥、可观,得分于智慧;生而肢体圆满,如满月之月。