Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.175

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.175.1

अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः ।
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥ १३.१७५.१ ॥

不杀生、吠陀祭祀、禅定、克制诸根、苦行,或侍奉师长——对人而言,何者是最高的善?

13.175.2

सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि नित्यशः ।
शृणु संकीर्त्यमानानि षडेव भरतर्षभ ॥ १३.१७५.२ ॥

这些都是法的各自门径,恒常如此。听着,婆罗多中的雄牛——所宣说的正是这六者。

13.175.3

हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् ।
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेत् ॥ १३.१७५.३ ॥

好吧,我将宣说众生最上的善:以不杀生为依托的法;自制而有学识的人应当奉行它。

13.175.4

त्रिदण्डं सर्वभूतेषु निधाय पुरुषः शुचिः ।
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥ १३.१७५.४ ॥

人若对一切众生放下三杖,身心清净,克制欲望与愤怒,便能成就圆满。

13.175.5

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः ।
आत्मनः सुखमन्विच्छन्स प्रेत्य न सुखी भवेत् ॥ १३.१७५.५ ॥

若以杖击杀不伤害他人之众生,即使他自求安乐,死后也不得安乐。

13.175.6

आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः ।
त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ १३.१७५.६ ॥

视一切众生如己者,放下刑杖、战胜愤怒之人,死后便在安乐中增长。

13.175.7

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदेषिणः ॥ १३.१७५.७ ॥

对于视一切众生为自身、并看见一切众生的人,即使诸神也会在他的道路上迷惑,如同寻找无足者之足迹的人。

13.175.8

न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ।
एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ १३.१७५.८ ॥

不应对他人做对自己不利的事。简言之,这就是法;其他行为则出于欲望而生。

13.175.9

प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १३.१७५.९ ॥

在宣扬与布施中,在苦乐中,在所爱与所憎中,人以对待他人如同自己的方式而得到准则。

13.175.10

यथा परः प्रक्रमते परेषु ।
तथा परे प्रक्रमन्ते परस्मिन्।
निषेवते स्वसमां जीवलोके ।
यथा धर्मो नैपुणेनोपदिष्टः। ॥ १३.१७५.१० ॥

别人如何对待他人,他人也如何对待他。在生命世界中人侍奉与自己平等的人,正如法被巧妙地教导。

13.175.11

इत्युक्त्वा तं सुरगुरुधर्मराजं युधिष्ठिरम् ।
दिवामचक्रमे धीमान्पश्यतामेव नस्तदा ॥ १३.१७५.११ ॥

对法王坚战如此说罢,智慧的诸神之师在我们眼前升往天界。