摩诃婆罗多 · 章 13.176
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.176.1
ततो युधिष्ठिरो राजा शरतल्पे पितामहम् ।
पुनरेव महाराज पप्रच्छ वदतांवरः ॥ १३.१७६.१ ॥
于是国王坚战在箭床上再次问祖父:大王啊,言辞最善者。
13.176.2
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते ।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥ १३.१७६.२ ॥
智者啊,仙人、婆罗门与诸神都赞叹以不害为特征的法,因为他们从中看到了吠陀的权威。
13.176.3
कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम ।
वाचा च मनसा चैवं ततो दुःखात्प्रमुच्यते ॥ १३.१७६.३ ॥
王中最善者啊,人若不以行为、言语、意念作暴力,便从苦中解脱。
13.176.4
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ।
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥ १३.१७६.४ ॥
梵的宣说者将不害说为四种;灭敌者啊,其中任何一种若有缺失,便不再是不害。
13.176.5
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ।
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः ॥ १३.१७६.५ ॥
如同四足之兽不能以三足站立,地上的守护者啊,这不害也由三种因缘而说。
13.176.6
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥ १३.१७६.६ ॥
如同象迹之中,涵摄了所有其他行走之物的足迹,象的足迹之中也收纳了一切足迹。
13.176.7
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा ।
कर्म्णा लिप्यते जन्तुर्वाचा च मनसाऽपि च ॥ १३.१७६.७ ॥
如是,在諸世界中,不害自古依法而被宣示。眾生因業、因語、亦因意而被染污。
13.176.8
पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा ।
हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा ॥ १३.१७६.८ ॥
先以意舍之,再以語、以業舍之。不應運用暴力,因暴力有四種。
13.176.9
काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः ।
न भक्षयति यो मांसं त्रिविधं स विमुच्यते ॥ १३.१७६.९ ॥
此等過失,於身、於意,亦於語中皆被宣說。若人以三種方式皆不食肉,便得解脫。
13.176.10
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ।
मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः ॥ १३.१७६.१० ॥
聞梵智者所說,有三種因:意、語,以及味之貪嗜。過失便安立於其中。
13.176.11
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ।
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ॥ १३.१७६.११ ॥
因此,專修苦行的智者不食肉。大王,請從我這裡聽聞食肉的過失。
13.176.12
पुत्र मांसोपमं जानन्खादते यो विचेतनः ।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः ॥ १३.१७६.१२ ॥
若人知此肉如子肉,仍無知而食之,為迷惑所縛,此人被認為是最下劣的人。
13.176.13
पितृमातृसमायोगे पुत्रत्वं जायते यथा ।
हिंसां कृत्वाऽवशः पापो भूयिष्ठं जायते तथा ॥ १३.१७६.१३ ॥
正如子从父母结合而生,犯下暴力的罪人,身不由己,多半也以同样的方式出生。
13.176.14
रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा ।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥ १३.१७६.१४ ॥
正如舌之味在心中被知晓,经典中的贪著必定因品尝而生。
13.176.15
संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा ।
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥ १३.१७६.१५ ॥
正如调味与未调味、煮熟、加盐与不加盐之物各自产生其味,心也就被约束。
13.176.16
भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान् ।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ १३.१७६.१६ ॥
食肉的愚人怎能充分享受大鼓、木鼓之声和弦乐之音呢?
13.176.17
परेषां धनधान्यानां हिसकाः स्तावकास्तथा ।
प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः ॥ १३.१७६.१७ ॥
掠夺他人财物与粮食的人、施暴的人、谄媚的人以及赞美肉食的人,永远被逐出天界。
13.176.18
अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च ।
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः ॥ १३.१७६.१८ ॥
被贪求美味所支配者,不加思索、无所规定、亦无意愿,却为求其果报而称赞之……
13.176.19
प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता ॥ १३.१७६.१९ ॥
赞美肉本身与过失、虚构以及贪求果报者所求的结果相关。
13.176.20
भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा ।
स कायः परपीडाभिः कथं धार्योविपश्चिता ॥ १३.१७६.२० ॥
身体的终结必是灰烬、粪便或蛆虫,智者怎能以伤害他人来养护它?
13.176.21
जीवितं हि परित्यज्य बहवः साधवो जनाः ।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥ १३.१७६.२१ ॥
许多善人舍弃生命,以自己的肉保护他人的肉,因而升入天界。
13.176.22
एवमेषा महाराज चतुर्भिः कारणैः स्मृता ।
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता ॥ १३.१७६.२२ ॥
大王,如是以四种理由,不害已向你宣说,它与一切法相连。