マハーバーラタ · 章 13.177
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.177.1
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया ।
श्राद्धेषु च भवानाह पितॄणां मांसमीप्सितम् ॥ १३.१७७.१ ॥
あなたは不殺生こそ最高の法だと幾度も説かれました。しかしシュラーッダの祭儀では、祖霊は肉を望むとも説かれました。
13.177.2
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा ।
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥ १३.१७७.२ ॥
あなたは以前、多様な肉によるシュラーッダの儀式を説かれました。殺さずに肉をどう得るのでしょうか。これは矛盾に思えます。
13.177.3
जातो नः संशयो धर्मे मांसस्य परिवर्जने ।
दोषो भक्षयत कः स्यात्कश्चाभक्षयतो गुणः ॥ १३.१७७.३ ॥
肉を断つという法について、私たちに疑いが生じました。肉を食べる者の過ちは何か、食べない者の功徳は何か。
13.177.4
हत्वा भक्षयतो वाऽपि परेणोपहृतस्य वा ।
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥ १३.१७७.४ ॥
人が自ら殺して食べる場合、他人が持ってきたものを食べる場合、他人のために殺す場合、買って食べる場合——
13.177.5
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयाऽनघ ।
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥ १३.१७७.५ ॥
罪なき方よ、私はこれをあなたから真実のままに聞きたい。この永遠の法を確信をもって実践するために。
13.177.6
कथमायुरवाप्नोति कथं भवति सत्ववान् ।
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥ १३.१७७.६ ॥
人はどのようにして長寿を得るのか。どのようにして活力ある者となるのか。どのようにして五体満足となるのか。どのようにして吉相を備えて生まれるのか。
13.177.7
मांसस्याभक्षणाद्राजन्यो धर्मः कुरुनन्दन ।
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥ १३.१७७.७ ॥
王よ、クル族の喜びよ、肉を食べないことが王族の法である。真実のままに私から聞け、そしてその最高の規定も聞け。
13.177.8
रूपमव्यङ्गतामायुर्बुद्धिं सत्वं बलं स्मृतिम् ।
प्राप्तुकामैर्नरैर्हिंसा वर्जनीया कृतात्मभिः ॥ १३.१७७.८ ॥
美しさ、五体の完全さ、長寿、知性、善性、力、記憶を得ようと望み、自己を制御した人々は、暴力を避けるべきである。
13.177.9
ऋषीणामत्र संवादो बहुशः कुरुनन्दन ।
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥ १३.१७७.९ ॥
クル族の喜びよ、この件について聖仙たちの間では幾度も対話があった。ユディシュティラよ、彼らの考えを聞け。
13.177.10
यो यजेताश्वमेधेन मासिमासि यतव्रतः ।
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥ १३.१७७.१० ॥
誓いに堅く、毎月馬祠を行う者と、蜂蜜と肉を断つ者、ユディシュティラよ、この二者は等しい。
13.177.11
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः ।
मांसस्याभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥ १३.१७७.११ ॥
王よ、七仙、ヴァーラキリヤ仙人、そして光線を飲む仙人たち、さらに他の賢者たちは、肉を食べないことを称賛する。
13.177.12
न भक्षयति यो मांसं न च हन्यान्न घातयेत् ।
तन्मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् ॥ १३.१७७.१२ ॥
肉を食べず、殺さず、殺させない者は、一切の生き物の友である、とスヴァーヤンブヴァ・マヌは語った。
13.177.13
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन् ॥ १३.१७७.१३ ॥
肉を断つ者は、あらゆる生き物に恐れられず、あらゆる生類に信頼され、常に善き人々に尊ばれる。
13.177.14
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
अविश्वास्योऽवसीदेत्स इति होवाच नारदः ॥ १३.१७७.१४ ॥
他者の肉で自分の肉を増やそうとする者は信頼できなくなり滅びる、とナーラダは言った。
13.177.15
ददाति यजते चापि तपस्वी च भवत्यपि ।
मधुमांसनिवृत्त्येति प्राह चैवं बृहस्पतिः ॥ १३.१७७.१५ ॥
蜂蜜と肉を断つことで、人は布施し、供犠を行い、苦行者にもなる、とブリハスパティは言った。
13.177.16
मासिमास्यश्वमेधेन यो यजेत शतं समाः ।
न खादति च यो मांसं सममेतन्मतं मम ॥ १३.१७७.१६ ॥
毎月馬祠祭を百年行う者と、肉を食べない者とは同等である、これが私の考えだ。
13.177.17
सदा यजति सत्रेण सदा दानं प्रयच्छति ।
सदा तपस्वी भवति मद्यमांसविवर्जनात् ॥ १३.१७७.१७ ॥
酒と肉を断つことで、人は常に長期の供犠を行い、常に布施し、常に苦行者となる。
13.177.18
सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ।
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥ १३.१७७.१८ ॥
バーラタよ、肉を食べた後にそれから身を退く者の成し遂げることは、すべてのヴェーダも、すべての供犠もできない。
13.177.19
भक्षयित्वा निमित्तेऽपि दुष्करं कुरुते तपः ।
दुष्करं च रसज्ञेन मांसस्य परिवर्जनम्।
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥ १३.१७७.१९ ॥
肉を食べた者でも、何かの機会には困難な苦行を行うことがある。しかし味を知る者にとって肉を断つことも困難である。あらゆる生き物に無畏を与えるこの優れた誓戒を守ることこそ最善である。
13.177.20
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् ।
दाता भवति लोके स प्राणानां नात्र संशयः।
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः ॥ १३.१७७.२० ॥
あらゆる生き物に無畏の布施を与える賢者は、世において命を与える者となる。このことに疑いはない。こうして賢者たちはこの至高の法を讃える。
13.177.21
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा ।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिः कृतात्मभिः ॥ १३.१७७.२१ ॥
自分の命が自分にとって大切であるように、他の生き物にとっても彼らの命は大切である。賢明で自制した者は、自分をなぞらえて行動すべきである。
13.177.22
विकीर्णकर्णकेनापि तृणमस्पन्दने भयम् ।
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्।
अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥ १३.१७७.२२ ॥
広がった棘のある矢でさえ一本の草が揺れなければ恐怖がある。ましてや、力ずくで殺され、生きることを望み、病がなく罪のない者たちが、肉食の罪人によって殺される時の恐怖はどれほどか!
13.177.23
मृत्युतो भयमस्तीति शङ्कायां दुःखमुत्तरम् ।
धर्मस्यायतनं तस्मान्मांसस्य परिवर्जनम् ॥ १३.१७७.२३ ॥
死によって恐怖が生じるのかという疑いが起きたなら、その答えは苦しみである。ゆえに肉を断つことこそ法の拠り所である。
13.177.24
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः ।
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥ १३.१७७.२४ ॥
非暴力こそ最高のダルマであり、非暴力こそ最高の苦行である。非暴力こそ最高の真実であり、そこからダルマが行われる。
13.177.25
न हि मांसं तृणात्काष्ठादुपलाद्वाऽपि जायते ।
हत्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे ॥ १३.१७७.२५ ॥
肉は草からも木からも石からも生じない。生き物を殺してこそ肉は得られる。ゆえに食べることには罪がある。
13.177.26
स्वाहास्वाधामृतभुजो देवाः सत्यार्जवप्रियाः ।
राक्षसेन्द्रभयान्मुक्ताः सर्वभूतपरायणाः ॥ १३.१७७.२६ ॥
スヴァーハー、スヴァダー、甘露を食する神々は、真実と正直を愛し、羅刹王の恐怖から解放され、すべての生き物に専心していた。
13.177.27
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च ।
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ॥ १३.१७७.२७ ॥
恐ろしい荒野、険しく深い場所、夜も昼も、夕暮れ時、辻、そして集会においてさえも。
13.177.28
उद्यतेषु च शस्त्रेषु मृगव्यालहतेषु च ।
अमांसभक्षणाद्राजन्न भयं तेषु विद्यते ॥ १३.१७७.२८ ॥
王よ、武器が振り上げられ、鹿や猛獣が殺されているときでも、肉を食べない者には恐れがない。
13.177.29
शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।
अनुद्वेगकरो लोके न चाप्युद्विजते सदा ॥ १३.१७७.२९ ॥
すべての生き物の避難所であり、すべての生類に信頼される者。世間に動揺を与えず、自らも決して動揺しない。
13.177.30
यदि चेत्स्वादको न स्यान्न तदा घातको भवेत् ।
घातकः खादकार्थाय तद्धातयति वै नरः ॥ १३.१७७.३० ॥
食べる者がいなければ、殺す者もいないだろう。人は食べる者のために、それを殺させるのだ。
13.177.31
अभक्ष्यमेतदिति वै इति हिंसा निवर्तते ।
खादकक्रमतो हिंसा मृगादीनां प्रवर्तते ॥ १३.१७७.३१ ॥
「これは食べてはならない」と思えば暴力は止む。食べる者が次々と続くことで、鹿などの生き物への暴力が続くのだ。
13.177.32
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते ।
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥ १३.१७७.३२ ॥
大いに輝く者よ、それは暴力を行う者の寿命をまさに呑み込むのだ。ゆえに自らの繁栄を望む者は肉を断つべきである。
13.177.33
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः ।
उद्वेजकास्तु भूतानां यथा व्यालमृगास्तथा ॥ १३.१७७.३३ ॥
残忍にして生き物を害する者は、守護者を見いだせない。生き物に恐怖を与える者は、猛獣のようなものである。
13.177.34
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च ।
संसर्गादथ पापानामधर्मो रुचितो नृणाम् ॥ १३.१७७.३४ ॥
貪欲のため、あるいは知性の迷いのため、あるいは力と勇気のため、そして悪人との交わりによって、人には非法が好ましく思われるのだ。
13.177.35
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
उद्विग्नराष्ट्रे वसति यत्र यत्राभिजायते ॥ १३.१७७.३५ ॥
自分の肉を他者の肉で養おうと望む者は、どこに生まれても、動揺した国に住むのだ。
13.177.36
धन्यं यशस्यामायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥ १३.१७७.३६ ॥
肉を食べないことは功徳があり、名声をもたらし、寿命を延ばし、天界に導き、大いに吉祥であると、自制した最高の聖仙たちは説いている。
13.177.37
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया ।
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥ १३.१७७.३७ ॥
クンティーの子よ、以前マールカンデーヤが語るのを私が聞いた、肉食の過失はこれらである。
13.177.38
यो हि खादति सांसानि प्राणिनां जीवितैषिणाम् ।
सदा भवति वै पापः प्राणिहन्ता तथैव सः ॥ १३.१७७.३८ ॥
生きることを望む生き物の肉を食べる者は、常に罪深く、同じく生き物を殺す者である。
13.177.39
धनेन क्रयिको हन्ति खादकश्चोपभोगतः ।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ १३.१७७.३९ ॥
金で買う者は殺し、食べる者は消費によって殺し、屠る者は殺害と束縛によって殺す。このように殺生は三種である。
13.177.40
अखादन्ननुमोदंश्च भावदोषेण मानवः ।
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते ॥ १३.१७७.४० ॥
自分では食べなくても、心の過ちによって容認するなら、殺される生き物を容認する者もまた過失に染まる。
13.177.41
अधृष्यः सर्वभूतानामायुष्मान्निरुजः सदा ।
भवत्यभक्षयन्मासं दयावान्प्राणिनामिह ॥ १३.१७७.४१ ॥
肉を食べず、この世で生き物に慈悲深い者は、すべての生き物に侵されず、長寿で、常に病がない者となる。
13.177.42
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः ।
मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः ॥ १३.१७७.४२ ॥
金・牛・土地の布施にもまして、あらゆる意味で肉を食べないことこそ最上の法である、と我々は聞いている。
13.177.43
अप्रोक्षितं वृथामासं विधिहीनं न भक्षयेत् ।
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥ १३.१७७.४३ ॥
清めの儀礼を受けず、無益に得られ、規定の作法を欠く肉を食べてはならない。それを食べる人は地獄に行く。これに疑いはない。
13.177.44
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्म्णकाम्यया ।
अल्पदोषमिति ज्ञेयं विपरिते तु लिप्यते ॥ १३.१७७.४४ ॥
清めの水を注がれ、聖別された肉、またバラモンのために用意された肉は、罪が小さいと知るべきである。しかし逆の場合には、人は汚れる。
13.177.45
खादकस्य कृते जन्तून्यो हन्यात्पुरुषाधमः ।
महादोषकरस्तत्र घातको न तु खादकः ॥ १३.१७७.४५ ॥
食べる者のために生き物を殺す卑しい人間は、大きな罪を犯す。そこでは殺す者が有罪であり、食べる者ではない。
13.177.46
इज्यायज्ञश्रुतिकृतैर्या मार्गैरबुधोऽधमः ।
हन्याज्जन्तून्मांसगृध्नुः स वै नरकभाङ्नरः ॥ १३.१७७.४६ ॥
無知で卑しい人間が、供犠や祭祀、聖典の規定を口実として、肉への貪欲から生き物を殺すなら、その人はまさに地獄に堕ちる者である。
13.177.47
भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते ।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥ १३.१७७.४७ ॥
肉を食べた後であっても、そこから立ち返る者にも大いなる法がある。罪から離れる者にとって、その法は大きい。
13.177.48
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी ।
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥ १३.१७७.४८ ॥
連れてくる者、同意する者、屠る者、買う者と売る者、料理する者、食べる者――彼らはすべて殺生者である。
13.177.49
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् ।
पुराणमुषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥ १३.१७७.४९ ॥
さらにもう一つ話そう。これは規定によって定められた権威であり、聖仙たちが従った古い伝承で、ヴェーダに確かに述べられている。
13.177.50
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते ।
यथोक्तं राजशार्दूल न तु तन्मोक्षकारणम् ॥ १३.१७७.५० ॥
王者の中の虎よ、これは行為を特徴とする法に説かれたとおりであり、果報を求める者たちが従うものだ。しかしそれは解脱の原因ではない。
13.177.51
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि ।
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च।
प्रवृत्तिधर्मिणा भक्ष्यं नान्यथा मनुरब्रवीत् ॥ १३.१७७.५१ ॥
マントラで清められ、振りかけ浄められた清浄な供物は、ヴェーダの権威と祖霊祭儀に従い、行為の法に従う者だけが食べるべきである。さもなければ不可とマヌは言った。
13.177.52
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ ।
विधिहीनं नरः पूर्वं मांसं राजन्न भक्षयेत् ॥ १३.१७७.५२ ॥
バラタの牡牛よ、規定なく羅刹のように肉を食べる者は、天界も名声も得ない。王よ、人は規定なしに肉を食べてはならない。
13.177.53
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् ।
स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥ १३.१७७.५३ ॥
自らを完全に害から遠ざけたいと願う人は、この世の生きものの肉をあらゆる種類にわたって完全に断つべきである。
13.177.54
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः ।
येनायजन्त विद्वांसः पुण्यलोकपरायणाः ॥ १३.१७७.५४ ॥
古くは人々の供犠の獣は稲で作られていたと聞く。功徳の世界を求める賢者たちはそれで祭祀を行った。
13.177.55
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा ।
अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभो ॥ १३.१७७.५५ ॥
昔、聖仙たちが疑いをもって問うたとき、チェーディ族の王ヴァスは、主よ、食べてはならない肉をも食べてよいと言った。
13.177.56
आकाशादवनिं प्राप्तस्ततः स पृथिवीपतिः ।
यस्तदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥ १३.१७७.५६ ॥
その地上の主は空から地に落ち、同じことをまた言ってから大地の中へ入った。
13.177.57
प्रजानां हितकामेन त्वगस्त्येन महात्मना ।
आरण्याः सर्वदैवत्याः प्रोक्षितास्तापसैर्मृगाः ॥ १३.१७७.५७ ॥
衆生の利益を願う偉大なアガスティヤと苦行者たちは、あらゆる神々に属する森の鹿に聖水を振りかけた。
13.177.58
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः ।
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥ १३.१७७.५८ ॥
このように祖霊と神々に依拠する儀礼は衰えず、肉で正しく満たされた祖霊は喜ぶ。
13.177.59
इदं तु शृणु राजेन्द्र मांसस्याभक्षणे गुणाः ।
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥ १३.१७७.५९ ॥
王の中の王よ、今、肉を断つことの功徳を聞け。人の主よ、肉を食べないことにすべての幸福がある。
13.177.60
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम ॥ १३.१७७.६० ॥
百年の間まったく厳しい苦行を行う者と、肉を断つ者とは、私の考えでは同じである。
13.177.61
कौमुद्यास्तु विशेषेण शुक्लपक्षे नराधिप ।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥ १३.१७७.६१ ॥
人の王よ、特にカウムディーの白分には、あらゆる肉を断つべきである。ここではそれが法として定められている。
13.177.62
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ।
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥ १३.१७७.६२ ॥
雨季の四か月間、肉を完全に断つ者は、四つの幸せを得る。名声、長寿、名誉、力である。
13.177.63
अथवा मासमेकं वै सर्वमांसान्यभक्षयन् ।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः ॥ १३.१७७.६३ ॥
あるいは一か月間まったく肉を食べない者は、あらゆる苦しみを越え、病なく安楽に生きる。
13.177.64
वर्जयन्ति हि मांसानि मासशः पक्षशोपि वा ।
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥ १३.१७७.६४ ॥
月ごと、あるいは半月ごとに肉を断ち、殺生から離れた人々には、梵天の世界が定められている。
13.177.65
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः ।
सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः ॥ १३.१७७.६५ ॥
パールタよ、カウムダの半月には、万物の自己に住し、高きものと低きものの意味を知る王たちが肉を断った。
13.177.66
नाभागेनाम्बरीषेण गयेन च महात्मना ।
आयुषाऽथानरण्येन दिलीपरघुसूनुभिः ॥ १३.१७७.६६ ॥
ナーバーガ、アンバリーシャ、大いなる魂のガヤ、アーユ、アナラーニヤ、そしてディリーパとラグhealth の子らによって。
13.177.67
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना ।
नृगेण विष्वगश्वेन तथैव शशबिन्दुना ॥ १३.१७७.६७ ॥
カールタヴィーリヤとアニルッダ、ナフシャ、ヤヤーティ、ナガ、ヴィシュヴァガシュヴァ、そして同様にシャシャビンドゥ。
13.177.68
युवनाश्वेन च तथा शिबिनौशीनरेण च ।
मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो ॥ १३.१७७.६८ ॥
ユヴァナーシュヴァ、ウシーナラの子シビ、ムチュクンダ、マーンダートリ、そしてハリシュチャンドラ、おお全能の君よ。彼らもまた同様に行った。
13.177.69
सत्यं वदत माऽसत्यं सत्यं धर्मः सनातनः ।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् ॥ १३.१७७.६९ ॥
真実を語れ、虚偽を語るな。真実こそ永遠のダルマである。ハリシュチャンドラは真実によって、天上で月のように歩んでいる。
13.177.70
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च ।
रैवते रन्तिदेवेन वसुना सृञ्जयेन च ॥ १३.१७७.७० ॥
おお、王の中の王よ。シェーナチトラ、ソーマカ、ヴリカ、ライヴァタ、ランティデーヴァ、ヴァス、そしてスリンジャヤも同様に。
13.177.71
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च ।
दुष्यन्तेन करूशेन रामालर्कनलैस्तथा।
विचकाश्वेन निमिना जनकेन च धीमता ॥ १३.१७७.७१ ॥
おお、王の中の王よ。これらの人々と他の人々によって。クリパ、バラタ、ドゥシュヤンタ、カルーシャ、ラーマ、アルカ、ナラ、同様にヴィチャクラーシュヴァ、ニミ、そして賢明なジャナカによって。
13.177.72
ऐलेन पृथुना चैंव वीरसेनेन चैव ह ।
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥ १३.१७७.७२ ॥
アイラ、プリトゥ、ヴィーラセーナ、イクシュヴァーク、シャンブ、シュヴェータ、そしてサガラも(同じく行った)。
13.177.73
अजेन धुन्धुना चैव तथैव च सुबाहुना ।
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च ॥ १३.१७७.७३ ॥
アジャ、ドゥンドゥ、同じくスバーフ、ハリヤシュヴァ、クシュパ、そしてバラタも(同じく行った)。おお、王の中の王よ。
13.177.74
एतैश्चान्यैश्च राजेन्द्रि पुरा मांसं न भक्षितम् ।
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥ १३.१७७.७४ ॥
これらの人々と他の人々は、おお王の中の王よ、昔は肉を食べなかった。秋のカウムダ月に、彼らは天界に至った。
13.177.75
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियाऽन्विताः ।
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥ १३.१७७.७५ ॥
彼らはブラフマーの世界に住み、輝き、威光に満ち、ガンダルヴァに仕えられ、幾千の女性を伴っている。
13.177.76
तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम् ।
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥ १३.१७७.७६ ॥
これは無害の法を特徴とする最上の法である。これを行う大いなる魂の人々は、天界の背に住む。
13.177.77
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः ।
जन्मप्रभृति मद्यं च सर्व ते मुनयः स्मृताः ॥ १३.१७७.७७ ॥
ここで常に蜂蜜と肉を断ち、生まれた時から酒やすべてを断つ義人たちは、聖者と見なされる。
13.177.78
इमं धर्मममांसादं यश्चरेनच्छ्रावयीत वा ।
अपि चेत्सुदुराचारो न जातु निरयं व्रजेत् ॥ १३.१७७.७८ ॥
この肉食を避けるダルマを行い、あるいは読誦させる者は、たとえ非常に悪い行いをしていても、決して地獄に行くことはない。
13.177.79
पठेद्वा च इदं राजञ्शृणुयाद्वाऽप्यभीक्ष्णशः ।
अमांसभक्षणविधिं पवित्रमृषिपूजितम् ॥ १३.१७७.७९ ॥
王よ、これを読誦する者、あるいは幾度も聞く者には、肉食を避ける規定がある。それは清浄であり、聖仙たちに崇められている。
13.177.80
विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते ।
विशिष्टतां ज्ञातिषु च लभते नात्र संशयः।
अहिंस्रो दानशीलश्च मधुमांसविवर्जितः ॥ १३.१७७.८० ॥
彼はあらゆる罪から解放され、あらゆる願いによって尊ばれ、親族の中で卓越した地位を得る。これには疑いはない。不殺生で布施を好み、蜜と肉を避ける者も同じ果報を得る。
13.177.81
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।
मुच्येत्तथाऽऽतुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥ १३.१७७.८१ ॥
災難に陥った者は災難から解放され、縛られた者は束縛から解かれる。同様に病む者は病から、苦しむ者は苦悩から解放される。
13.177.82
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः ।
ऋद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥ १३.१७७.८२ ॥
彼は畜生の生に行かず、美しい人間となる。クル族の最良者よ、彼は繁栄と大いなる名声を得る。
13.177.83
एतत्ते कथितं राजन्मांसस्य परिवर्जने ।
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥ १३.१७७.८३ ॥
王よ、肉食を避けることについて、これがあなたに説かれた。それは聖仙が定めた規定であり、世俗に入る者にも、離れる者にも適用される。