Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.178

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.178.1

इमे वै मानवा लोके भृशं मांसेषु गृद्धिनः ।
विसृज्य विविधान्भक्ष्यान्महारक्षोगणा इव ॥ १३.१७८.१ ॥

在这世上,这些人极其贪恋肉食,好似大罗刹之群,舍弃了种种美食。

13.178.2

अपूपान्विविधाकाराञ्शाकानि विविधानि च ।
पादपान्रससंयुक्तान्न चेच्छन्ति यथाऽऽमिषम् ॥ १३.१७८.२ ॥

形状各异的饼、种种蔬菜和汁液丰盈的树果,他们并不像渴望肉食那样渴望这些。

13.178.3

तत्र मे बुद्धिरत्रेव विषये परिमुह्यते ।
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति किञ्चन ॥ १३.१७८.३ ॥

对此事我的心智在这里迷惑了;我认为,单论滋味并无更好之物,单论肉食也无更好之物。

13.178.4

तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणे प्रभो ।
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥ १३.१७८.४ ॥

因此,主啊,我愿听闻不食肉的功德,以及食肉的过失,人中雄牛啊。

13.178.5

सर्वसत्त्वेन धर्मज्ञ यथावदिह धर्मतः ।
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥ १३.१७८.५ ॥

精通法者啊,怀着对一切众生的慈悲,请依法如实地告诉我这一切:什么可食,什么不可食。

13.178.6

यथैतद्यादृशं चैव गुणा ये चास्य वर्जने ।
दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह ॥ १३.१७८.६ ॥

此物是何等性质,戒除它的功德,以及食用它之人的过失——请把这些告诉我,祖父啊。

13.178.7

सर्वमेतन्महाबाहो यथा वदसि भारत ।
न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि ॥ १३.१७८.७ ॥

啊,大臂的婆罗多后裔,你所说的都是对的。然而在大地上,就滋味而言,没有比肉更好的东西。

13.178.8

क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम् ।
अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥ १३.१७८.८ ॥

对于受伤、消瘦、受苦、心安于世俗职责的人,以及因旅途而疲惫的人来说,没有比肉更高的东西。

13.178.9

सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च ।
नाशो भक्षणदोषः स्याद्दानमेव सदा मतम् ॥ १३.१७८.९ ॥

它立即增益生命之气,并赐予最上等的滋养。饮食的过错是毁灭;因此布施始终被认为是最好的。

13.178.10

क्षुधितानां द्विजानां च सर्वेषां चापि जीवितम् ।
दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः ॥ १३.१७८.१० ॥

以信心、无贪婪,将生命施予饥饿的再生者和一切众生,人便成为心灵清净者。

13.178.11

शिक्षयन्ति न याचन्ते दर्शयन्ति स्वमूर्तिभिः ।
अवस्थेयमदानस्य मा भूदेवं भवानिति।
दानाद्यः सुशुचिर्मांसं पुनर्नैव च भक्षयेत् ॥ १३.१७८.११ ॥

他们教导,却不乞求,以自身的形象示现:「愿你不要落入这种不施舍的境地。」因布施而极其清净的人,不应再吃肉。

13.178.12

न भक्ष्योऽभ्याधिकः कश्चिन्मांसादस्ति परंतप ।
विवर्जने तु बहवो गुणाः कौरवनन्दन।
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥ १३.१७८.१२ ॥

啊,克敌者,没有比肉更适合食用的东西。但是,啊,俱卢之喜,人们戒绝它便有许多美德;请听我说。

13.178.13

स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नास्ति क्षुद्रतरस्तस्मात्स नृशंसतरो नरः ॥ १३.१७८.१३ ॥

想以他人之肉增益自己之肉的人,没有比他更卑贱的;那人最为残忍。

13.178.14

न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते ।
तस्माद्दयां नरः कुर्याद्यथाऽऽत्मनि तथा परे ॥ १३.१७८.१४ ॥

世上没有比生命更可贵的东西;因此人应当像对待自己一样慈悲待人。

13.178.15

शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः ।
भक्षणे तु महान्दोषो मलेन स हि कल्प्यते ॥ १३.१७८.१५ ॥

孩子啊,肉生于精液,这毫无疑问;然而食肉是大罪,因为它被视同污秽之物。

13.178.16

अहिंसालक्षणो धर्म इति वेदविदो विदुः ।
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मविन्नरः ॥ १३.१७८.१६ ॥

通晓吠陀者宣称,法的特征是不害;知晓自我的人应当做那不伤害的行为。

13.178.17

पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते ।
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥ १३.१७८.१७ ॥

在祭祀祖先与诸神的仪式中,被洒净的供物称为祭品;依吠陀所定之规而食用的人,在此不会受玷污。

13.178.18

यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ।
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥ १३.१७८.१८ ॥

经典也说,牲畜是为祭祀而造的;因此,那些违背此理而行事者的做法,被称为罗刹之法。

13.178.19

क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु ।
वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति ॥ १३.१७८.१९ ॥

也请听我说刹帝利所见的规则:吃以勇力获得之肉的人不会受到玷污。

13.178.20

आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः ।
अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥ १३.१७८.२० ॥

林中的鹿皆属于一切神明;昔日阿伽斯提耶已将它们全部加以祝圣,王啊,因此狩猎受到尊崇。

13.178.21

रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः ।
नात्मानमपरित्यज्य मृगया नाम विद्यते ॥ १३.१७८.२१ ॥

为了保护众生,应当杀死凶猛的野兽,也可以杀鹿;但若不舍弃自身,便谈不上狩猎。

13.178.22

समतामुपसङ्गम्य रूपं हन्यान्न वा नृप ।
अतो राजर्षयः सर्वे मृगयां यान्ति भारत।
न हि लिप्यन्ति पापेन न चैतत्पातकं भुवि ॥ १३.१७८.२२ ॥

得到平等之心,无论杀不杀那形体,王啊。因此所有王仙都去狩猎,婆罗多啊。他们不被罪恶所染,而且在世间这也不是大罪。

13.178.23

न ह्यतः सदृशं किञ्चिदिह लोके परत्र च ।
यत्सर्वेष्विह भूतेषु दया कौरवन्दन ॥ १३.१७८.२३ ॥

在此世与后世,都没有与此相当的东西:对一切众生的慈悲,俱卢之子的喜悦啊。

13.178.24

न भयं विद्यते जातु नरस्येह दयावतः ।
दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥ १३.१७८.२४ ॥

富有慈悲的人在此世永无恐惧。这些世界属于慈悲者,彼岸的世界也属于苦行者。

13.178.25

अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम ॥ १३.१७८.२५ ॥

施予一切众生无畏、怀有慈悲之人,我们听说众生也会施予他无畏。

13.178.26

क्षतं च स्खलितं चैव पतितं क्लिन्नमाहतम् ।
सर्वभूतानि रक्षन्ति समेषु विषमेषु च। ॥ १३.१७८.२६ ॥

受伤者、跌倒者、倒下者、湿透者、被击者——无论在平坦还是崎岖之处,一切众生都保护他们。

13.178.27

नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥ १३.१७८.२७ ॥

猛兽不伤害他,夜叉鬼和罗刹也不伤害他。在危难之时,救度陷入危难之中的他人者,自己得到解脱。

13.178.28

प्राणदानात्परं दानं न भूतं न भविष्यति ।
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्चितम् ॥ १३.१७८.२८ ॥

没有比施予生命更大的布施,过去没有,将来也不会有;因为在此世间,确实没有比自身更珍贵的东西。

13.178.29

अनिष्टं सर्वभूतानां मरणं नाम भारत ।
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥ १३.१७८.२९ ॥

婆罗多之子啊,死亡对一切众生都是不愿的。临死之时,众生立即生起颤抖。

13.178.30

व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे ।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ १३.१७८.३० ॥

众生因疾病、生与老的痛苦,常在轮回之海中流转,并因死亡而惊惧退缩。

13.178.31

गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥ १३.१७८.३१ ॥

在胎藏之中,他们被碱性、酸性和辛辣的汁液煮炼,被尿液、汗水和粪便的粗硬而极其可怖的液体煎熬。

13.178.32

जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनःपुनः ।
हन्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥ १३.१७८.३२ ॥

他们出生在那里,无助地被反复切割、打击,被肉欲所驱使,显得毫无力量。

13.178.33

कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः ।
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनःपुनः ॥ १३.१७८.३३ ॥

在金刚煮地狱中,他们被煮炼,进入了各种胎生之中;其他的人被攻击杀害,反复恐惧。

13.178.34

नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह ।
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥ १३.१७८.३४ ॥

遍寻大地,没有什么比自己更可爱;因此,对一切众生应当怀有慈悲,并能自我约束。

13.178.35

सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् ।
आश्वासं विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥ १३.१७८.३५ ॥

国王啊,终其一生不食任何肉类的人,将获得大的安稳与崇高的境界,这毫无疑问。

13.178.36

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् ।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥ १३.१७८.३६ ॥

吃那些渴望活着的众生之肉的人,自己也将被那些众生所吞食;关于此,我心中毫无疑问。

13.178.37

मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् ।
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत ॥ १३.१७८.३७ ॥

他吃我,我也将吃他。婆罗多之子啊,应当这样理解此肉之为肉的道理。

13.178.38

घातको वध्यते नित्यं तथा बध्येत बन्धकः ।
आक्रोष्टा क्रुध्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥ १३.१७८.३८ ॥

杀人者总会被杀,缚人者同样会被缚。大王啊,辱骂者招致愤怒,憎恨者成为被憎恨之人。

13.178.39

येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ १३.१७८.३९ ॥

人以何种身体做何种行为,便以同一身体获得其果报。

13.178.40

अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः ।
अहिंसा परमं दानमहिंसा परमं तपः ॥ १३.१७८.४० ॥

不害是最高的法,不害也是最高的克制。不害是最高的布施,不害是最高的苦行。

13.178.41

अहिंसा परमं मिमहिंसा परमं सुखम् ।
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम्। ॥ १३.१७८.४१ ॥

不害是最高的快乐;不害是最高的快乐。在一切祭祀中布施,或在一切圣地沐浴,都不及不害。

13.178.42

सर्वदानफलं वाऽपि नैतत्तुल्यमहिंसया ।
अहिंसस्य तपोऽक्षय्यमहिंस्रो जयते सदा। ॥ १३.१७८.४२ ॥

一切布施的果报也不及不害。不害者的苦行不可穷尽;不害者常常获胜。

13.178.43

अहिंस्रः सर्वभूतानां यथा माता यथा पिता ।
एतत्फलमहिंसायां भूयश्च कुरुपुङ्गव। ॥ १३.१७८.४३ ॥

对一切众生不加伤害者,如同母亲,如同父亲。俱卢之雄,这便是不杀生的果报,而且更多。

13.178.44

न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ १३.१७८.४४ ॥

其德行即便历经百年也无法说尽。