摩诃婆罗多 · 章 13.179
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.179.1
अकामाश्च सकामाश्च ये हताः स्म महामृधे ।
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥ १३.१७९.१ ॥
那些在大战中被杀者,无论情愿与否,得到了何种生处(胎)?请告诉我,祖父。
13.179.2
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे ।
जानामि चाहं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥ १३.१७९.२ ॥
在大战中众人舍弃性命,乃是苦事;我知道,哦,通晓法者,舍命极为艰难。
13.179.3
समृद्दे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे ।
संसारेऽस्मिन्सदाजाताः प्राणिनोऽभिरताःकथम्
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥ १३.१७९.३ ॥
无论富足或贫乏、善或恶,在此轮回中常生的众生,为何乐于其中?请告诉我其原因,我认为您是全知者。
13.179.4
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे ।
संसारेऽस्मिन्समे जाताः प्राणिनः पृथिवीपते ॥ १३.१७९.४ ॥
无论富足或贫乏、善或恶,众生在此轮回中皆同样而生,哦,地上之主。
13.179.5
निरता येन भावेन तत्र मे शृणु कारणम् ।
सम्यक्चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर ॥ १३.१७९.५ ॥
请听我说他们为何乐于其中的缘由;尤迭施提罗,你所问的这一问题问得恰当。
13.179.6
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप ।
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥ १३.१७९.६ ॥
在此,我要给你讲这个古老的故事,国王尤迭施提罗:这是二岛生(毗耶娑)与一条虫的对话。
13.179.7
ब्रह्मिभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा ।
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥ १३.१७९.७ ॥
梵化之婆罗门仙人黑毗耶(毗耶娑)昔日四处行走时,看见一只虫子在车道上飞快地奔跑。
13.179.8
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् ।
सर्वज्ञस्त्वरितं दृष्ट्वा कीटं वचनमब्रवीत् ॥ १३.१७९.८ ॥
洞悉一切众生之行动与有身者之声音的全知者,见那虫子飞快奔跑,便说了这些话。
13.179.9
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।
क्व च वासस्तदाचक्ष्व कुतस्ते भयमागतम् ॥ १३.१७९.९ ॥
虫啊,你形态惊惧,又显得急迫。告诉我你的住所在何处,恐惧从何而来?
13.179.10
शकटव्रजस्य महतो घोषं श्रुत्वा भयं मम ।
आगतं वै महाबुद्धे स्वन एष हि दारुणः ॥ १३.१७९.१० ॥
大智者啊!我听见大量车辆的轰鸣,恐惧便降临于我;这声音实在可怖。
13.179.11
श्रूयते तु स मा हन्यादिति ह्यस्मादपक्रमे ।
श्वसतां च शृणोम्येनं गोवृषाणां प्रतोद्यताम् ॥ १३.१७९.११ ॥
听说它可能会杀了我,所以我从它那里退开。我听见被刺棒驱赶的牛群喘息的声音。
13.179.12
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो ।
नृणां च संवाहयतां श्रूयन्ते विविधाः स्वनाः ॥ १३.१७९.१२ ॥
主啊,近处传来背负极重之物的牲畜以及驱赶它们的人们发出的种种声响。
13.179.13
वोढुमस्मद्विधेनैव न शक्यः कीटयोनिना ।
तस्मादतिक्रमाम्येष भयादस्मात्सुदारुणात् ॥ १३.१७९.१३ ॥
像我们这样生为虫类的,无法承担这样的重负。因此我要逃离这极为可怕的恐惧。
13.179.14
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् ।
अतो भीतः पलायामि गच्छेयं नापदं यथा ॥ १३.१७९.१४ ॥
对于众生而言,死亡即是痛苦,而生命极难获得。因此我心怀恐惧而逃走,以免遭遇灾祸。
13.179.15
इत्युक्तः स तु सं प्राह कुतः कीट सुखं तव ।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥ १३.१७९.१५ ॥
被如此言说之后,他回答道:"虫啊,你哪里有快乐?你处于畜生之胎,我认为死亡才是你的快乐。"
13.179.16
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् ।
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥ १३.१७९.१६ ॥
虫啊,你不知晓声、触、味、香,以及众多高低的享受。对你而言,死亡才是善果。
13.179.17
सर्वत्र निरतो जीव इहापि च सुखं मम ।
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥ १३.१७९.१७ ॥
我是一个处处欢喜的众生,此处我也觉知到快乐。因此,大智者啊,我想要活下去。
13.179.18
इहापि विषयः सर्वो यथादेहं प्रवर्तितः ।
मनुष्यास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥ १३.१७९.१८ ॥
此处亦然,一切感官对象依身体而运作。人类与畜生,各自拥有不同的享受,尤其如此。
13.179.19
अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो ।
अब्रह्मण्यो नृशंसश्च कदर्यो बुद्धिजीवनः ॥ १३.१७९.१९ ॥
我曾是人,首陀罗,主啊,富有财富,敌视婆罗门,残忍,吝啬,凭智巧谋生。
13.179.20
वाक्श्लक्ष्णो ह्यकृतप्रज्ञो द्वेष्टा विश्वस्य कर्मणः ।
मिथोगुप्तनिधिर्नित्यं परस्वहरणे रतः ॥ १३.१७९.२० ॥
我言语温和,却缺乏真正的智慧,憎恨世间的行为,总是藏匿财宝,乐于夺取他人的财物。
13.179.21
भृत्यातिथिजनश्चापि गृहेऽपर्यशितो मया ।
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता ॥ १३.१७९.२१ ॥
在家中,我不让仆人、客人和其他人吃饱,出于嫉妒,贪求美味,残忍而饥饿。
13.179.22
देवार्थं पितृयज्ञार्थं न च श्राद्धं कृतं मया ।
न दत्तमन्नकामेषु दत्तमन्नं लुनामि च ॥ १३.१७९.२२ ॥
为诸神和祖先祭祀,我没有行祭祖的施供;不给求食者食物,已经给出的食物我也夺回。
13.179.23
गुप्तं शरणमाश्रित्य भयेषु शरणागतान् ।
त्यक्त्वाऽकस्मान्निशायां च न दत्तमभयं मया ॥ १३.१७९.२३ ॥
那些在危难中来寻求庇护、已得到安全处所的人,我在夜里突然抛弃了他们;我没有给他们安全。
13.179.24
धनं धान्यं प्रियान्दारान्यानं वासस्तथाऽद्भुतम् ।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥ १३.१७९.२४ ॥
财富、谷物、心爱的妻子、车辆、衣服和奇妙的繁荣——看到人间如此的光彩,我便徒然地嫉妒他们。
13.179.25
ईर्ष्युः परसुखं दृष्ट्वा अन्यस्य न बुभूषकः ।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥ १३.१७९.२५ ॥
见他人得乐而生嫉妒,不愿效法他人,毁灭三种目标,在众人之中只随从自己的欲望。
13.179.26
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया ।
स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम् ॥ १३.१७९.२६ ॥
回想我从前所做的那充满残忍品性的行为,我深感懊悔,仿佛抛弃了心爱的儿子。
13.179.27
शुभानां नाभिजानामि कृतानां कर्मणां फलम् ।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥ १३.१७९.२७ ॥
我不知道所行善业的果报,尽管我尊敬了年老的母亲,也礼敬了婆罗门。
13.179.28
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः ।
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥ १३.१७९.२८ ॥
曾有一位具足出身品德的客人偶然来到我家;婆罗门啊,因为我礼敬了他,我的记忆没有离弃我。
13.179.29
कर्मणामेव चैवाहं सुखाशामिव लक्षये ।
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ १३.१७९.२९ ॥
我似乎只在行为中看见幸福的希望;苦行的宝藏啊,我愿从你这里听到那善的道理。