摩诃婆罗多 · 章 13.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.18.1
सर्वे वेदाः सर्ववेद्याः सशास्त्राः ।
सर्वे यज्ञाः सर्व इत्यश्च कृष्णः।
विदुः कृष्णं ब्राह्मणास्तत्वतो ये ।
तेषां राजन्सर्वयज्ञः समाप्तः ॥ १३.१८.१ ॥
一切吠陀,一切可知之物,连同诸论典;一切祭祀,以及“一切”一词本身——即是克里希那。大王啊,对于真正知晓克里希那的婆罗门而言,一切祭祀已经圆满。
13.18.2
ज्ञेयो योगी ब्राह्मणैर्वेदतत्वै-
रारण्यकैः सैष कृष्णः प्रभुत्वात्।
सर्वान्यज्ञान्ब्राह्मणान्ब्रह्म चैव ।
व्याप्यातिष्ठद्देवदेवस्त्रिलोके ॥ १३.१८.२ ॥
此瑜伽行者克里希那,凭其主宰之力,应当由通晓吠陀真义的婆罗门和阿兰耶迦学者所认知。他遍及一切祭祀、婆罗门与梵,神中之神安住于三界。
13.18.3
स एष देवः शक्रमीशं यजानं ।
प्रीत्या प्राह क्रतुयष्टारमग्र्यम्
न मा शक्रो वेदवेदार्थतत्वा-
द्भक्तो भक्त्या शुद्धभावप्रधानः ॥ १३.१८.३ ॥
那位神对崇拜他的主宰因陀罗,即诸祭祀者中的最上者,满怀爱意地说:“因陀罗不能以吠陀之真实与吠陀义理之真实认识我;唯有以虔敬心、以清净之心为主的信徒,才能以奉爱认识我。”
13.18.4
मा जानन्ते ब्रह्मशीर्षं वरिष्ठं ।
विश्वे विश्वं ब्रह्मयोनिं ह्ययोनिम्।
सर्वत्राहं शाश्वतः शाश्वतेशः ।
कृत्स्नो वेदोऽग्निर्निर्गुणोऽनन्ततेजाः ॥ १३.१८.४ ॥
他们不认识我是梵的至上之首、宇宙、梵之胎藏,以及无胎者。我无处不在,永恒不灭,是永恒者之主;我是完整的吠陀、火,是无属性、光明无限者。
13.18.5
सर्वे देवा वासुदेवं यजन्ते ।
ततो बुद्ध्या मार्गमाणास्तनूनाम्।
सर्वान्कामान्प्राप्नुवन्ते विशालां-
स्त्रैलोक्येऽस्मिन्कृष्णनामाभिधानात् ॥ १३.१८.५ ॥
诸神皆崇拜婆苏提婆。随后以智慧寻求诸身之路,于此三界凭借念诵克利须那之名,获得一切广大的愿望。
13.18.6
कृष्णो यज्ञैरिज्यते यायजूकैः ।
कृष्णो वीर्यैरिज्यते विक्रमद्भिः।
कृष्णो वाक्यैरिज्यते सम्मृशानैः ।
कृष्णो मुक्तैरिज्यते वीतमोहैः ॥ १३.१८.६ ॥
克利须那以祭祀为人所崇拜,由行祭者供奉。克利须那以英勇的功业为人所崇拜,由勇敢者供奉。克利须那以沉思者的言辞为人所崇拜。克利须那为解脱者和离迷惑者所崇拜。
13.18.7
विद्यावन्तः सोमपा ये विपापा ।
इष्ट्वा यज्ञेर्गोचरं प्रार्थयन्ते।
सर्वं क्रान्तं देवलोकं विशाल-
मन्ते गत्वा मुक्तिलोकं भजन्ति ॥ १३.१८.७ ॥
博学饮苏摩者、无罪者,以祭祀而行祭,希求那一境界。穿越整个广大的天界之后,最终抵达解脱之界并获得它。
13.18.8
एवं सर्वे त्वाश्रमाः सुव्रता ये ।
मां जानन्तो यान्ति लोकानदीनान्।
ये ध्यानदीक्षामुद्वहन्तो विपापा ।
ज्योतिर्भूत्वा देवलोकं भजन्ति ॥ १३.१८.८ ॥
如此,凡持守善誓的各个生活阶段之人,知晓我,便前往无所减损的诸界。持有禅定之灌顶且无罪者,化为光明,获得天界。
13.18.9
पूज्यन्ते मां पूजयन्तः प्रहृष्टा ।
मां जानन्तः श्रद्धया वासुदेवम्।
भक्त्या तुष्टोऽहं तस्य सत्त्वं प्रयच्छे ।
सत्वस्पृष्टो वीतमोहोऽयमेति ॥ १३.१८.९ ॥
敬拜我者,将在欢喜中被敬拜。以信心认识我为婆薮提婆者,我因虔诚而欢喜,赐予他悉多性。被悉多性触及、离于迷惑者,便得以前往。
13.18.10
ज्योतींषि शुक्तानि च यानि लोके ।
त्रयो लोका लोकपालास्त्रयश्च।
त्रयोऽग्नयश्चाहुतयश्च पञ्च ।
सर्वे देवा देवकीपुत्र एव ॥ १३.१८.१० ॥
世间一切明亮的光明,三界,三位世界守护者,三火与五种供物——这些神祇,实为提婆基之子。
13.18.11
व्यासस्यैतद्वचः श्रुत्वा मद्रराजः सहर्षिभिः ।
व्यासं कृष्णं च विधिवत्प्रीतात्मा प्रत्यपूजयत् ॥ १३.१८.११ ॥
摩德罗王听了毗耶娑的这番话,与诸仙人一同心怀喜悦,依礼以回敬之礼供奉毗耶娑与克里希那。
13.18.12
कविः प्रयातस्तु महर्षिपुत्रो ।
द्वैपायनस्तद्वचनं निशम्य।
जगाम पृथ्वीं शिरसा महात्मा ।
नमश्च कृष्णाय चकार भीष्मः ॥ १३.१८.१२ ॥
那位智者,大仙之子二体(毗耶娑)听了这些话后便离去;这位大德以头触地致礼;而毗湿摩向克里希那礼拜。