摩诃婆罗多 · 章 13.180
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.180.1
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥ १३.१८०.१ ॥
虫啊,因你所行的善业,你即使在畜生之胎也不迷惑。你之所以不完全迷惑,是因我的业。
13.180.2
अहं त्वां दर्शनादेव तारयामि तपोबलात् ।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥ १३.१८०.२ ॥
我仅凭见你一面,便以苦行之力度脱你。苦行之力之上,再无更强大的力量。
13.180.3
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् ।
अवाप्स्य्सि परं र्धर्मं मानुष्ये यदि मन्यसे ॥ १३.१८०.३ ॥
我知道你因自己所造的恶业而堕入虫身。虫啊,若你以为在人身中能得至上法……
13.180.4
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ये ।
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः ॥ १३.१८०.४ ॥
诸天与畜生享受在业地所作之业的果报。人中有福者,也依欲与利的德性而受用。
13.180.5
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः ।
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः ॥ १३.१८०.५ ॥
人若有言语、智慧、手足而具智慧,但愚钝,活着时不用其财,又有何益?
13.180.6
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः ।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥ १३.१८०.६ ॥
若人敬拜诸天、婆罗门、火、月与日,并宣说功德之言,虫啊,你将到达那里。
13.180.7
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे ।
क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि।
स तथेति प्रतिश्रुत्य कीटः समवतिष्ठत ॥ १३.१८०.७ ॥
你将在彼处享受由诸德构成的众生。若你愿得婆罗门之身,我将依次引导你至彼。”虫应允说“如是”,便留在那里。
13.180.8
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥ १३.१८०.८ ॥
他经历其余一切胎生之道,以求见那位仙人。
13.180.9
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ।
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु ॥ १३.१८०.९ ॥
生于狗、豺、蜥蜴、野猪之胎;同样生于鹿与鸟之胎;生于狗厨(śvapāka)、首陀罗、吠舍、刹帝利之胎。
13.180.10
स कीटे एवमाख्यातमृषिणा सत्यवादिना ।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः ॥ १३.१८०.१० ॥
那虫便记起了这位诚实之仙人所说的话,遂合掌握住他的双足,置于自己头上。
13.180.11
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः ।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥ १३.१८०.११ ॥
此即那无与伦比、以十种德性而可欲的境界。我由虫身而来,已获得王子之位。
13.180.12
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः ।
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः ॥ १३.१८०.१२ ॥
金色花环装饰的强大象群驮负着我,战车上也驾着迦摩阇的战马。
13.180.13
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् ।
सबान्धवः सहामात्यश्चाश्नामि पिशिताशनम् ॥ १३.१८०.१३ ॥
驼与骡所驾的车辆载着我;与亲属和大臣一同,我食用肉食。
13.180.14
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च ।
वरार्हेषु महाभाग स्वपामि च सुपूजितः ॥ १३.१८०.१४ ॥
噢,大福之人!在我自己的宅邸中,在舒适而上好的床榻上,我受到充分的尊崇而入睡。
13.180.15
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः ।
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः ॥ १३.१८०.१५ ॥
每个夜深之时,御者诗人、颂赞者与传令者都赞颂我,如诸神赞颂大因陀罗,言辞悦耳。
13.180.16
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः ।
यदहं कीटतां प्राप्य स्मृतिजाता जुगुप्सिताम्।
ननु नाशोस्ति पापस्य यन्मयोपचितं पुरा ॥ १३.१८०.१६ ॥
蒙您的恩典——您守诺且光明无量——我既已堕为虫类,便有了可憎的记忆。我先前积累的罪业,难道没有消除之时吗?
13.180.17
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् ।
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥ १३.१८०.१७ ॥
向您致敬,大智者!我该做什么?请教导我。这由您苦行之力所定的境况,已降临于我身。
13.180.18
अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया ।
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिताम् ॥ १३.१८०.१८ ॥
噢,国王!今日你偶然以言语尊崇了我。今日你已堕为虫类,你心中生起了不可憎恶的记忆。
13.180.19
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ।
ममैतद्दर्शनं प्राप्तं तच्च वै सुकृतं पुरा।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा ॥ १३.१८०.१९ ॥
此景象由一位贪图财富、残忍且为侵害者的首陀罗所致,这确是往昔的善业;它得以发生,是因我生于畜生胎中,也因我的敬拜。
13.180.20
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि ।
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे ॥ १३.१८०.२० ॥
从此处起,因你是王子,你将获得婆罗门身份,因为你在战场上为牛和婆罗门舍弃了自己亲族的性命。
13.180.21
राजपुत्रः सुखं प्राप्य ईजे चैवाप्तदक्षिणैः ।
अथ चोद्दीप्यत स्वर्गे प्रभूतोप्यव्ययः सुखी ॥ १३.१८०.२१ ॥
王子得享幸福,以充足的祭礼费用举行祭祀;此后在天界他光辉闪耀,丰盛、不朽而快乐。
13.180.22
तिर्यग्योन्याः शूद्रतामभ्यपैति ।
शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं ।
स्वर्गं पुण्याद्ब्राह्मणः साधुवृत्तः ॥ १३.१८०.२२ ॥
从畜生胎中可得首陀罗之身;首陀罗可得吠舍之身,吠舍可得刹帝利之身。赞美善行的刹帝利获得婆罗门身份;行为善良的婆罗门凭功德得生天界。