摩诃婆罗多 · 章 13.184
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.184.1
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत ।
दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ॥ १३.१८४.१ ॥
如此被问之后,尊者回答弥勒道:你幸而understand此理;你的智慧幸而如此。
13.184.2
लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति ।
रूपमानो वयोमानो धनविद्यामदस्तथा ॥ १३.१८४.२ ॥
此世间大多赞赏德行;至于美貌之骄、年岁之骄,以及财富与学识之醉,亦复如此。
13.184.3
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ।
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु ॥ १३.१८४.३ ॥
幸而它们不能压倒你,这是天命对你的恩赐。因此我将为你阐述这多德之布施,你且听着。
13.184.4
यानीहागमशास्त्राणि याश्च काश्चित्प्रिवृत्तयः ।
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्। ॥ १३.१८४.४ ॥
此处所有的圣传经论(āgama)与各种行持,皆以吠陀为先,依次而行。
13.184.5
अहं दानं प्रशंसामि भवानपि तपःश्रुतेः ।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥ १३.१८४.५ ॥
我赞叹布施,你也赞叹苦行与闻学。苦行使吠陀清净;苦行是通往天界的途径。
13.184.6
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् ।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥ १३.१८४.६ ॥
我们听说,通过苦行可获大成,通过学问亦然。唯有苦行,也能除去其他恶业。
13.184.7
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः ।
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥ १३.१८४.७ ॥
凡人以决心修持苦行者,通晓吠陀的婆罗门皆能获得这一切。
13.184.8
दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम् ।
सर्वं वै तपसाऽभ्योति तपो हि बलवत्तरम् ॥ १३.१८४.८ ॥
难以探究、难以战胜、难以获得、难以超越的一切,皆可由苦行获得,因为苦行最为强大。
13.184.9
सुरापः स्वर्णहारी च भ्रूणहा गुरुतल्पगः ।
तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥ १३.१८४.९ ॥
饮酒者、盗金者、杀害胎儿者、奸淫师母者,凭借苦行皆能超越一切,并完全脱离罪孽。
13.184.10
सर्वो वैद्यस्तु चक्षुष्मानपि यादृशतादृशः ।
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सतां मतम् ॥ १३.१८४.१० ॥
无论是何种医者,只要有明眼,都同样被称为苦行者;善人认为应当同时任用这两者。
13.184.11
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः ।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥ १३.१८४.११ ॥
以学问为财富的人、苦行者和施舍者都值得尊敬;他们死后得到安乐,今生得到繁荣。
13.184.12
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् ।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकम् ॥ १३.१८४.१२ ॥
施予食物的善人可以获得此世界、梵天界以及那更为强大的世间境界。
13.184.13
पूजिताः पूजयन्त्येते मानिता मानयन्ति च ।
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते ॥ १३.१८४.१३ ॥
受尊敬者也尊敬他人,受敬重者也敬重他人;那位施主无论走到哪里,都会四方受到称赞。
13.184.14
अकर्ता चैव कर्ता च लभते यस्य यादृशम् ।
यदि चोर्ध्वं यद्यधो वा स्वान्लोकानभियास्यति ॥ १३.१८४.१४ ॥
不作为者与作为者,各自得到与其所为相称的果报;无论他向上还是向下,都将前往他自己的世界。
13.184.15
प्राप्स्यसि त्वन्नपानानि यानि दास्यसि कर्हिचित् ।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥ १३.१८४.१५ ॥
你日后所施予的饮食,你将来也会得到;你生于高贵的家族,聪慧、博学且仁慈。
13.184.16
कौमारदारो व्रतवान्मैत्रेय निरतो भव ।
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥ १३.१८४.१६ ॥
哦,弥德罗,自幼有妻,持守誓戒,并专心于此。这是为居家者所称赞的首要之道,你应先行接受。
13.184.17
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता ।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥ १३.१८४.१७ ॥
在丈夫对妻子满意、妻子对丈夫满意的家庭中,一切吉祥便如此存在。
13.184.18
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।
दानेन तपसा चैव विष्णोरभ्यर्चनेन च।
ब्राह्मणः स महाभाग तरेत्संसारसागरात् ॥ १३.१८४.१८ ॥
如同水洗去身上的污垢,火光驱散黑暗,愿那位婆罗门,哦大福者,凭借布施、苦行和敬拜毗湿奴,渡过轮回之海。
13.184.19
स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम् ।
विद्यया गतमोहानां तारणाय हरिः स्मृतः ॥ १३.१८४.१९ ॥
对于以自身职责净化其本性、以苦行使灵魂无垢、以智慧消除迷惑的人,人们忆念毗湿奴(哈里)以助其渡过轮回之海。
13.184.20
तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु ।
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः ॥ १३.१८४.२० ॥
要常常专心礼拜他,做他的虔诚信徒,并向他致敬。专注于八字真言的他的信徒不会灭亡。
13.184.21
प्रणवोपासनपराः परमार्थिपरास्त्विह ।
एतैः पावय चात्मानं सर्वपापमपोह्य च ॥ १३.१८४.२१ ॥
在此,专心观想音节唵与至高目标的人啊,以此清净自身,除去一切罪恶。
13.184.22
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् ।
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥ १३.१८४.२२ ॥
弥勒啊,愿你得享吉祥;我将安然返回家中。此事应铭记于心,如此便会获得至善。
13.184.23
तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम् ।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥ १३.१८४.२३ ॥
弥勒向他顶礼,并绕行致敬,合掌说道:“愿世尊获得吉祥。”