Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.186

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.186.1

यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः ।
सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात् ॥ १३.१८६.१ ॥

何为至上应知之事,大智者应行之责,一切经典之精要——请以恩慈向我宣说。

13.186.2

श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् ।
श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशाम्पते ॥ १३.१८६.२ ॥

请听这至为隐秘、能使人脱离轮回的教导;你应当善加聆听与领悟,人民之主啊。

13.186.3

पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः ।
नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् ॥ १३.१८६.३ ॥

往昔,婆罗门补达利迦在一处圣地诵念时,向专修瑜伽的仙人那罗陀详细请教至善之道。

13.186.4

नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना ॥ १३.१८६.४ ॥

那罗陀便向他宣说了大梵天所宣示的教义。

13.186.5

शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् ।
अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसंयुतम्। ॥ १३.१८६.५ ॥

孩子,请专心听!这是无上的智慧瑜伽——文辞简约而义理丰盈,与吠陀经典之义相合。

13.186.6

यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः ।
स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ १३.१८६.६ ॥

超越自性(prakṛti)、被称为第二十五者的那位補嚕莎,正是一切众生的自我,他被称为“那罗”。

13.186.7

नराज्जातानि तत्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥ १३.१८६.७ ॥

从那罗所生的诸原理被称为“那罗”(水),它们正是他的居所,因此他被称为那罗延那。

13.186.8

नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ १३.१८६.८ ॥

在创造之时,整个世界从那罗延那生起;在劫末,它又重新融入他之中。

13.186.9

नारायणः परं ब्रह्म तत्वं नारायणः परः ।
परादपि परश्चासौ तस्मान्नास्ति परात्परः ॥ १३.१८६.९ ॥

那罗延那即最高梵,那罗延那即至上真实;他高于至高者,因此再无高于他者。

13.186.10

वासुदेवं तथा विष्णुमात्मानं च तथा विदुः ।
संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः ॥ १३.१८६.१० ॥

人们也称他为婆苏提婆、毗湿奴和自我;虽名号不同,他实为唯一,为一切经典所陶冶。

13.186.11

आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १३.१८६.११ ॥

遍览一切经典并反复思考之后,这一个结论已确立无疑:应当永远专念那罗延那。

13.186.12

तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान् ।
अनन्यचेता ध्यायस्व नारायणमजं विभुम् ॥ १३.१८६.१२ ॥

因此,你应舍弃一切深奥的经义阐述,以专一之心观想那不生、遍在的那罗延那。

13.186.13

मुहूर्तिमपि यो ध्यायेन्नारायणमतन्द्रितः ।
सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः ॥ १३.१८६.१३ ॥

若有人不懈怠地念想那罗延哪怕片刻,他也能达到他的归宿;何况全心归依他的人呢?

13.186.14

नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् ।
अन्त्यकाले जपन्नेति तद्विष्णोः परमं पदम् ॥ १३.१८६.१४ ॥

知道“南无那罗延耶”即是永恒梵,并在临终时持诵的人,便到达毗湿奴的至高之境。

13.186.15

श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः ।
आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा ॥ १३.१८६.१५ ॥

以听闻、思惟、歌咏、赞颂、礼拜等方式,求自身利益的人应当时常供养梵。

13.186.16

लिप्यते न स पापेन नारायणपरायणः ।
पुनाति सकलं लोकं सहस्रांशुरिवोदितः ॥ १३.१८६.१६ ॥

全心归依那罗延的人不被罪恶所染;如同升起的千光之日,他净化整个世界。

13.186.17

ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः ।
केशवाराधनं हित्वा नैव याति परां गतिम् ॥ १३.१८६.१७ ॥

梵行者、居家者、林居者或乞士,若舍弃对羯舍婆的供养,也不能达到至高的归宿。

13.186.18

जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः ।
तद्भक्तवत्सलं देवं समराधय सुव्रत ॥ १३.१८६.१८ ॥

经历千百次轮回,心向着他的人也是稀有的。善持誓愿者啊,请好好供养那位爱护信徒的神。

13.186.19

नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम् ।
स्वप्नोऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ॥ १३.१८६.१९ ॥

那婆罗门听了那罗陀如此的教导,便敬拜哈里——那莲花眼、持螺、轮与杖者,即便在梦中也不间断。

13.186.20

किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् ।
तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः ॥ १३.१८६.२० ॥

他见到头戴宝冠、耳垂珠环、闪耀着室利吠磋标记与俱诗多罗宝珠的神中之神,怀着敬畏俯身礼拜。

13.186.21

अथ कालेन महता तथा प्रत्यक्षतां गतः ।
संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः ॥ १३.१८६.२१ ॥

此后经过很长时间,他这样显现出来,受到天神、乾达婆与紧那罗以吠陀颂歌的赞美。

13.186.22

अथ तेनैव भगवानात्मलोकमधोक्षजः ।
गतः सम्प्रजितः सर्वैः स योगिनिलयो हरिः ॥ १३.१८६.२२ ॥

此后,尊贵的不可感知者(阿多克沙阇)经由他返回了自己的世界——那被众人敬奉、为瑜伽行者所居的哈里。

13.186.23

तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः ।
अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् ॥ १३.१८६.२३ ॥

因此,王中之王啊,你也应成为他的虔信者,全心以他为归依,依礼供奉,侍奉至上之人。

13.186.24

अजरममरमेकं ध्येयमाद्यन्तशून्यं ।
सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम्।
निरुपममुपमेयं योगिविज्ञानगम्यं ।
त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम् ॥ १३.१८६.२४ ॥

不老、不灭、唯一、可供冥想、无始无终,有德与无德,本初,粗大而极其微细,无可比拟又可比拟,凭瑜伽行者的智慧可以证知,三界之师,主宰毗湿奴——你应皈依于他。