摩诃婆罗多 · 章 13.187
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.187.1
साम्नि चापि प्रदानेन च ज्यायः किं भवतो मतम् ।
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥ १३.१८७.१ ॥
安抚(sāman)与施舍(dāna),哪一个更好?您的意见如何?婆罗多族中最优秀的人啊,请告诉我,二者之中何者更为殊胜。
13.187.2
साम्ना प्रसाद्यते कश्चिद्दानेन च तथाऽपरः ।
पौरुषीं प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥ १३.१८७.२ ॥
有人以安抚(sāman)而被打动,有人以布施(dāna)而被打动。知晓人的本性之后,应当选择二者之一。
13.187.3
गुणांस्तु शृणु वैराजन्त्सान्त्वस्य पुरुषर्षभ ।
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥ १३.१८७.३ ॥
请听,国王啊,人中雄牛,安抚的诸般美德。以安抚之道,即便凶猛的生灵也能被安抚。
13.187.4
अत्राप्युदाहरन्तीममिदिहासं पुरातनम् ।
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥ १३.१८७.४ ॥
在此,人们也引用这个古老的故事:一位再生者在森林中被罗刹抓住,后来获释。
13.187.5
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने ।
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥ १३.१८७.५ ॥
一位有智慧的婆罗门在荒僻的森林中被罗刹抓住,陷入困境,眼看就要被它吞食。
13.187.6
सुबुद्धिः श्रुतिसम्पन्नो दृष्ट्वा तमतिभीषणम् ।
सामैवास्मै प्रयुञ्जानो न मुमोह न विव्यधे ॥ १३.१८७.६ ॥
那位智慧高深、精通经典的婆罗门,见到那极其可怖的罗刹,便只对它施行安抚;他既没有迷惑,也没有受伤。
13.187.7
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् ।
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥ १३.१८७.७ ॥
罗刹以言语敬重那婆罗门,问道:“你将获释;请告诉我我的问题。因何缘故,我像鹿一样瘦弱?”
13.187.8
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणिस्तं निरीक्ष्य सः ।
अभीतवदथाव्यग्रः प्रश्नं प्रतिजगाद ह ॥ १३.१८७.८ ॥
婆罗门沉思片刻,看着他,仿佛无所畏惧,平静地回答了那个问题。
13.187.9
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः ।
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥ १३.१८७.९ ॥
你身处异乡,被众人注视,没有朋友,必定享受着无与伦比的欲乐;因此你像鹿一样瘦弱。
13.187.10
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि ।
स्वदोषात्तु परित्यज्य तेनासि हरिणः कृशः ॥ १३.१८७.१० ॥
罗刹啊,你的朋友,虽然你善待他们,因你自己的过错,必定已经抛弃了你;因此你像鹿一样瘦弱。
13.187.11
अवृत्त्या पीड्यमानोऽपि वृत्त्युपायान्विगर्हयन् ।
महार्थान्ध्यायसे नूनं तेनासि हरिणः कृशः ॥ १३.१८७.११ ॥
你虽为生计所困,又责备谋生之道,必定在沉思伟大的目标;因此你像鹿一样瘦弱。
13.187.12
परकार्याधिकारस्थाः सद्गुणैरधमा नराः ।
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥ १३.१८७.१२ ॥
那些担任他人事务职位、缺乏善德的卑劣之人必定轻视你;因此你像鹿一样瘦弱。
13.187.13
गुणवान्निर्गुणानन्यान्नूनं पश्यसि तत्कृतान् ।
प्राज्ञैरपि विनीतात्मा तेनासि हरिणः कृशः ॥ १३.१८७.१३ ॥
你虽有德,却必然因他人之所作而视无德者为无德;虽心存谦逊,即便智者也如此——因此你瘦弱如鹿。
13.187.14
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः ।
जितं त्वां मन्यते साधो तेनासि हरिमः कृशः ॥ १३.१८७.१४ ॥
你因高贵而折磨自己,某人因你而受到伤害;善人啊,他以为你已被征服——因此你瘦弱如鹿。
13.187.15
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः ।
मन्येऽनुध्यायसि जनांस्तेनासि हरिमः कृशः ॥ १३.१८७.१५ ॥
我认为你所思念的,是那些在歧途中受苦、心被欲望与愤怒所遮蔽的人;因此你瘦弱如鹿。
13.187.16
प्राज्ञैरपुजितो नूनं प्राज्ञैरप्यभिनिन्दितः ।
ह्रीमानमर्षी दुर्वृत्तस्तेनासि हरिणः कृशः ॥ १३.१८७.१६ ॥
你必定不被智者所尊敬,甚至被智者所责备;你知羞耻、不忍受侮辱,行为不端——因此你瘦弱如鹿。
13.187.17
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् ।
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥ १३.१८७.१७ ॥
必定有某个面带朋友之色的敌人,行事如同高贵之人,欺骗了你之后离去了——因此你瘦弱如鹿。
13.187.18
नूनमद्य सतां मध्ये तव वाक्यमनुत्तमम् ।
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥ १३.१८७.१८ ॥
今日在善人之中,你那无上的言辞似乎并未在恰当的时候说出——因此你瘦弱如鹿。
13.187.19
दृष्टपूर्वाञ्श्रुतपूर्वान्कुपितान्हृदयप्रियान् ।
अनुनेतुं न शक्रोषि तेनासि हरिणः कृशः ॥ १३.१८७.१९ ॥
你连那些你曾见过、听闻过的人,即便愤怒却是你心中所爱的,也无法安抚;因此你像鹿一样消瘦。
13.187.20
नूनमासञ्जयित्वा त्वा कृत्ये कस्मिंश्चिदीप्सिते ।
कच्चिदर्थयते नित्यं तेनासि हरिणः कृशः ॥ १३.१८७.२० ॥
想必有人把你束缚在某项你所渴望的事务中,并且不断向你求助;因此你像鹿一样消瘦。
13.187.21
परोक्षवादिभिर्मिथ्यादोषस्ते सम्प्रदर्शितः ।
तज्ज्ञैर्न पूज्यसे व्यक्तं तेनासि हरिणः कृशः ॥ १३.१८७.२१ ॥
背后说闲话的人散布了对你的不实指责;知晓这些的人也不明确地尊重你;因此你像鹿一样消瘦。
13.187.22
नूनं त्वां सद्गुणापेक्षं पूजयानं सुहृत्प्रजाः ।
मायावीति च जानन्ति तेनासि हरिणः कृशः ॥ १३.१८७.२२ ॥
朋友和百姓期待你的美德而尊敬你,却认为你是个虚伪的人;因此你像鹿一样消瘦。
13.187.23
अन्तर्गतमभिप्रायंन न नूनं लज्जयेच्छसि ।
विवक्तुं प्राप्य शैथिल्यात्तेनासि हरिणः कृशः ॥ १३.१८७.२३ ॥
想必你出于羞怯,不愿说出心中隐藏的意图;有机会时却因犹豫而不肯说出来;因此你像鹿一样消瘦。
13.187.24
नानाबुद्धिरुचीँल्लोके मानुषान्नूनमिच्छसि ।
ग्रहीतुं स्वैर्गुणैः सर्वांस्तेनासि हरिणः कृशः ॥ १३.१८७.२४ ॥
想必你想以自身的美德去赢得世间各种心智与好恶不同的人们;因此你像鹿一样消瘦。
13.187.25
असत्सु विनिविष्टेषु न गुणान्वदतः स्वयम् ।
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥ १३.१८७.२५ ॥
若沉溺于恶人之中,且自我夸耀德行,其德行便不能显耀;因此你瘦弱如鹿。
13.187.26
धर्मवृत्तः श्रुतैर्हीनः पदं त्वं रजसान्वितः ।
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ १३.१८७.२६ ॥
你虽行法,却无学问,又充满激情,必定贪求高位;因此你瘦弱如鹿。
13.187.27
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् ।
बन्धुवर्गो निगृह्णाति तेनासि हरिमः कृशः ॥ १३.१८७.२७ ॥
我认为你心志专注于苦行,渴望林居生活,却被亲族牵制;因此你瘦弱如鹿。
13.187.28
इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः ।
युवा सुललितः कामी तेनासि हरिणः कृशः ॥ १३.१८७.२८ ॥
你心爱之妻的邻人必定十分富有、年轻、俊美且好色;因此你瘦弱如鹿。
13.187.29
दुर्विनीतहतः पुत्रो जामाता वाऽप्रमार्जकः ।
दारा वा प्रतिकूलास्ते तेनासि हरिमः कृशः ॥ १३.१८७.२९ ॥
儿子因骄横而败坏,或女婿疏懒,或妻妾与你为敌;因此你瘦弱如鹿。
13.187.30
भ्रातरोऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः ।
माता ज्योष्ठो गुरुर्वाऽपि तेनासि हरिमः कृशः ॥ १३.१८७.३० ॥
你的兄弟极为严厉,或父亲因饥饿而消瘦死去,或母亲、长兄、师长;因此你瘦弱如鹿。
13.187.31
ब्राह्मणो वा हतो गौर्वा ब्रह्मस्वं वापहृतं पुरा ।
देवस्यं वा हृतं काले तेनासि हरिणः कृशः ॥ १३.१८७.३१ ॥
或婆罗门被杀,或牛被杀,或昔日婆罗门的财物被盗,或适时夺取了神的财物——因此你像鹿一样消瘦。
13.187.32
हृतदारोऽथ वृद्धो वा लोके द्विष्टोऽथवा नरैः ।
अविज्ञानेन वा वृद्धस्तेनासि हरिणः कृशः ॥ १३.१८७.३२ ॥
或妻子被夺走,或你年老而被世人憎恶,或因无知而衰老——因此你像鹿一样消瘦。
13.187.33
वार्धकार्थं धनं दृष्ट्वा स्वा श्रीर्वाऽपि परैर्हृता ।
वृत्तिर्वा दुर्जनापेक्षा तेनासि हरिणः कृशः ॥ १३.१८७.३३ ॥
你见到为晚年积攒的财富,或你自己的财产被他人夺去,或你的生计依赖恶人——因此你像鹿一样消瘦。
13.187.34
सम्पत्कालेन ते धर्मः क्षीणस्तात सुहृद्बुवैः ।
असंन्यासमतिस्तत्र तेनासि हरिणः कृशः ॥ १३.१८७.३४ ॥
亲爱的孩子,在繁荣之时,你的法被那些假作朋友之言的人削弱了,你的心在那里也不趋向出离——因此你像鹿一样消瘦。
13.187.35
अविद्वान्भीरुरल्पार्थे विद्याविक्रमदानजम् ।
यशः प्रार्थयसे नित्यं तेनासि हरिणः कृशः ॥ १३.१८७.३५ ॥
你无知而胆怯,却为了小小的目的,常常渴求由学识、勇武与布施而生的名声——因此你像鹿一样消瘦。
13.187.36
चिरहाभिलषितं किञ्चित्फलमप्राप्तमेव ते ।
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥ १३.१८७.३६ ॥
你长久所求的某种果报并未得到,你所成就之事又被他人夺去——因此你像鹿一样消瘦。
13.187.37
नूनमात्मगतं दोषमपश्यन्किंचिदात्मनि ।
अकारणेऽभिशस्तो हि तेनासि हरिणः कृशः ॥ १३.१८७.३७ ॥
的确,你未察觉自身所含的任何过失,无故受到指责;因此,鹿啊,你已变得瘦弱。
13.187.38
सुहृदां दुःखमार्तानां न प्रमोक्ष्यसि हानिजम् ।
अलमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥ १३.१८७.३८ ॥
你无法摆脱朋友的悲伤、困苦者的痛苦,以及因失去而生的忧愁;失去财富所带来的美德,你已消瘦憔悴;因此,鹿啊,你已变得瘦弱。
13.187.39
साधून्गृहस्थान्दृष्ट्वा च तथा साधून्वनेचरान् ।
मुक्तांश्चावसथे सक्तांस्तेनासि हरिमः कृशः ॥ १३.१८७.३९ ॥
你看见了有德的居家者,也看见了在森林中游行的有德者,以及在居所中既有超脱者也有执着者;因此,鹿啊,你已变得瘦弱。
13.187.40
धर्म्यमर्थ्यं च काम्यं च देशे च रहितं वचः ।
न प्रसिद्ध्यति ते नूनं तेनासि हरिणः कृशः ॥ १३.१८७.४० ॥
合乎法义、有益且悦耳的话语,若不在恰当的场合说出,对你而言必定不能成功;因此,鹿啊,你已变得瘦弱。
13.187.41
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः ।
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ १३.१८७.४१ ॥
你得到了不善之人所给的财物,作为一位想要活下去的智者,你确实靠它来维持生计;因此,鹿啊,你已变得瘦弱。
13.187.42
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि ।
सुहृदामुपरोधेन तेनासि हरिणः कृशः ॥ १३.१८७.४२ ॥
你确实想要讨好彼此对立的人,却阻碍了你的朋友;因此,鹿啊,你已变得瘦弱。
13.187.43
पापान्विवर्धितान्दृष्ट्वा कल्याणांश्चावसीदतः ।
ध्रुवं गर्हयसे नूनं तेनासि हरिणः कृशः ॥ १३.१८७.४३ ॥
你见恶人兴盛、善人衰败,必定加以责备,因此你消瘦得像一头鹿。
13.187.44
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् ।
सहायमकरोच्चैनं सम्पूज्यामुं मुमोच ह ॥ १३.१८७.४४ ॥
罗刹受到如此尊敬,便也以同样的敬意回报那位婆罗门;他使婆罗门成为自己的盟友,并以礼相待后将他释放。