Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.188

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.188.1

जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम् ।
श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह ॥ १३.१८८.१ ॥

既得人身,此行为之场甚难获得,求至善之贫者当作何事,祖父?

13.188.2

दानानामुत्तमं यच्च देयं यच्च यथायथा ।
मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि ॥ १३.१८८.२ ॥

恒河之子,请您说明此秘密:布施之中何者最上,何物当施,以及应如何施予尊贵与可敬之人。

13.188.3

एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना ।
धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् ॥ १३.१८८.३ ॥

光荣的般度王如此询问后,毗湿摩向国王讲述了诸法的至上秘密。

13.188.4

शृणुष्वावहितो राजन्धर्मगुह्यानि भारत ।
यथाहि भगवान्व्यासः पुरा कथितवान्मयि ॥ १३.१८८.४ ॥

大王,婆罗多之后,请专心聆听诸法的秘密,正如昔日世尊毗耶娑对我所说。

13.188.5

देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा ।
नियमस्थेन युक्तेन तपसो महतः फलम् ॥ १३.१८८.५ ॥

大王,这是诸神的秘密:对于安住于戒律、行事无扰、专心奉行者,它结出大苦行的果实。

13.188.6

येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा ।
ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः ॥ १३.१८८.६ ॥

凡能令天神欢喜之事,祖先、仙人、普拉马陀、吉祥天女、画身、诸方之象,亦皆因之而欢喜。

13.188.7

ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः ।
महादानफलं चैव सर्वयज्ञफलं तथा ॥ १३.१८८.७ ॥

与其秘义一同宣说的仙人之法,能带来巨大果报;它是大布施的果报,也是一切祭祀的果报。

13.188.8

यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ ।
सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते ॥ १३.१८८.८ ॥

无罪者啊,若人如此知之,或知而行之,虽在此有过,亦可得无过,并与那些功德相应。

13.188.9

दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ १३.१८८.९ ॥

一轮相当于十座屠场;一面旗相当于十轮;一名娼妓相当于十面旗;一位国王相当于十名娼妓。

13.188.10

अर्घेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः ।
त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम् ॥ १३.१८८.१० ॥

若将这些一并计算,国王便被称为更大者;与三大目标相连的论典神圣,具有功德之相。

13.188.11

धर्मिव्याकरणं पुण्यं रहस्यश्रवणं महत् ।
श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् ॥ १३.१८८.११ ॥

演说法义乃是功德,听闻秘义甚为殊胜。与法相应者应当听闻,此乃诸天神亲自所定。

13.188.12

पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि ।
देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम् ॥ १३.१८८.१२ ॥

在施设祭祖之仪中,宣说祖先的隐秘之义,也宣说一切诸神的全部秘义。

13.188.13

ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः ।
महायज्ञफलं चैव सर्वदानफलं तथा ॥ १३.१८८.१३ ॥

凡传授仙人之法及其秘义之处,便有大果报;大祭祀之果与一切布施之果,亦在其中宣说。

13.188.14

ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति ।
श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः ॥ १३.१८८.१४ ॥

凡常诵此者,凡有此经常在其侧者,主宰那罗延闻其果报,便亲自宣示其果。

13.188.15

गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम् ।
एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः ॥ १३.१८८.१५ ॥

施牛之果、朝圣之果,以及祭祀之果——敬待宾客之人便能获得此果。

13.188.16

श्रोतारः श्रद्धधानाश्च येषां शुद्धं च मानसम् ।
तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना ॥ १३.१८८.१६ ॥

信而听者,其心清净,于彼等而言,诸世界确已由有信之善人所得。

13.188.17

मुच्यते किल्बिषाच्चैव न स पापेन लिप्यते ।
धर्मं च लभते नित्यं प्रेत्य लोकगतो नरः ॥ १३.१८८.१७ ॥

彼脱离罪过,不为恶所染;死后往生诸界的人,常得正法。

13.188.18

कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया ।
स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम् ॥ १३.१८८.१८ ॥

某时,一位天神使者随己意隐身而立,对婆薮(因陀罗)说话。

13.188.19

यो तौ कामगुणोपेतावश्विनौ भिषजां वरौ ।
आज्ञयाऽहं तयोः प्राप्तः सनरान्पितृदैवतान् ॥ १३.१८८.१९ ॥

奉那两位具足可欲功德、为医者中最殊胜的双马童之命,我携同人类与祖灵神前来。

13.188.20

कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम् ।
केमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक्पृथक् ॥ १३.१८८.२० ॥

为何在祭祖仪式(śrāddha)中,施主与受食者都禁止行房?三个供团又为何分别划分?

13.188.21

प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति ।
उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम् ॥ १३.१८८.२१ ॥

第一团应献给谁?中间一团去往何处?最后一团据说属于谁?我想知道这些。

13.188.22

श्रद्दधानेन दूतेन भाषितं धर्मसंहितम् ।
पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम् ॥ १३.१८८.२२ ॥

这段充满法义的话,是那位虔信的使者所说。前面站立的诸天神与祖灵都在尊敬这位飞行于空中者。

13.188.23

स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम ।
गूढार्थः परमः प्रश्नो भवता समुदीरितः ॥ १३.१८८.२३ ॥

欢迎你,愿你吉祥。飞行于空中的最殊胜者啊,请听:你提出了一个意义隐微的至高问题。

13.188.24

श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत् ।
पितरस्तस्य तं मासं तस्मिन्रेतसि शेरते ॥ १३.१८८.२४ ॥

凡施行祭祖(śrāddha)并进食之后便亲近女子的男人,他的祖先整整一个月都卧眠于那精液之中。

13.188.25

प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः ।
पिण्डो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत् ॥ १३.१८८.२५ ॥

我将依次说明供饼的分配:下沉的供饼应入水,使其生效。

13.188.26

पिण्डं तु मध्यमं तत्र पत्नीत्वेका समश्नुते ।
पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि।
एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते ॥ १३.१८८.२६ ॥

中间的供饼由妻子独自接受。他们的第三个供饼应投入火中。这就是所说的祭祖仪式,使法不致失落。

13.188.27

पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा ।
प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति ॥ १३.१८८.२७ ॥

他的祖先总是心怀喜悦而满足。他的子孙繁衍,不尽之福也来临于他。

13.188.28

आनुपूर्व्येण पिण्डानां प्रविभागः पृथक्पृथक् ।
पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया ॥ १३.१८८.२८ ॥

供饼的分配依次、各自分别、分为三份、为所有祖先,已由你讲明。

13.188.29

एकः समुद्धृतः पिण्डो ह्यधस्तात्कस्य गच्छति ।
कं वा प्रीणयते देवं कथं तारयते पितॄन् ॥ १३.१८८.२९ ॥

被举起的那一个供饼向下去往何人?它令哪位神欢喜,又如何使祖先渡过彼岸?

13.188.30

मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि ।
किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते ॥ १३.१८८.३० ॥

但中间的供饼此时由妻子食用,这本是许可的。那么,祖先为何食用他的迦维耶供物?

13.188.31

अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम् ।
भवते का गतिस्तस्य कं वा समनुगच्छति ॥ १३.१८८.३१ ॥

此处,前往遮陀婆陀(阿耆尼)的最后一团供饭,其去向如何?它随从的是谁?

13.188.32

एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः ।
फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते ॥ १३.१८८.३२ ॥

我想听闻三团供饭各自的去向、果报、行道、途径,以及谁能得到它。

13.188.33

सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः ।
रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर ॥ १३.१८८.३३ ॥

游于天空者啊,你提出的这个问题确实极为重大;这是一个奇妙的秘密,我们也曾被问及此事。

13.188.34

एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा ।
तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम्।
वर्जयित्वा महात्मानं चिरजीविनमुत्तमम् ॥ १३.१८८.३४ ॥

诸神与仙人也都称赞此事;然而他们也不能如此确知祖先祭祀的定则——除了那位伟大的灵魂、长寿者、至上者之外。

13.188.35

पितृभक्तस्तु यो विप्रो वलब्धो महायशाः ।
त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम् ॥ १३.१८८.३५ ॥

敬奉祖先、声名远扬的婆罗门,听闻那位尊者所说的三团供饭的去向后,便能得到它。

13.188.36

देवदूतेन यः पृष्टः श्राद्धस्य विदिनिश्चयः ।
गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम ॥ १३.१८८.३६ ॥

请你专心听我说那三团供饭的去向——你,正是被天使信使问及祭祀定则之确知的人。

13.188.37

अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत् ।
शशी प्रीणयते देवान्पितॄंश्चैव महामते ॥ १३.१८८.३७ ॥

这里流下的水确实使月亮欢喜。智慧者啊,月亮也使诸神和祖先欢喜。

13.188.38

भुङ्क्ते तु पत्नीं यं चैषामनुज्ञाता तु मध्यमम् ।
पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः ॥ १३.१८८.३८ ॥

若妻子得到允许而食用这些供品中的中间一份,则为求子者,祖父们赐予一子。

13.188.39

हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे ।
पितरस्तेन तृप्यन्ति प्रीताः कामान्दिशन्ति च।
एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः ॥ १३.१८८.३९ ॥

请听我讲献于火中(承献之火)的供团:祖先因此得到满足,欢喜之后便赐予所愿。三团供物的去处,已全部告诉你了。

13.188.40

ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति ।
तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम् ॥ १३.१८८.४० ॥

施主的祭司获得父亲的身份。在那一天,他们认为应当避免行房事。

13.188.41

शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम ।
ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा ॥ १३.१८८.४१ ॥

天行者中的最优者啊,清净之人应当常食施祭之食。我所说的过失,必然如此,并非另有他途。

13.188.42

तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः ।
प्रजा विवर्दते चास्य चश्चैवं सम्प्रयच्छति ॥ १३.१८८.४२ ॥

因此,沐浴、清净、忍耐的再生者应当食用施祭之食。由此他的子嗣增长,他也施予。

13.188.43

ततो विद्युत्प्रभो नाम ऋषिराह महातपाः ।
आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते ॥ १३.१८८.४३ ॥

于是名为毗迪休特普拉巴的大苦行仙人开口说道;他的形貌光辉如同太阳。

13.188.44

स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत् ॥ १३.१८८.४४ ॥

他听闻法的秘义之后,便对帝释天说道。

13.188.45

तिर्यग्योनिगतान्सत्वान्मर्त्या हिंसन्ति मोहिताः ।
कीटान्पिपीलिकान्सर्पान्मेषान्समृगपक्षिणः।
किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया ॥ १३.१८८.४५ ॥

迷惑的凡人伤害那些投生于畜类胎中的众生:虫、蚂蚁、蛇、羊、鹿与鸟。既然招致如此大罪,其补救之法是什么?

13.188.46

ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ।
पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम् ॥ १३.१८८.४६ ॥

于是诸天众、以苦行为财富的仙人们,以及大福的祖灵们,都礼敬那位仙人。

13.188.47

कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च ।
एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम्।
तथा मुच्यति पापेनि राहुणा चन्द्रमा यथा ॥ १३.१८८.४७ ॥

在心中思念俱卢原、伽耶、恒河、普拉巴沙和普什卡罗诸圣湖后,再入水沐浴;如此便如月亮脱离罗睺,人也从罪中解脱。

13.188.48

त्र्यहं स्नातः स भवति निराहारश्च वर्तते ।
स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति ॥ १३.१८८.४८ ॥

沐浴之后三日禁食者,以及抚摸牛背并向牛尾致敬者。

13.188.49

ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम् ।
अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो ॥ १३.१८८.४९ ॥

于是电光对婆娑说道:“此法更为微妙,请你领会,百祭之主啊。”

13.188.50

घृष्टो वटकषायेणि अनुलिप्तः प्रियङ्गुणा ।
क्षीरेण षष्टिकान्भुक्त्वा सर्वपापैः प्रमुच्यते ॥ १३.१८८.५० ॥

以榕树皮煎汁擦身,涂抹普里扬古油膏,并以牛奶食用六十日稻米,便可脱离一切罪业。

13.188.51

श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम् ।
श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः।
रुद्रेण सह देवेश तन्निबोध शचीपते ॥ १३.१८८.५१ ॥

现在请听另一个为仙人所思的秘密:当木星代替湿婆(斯坦努)说话时,我与楼陀罗一同所听闻的。请领会,诸神之主,舍姬之夫。

13.188.52

पर्वतारोहणं कृत्वा एकपादो विभावसुम् ।
निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः।
तपसा महता युक्त उपवासफलं लभेत् ॥ १३.१८८.५२ ॥

登上山峰,单足而立,凝视毗婆娑(火),绝食,双臂高举,合掌,具足大苦行,便得斋戒之果。

13.188.53

रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति ।
ग्रीष्मकालेऽथवा शीते एवं पापमपोहति ॥ १३.१८८.५३ ॥

被太阳的光线烤晒,便能消除一切罪业;无论在夏季还是冬季,罪业都这样被除去。

13.188.54

ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती ।
तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पनः
मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः। ॥ १३.१८८.५४ ॥

此后,脱离罪业者便得永恒之光;以光辉如太阳般闪耀,如月亮般明亮,在诸神之众中,他便如诸神之王百祭(因陀罗)。

13.188.55

उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम् ॥ १३.१८८.५५ ॥

他向至高的brihaspati说了甜美的话。

13.188.56

धर्मगुह्यं तु भगवन्मानुषाणां सुखावहम् ।
सरहस्याश्च ये दोषास्तान्यथावदुदीरथ ॥ १३.१८८.५६ ॥

尊者啊,请如实讲述那带给人类幸福的法之秘密,以及与其秘义相关的过失。

13.188.57

प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये ।
हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति ॥ १३.१८८.५७ ॥

面向太阳小便的人,憎恨风的人,以及不向燃烧的祭火投放祭薪的人——

13.188.58

बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात् ।
तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते ॥ १३.१८८.५८ ॥

为取奶而挤压有小牛的母牛的人,我将讲述他们的过失;请听明白,舍质之主啊。

13.188.59

भानुमाननिलश्चैव हव्यवाहश्च वासव ।
लोकानां मातरश्चैव गावः सृष्टाः स्वयंभुवा ॥ १३.१८८.५९ ॥

婆娑啊,太阳、风、负载供品的火,以及牛——这些是世界之母,由自生者所创造。

13.188.60

लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः ।
सर्वे भवन्तः शृणिवन्तु एकैकं धर्मनिश्चयम् ॥ १३.१८८.६० ॥

在凡人之中,这些神灵有能力渡过众世界;愿你们所有人聆听每一个关于法的坚定决断。

13.188.61

वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः ।
स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम् ॥ १३.१८८.६१ ॥

八十六年间,那些品行恶劣、玷污家族的男子,以及所有面向太阳小便的品行恶劣的女子,都将承受其果报。

13.188.62

अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा ।
हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति।
अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः ॥ १३.१८८.६२ ॥

因陀罗啊,对风心怀敌意者,其腹中的子嗣会流产。那些不向熊熊烈火中投放薪柴的人,在火祭中,净化之火不会享用他们的供物。

13.188.63

क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः ।
न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः ॥ १३.१८८.६३ ॥

在此饮用幼犊之乳的人,不会生出任何饮乳而能光大家族的子嗣。

13.188.64

प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च ।
एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः ॥ १३.१८८.६४ ॥

他们将与子嗣的灭绝和家族血脉的断绝相连。古时,家族中的长老再生者们曾如此亲见。

13.188.65

तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः ।
भूतिकामेनि मर्त्येन सत्यमेतद्ब्रवीमि ते ॥ १३.१८८.६५ ॥

因此,应当时常避开那些应当避开的事,时常做那些应当做的事。对于渴望兴旺的凡人,这就是真理,我如此告诉你。

13.188.66

ततः सर्वा महाभाग देवताः समरुद्गणाः ।
ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः ॥ १३.१८८.६६ ॥

于是,尊贵者啊,所有天神与摩录多众,以及尊贵的仙人们,开始向祖先们发问。

13.188.67

पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम् ।
अक्षयं च कथं दानं भवेच्चैवौर्ध्वदेहिकम् ॥ १३.१८८.६७ ॥

以何物,小智之凡人可使祖先欢喜?又如何使为亡者所行之布施成为不竭?

13.188.68

आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा ।
एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः ॥ १३.१८८.६८ ॥

凡人以何种行为、如何才能脱离债务?我们愿闻其详,因我们心中甚为好奇。

13.188.69

न्यायतो वै महाभागाः संशयः समुदाहृतः ।
श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम् ॥ १३.१८८.६९ ॥

诸位大福之人啊,此疑问提得正当。请听:凡人行善,我们因何而欢喜。

13.188.70

नीलषण्डप्रमोक्षेण अणावास्यां तिलोदकैः ।
वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत् ॥ १३.१८८.७० ॥

放出一头黑牛,于新月之日以芝麻与水供奉,并于雨季点燃明灯,人便可脱离对祖先的债务。

13.188.71

अक्षयं निर्व्यलीकं च दानमेतन्महाफलम् ।
अस्माकं परितोषश्च अक्षयः परिकीर्त्यते ॥ १३.१८८.७१ ॥

此布施不竭、无欺,果报甚大;而我们的欢喜也被称为不竭。

13.188.72

श्रद्धधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम् ।
दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान् ॥ १३.१८८.७२ ॥

凡怀有信心而延续子嗣的凡人,将从苦难与地狱中救度其曾祖父辈。

13.188.73

पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः ।
वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत् ॥ १३.१८८.७३ ॥

祖先们的话语被听到后,苦行富足、大光明的年老迦尔迦汗毛竖起,便对他们这样说道。

13.188.74

के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः ।
वर्षासु दीपदानेन तथैव च तिलोदकैः ॥ १३.१८८.७४ ॥

诸位苦行富足者啊,被放生的青色公牛有何功德?雨季里以施灯,以及以芝麻水供养,又有何果报?

13.188.75

नीलषण्डस्य लाङ्गूलं तोयमभ्युद्दरेद्यदि ।
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः ॥ १३.१८८.७५ ॥

若青色公牛的尾巴洒起水来,祖先便因此满足六万年。

13.188.76

यस्तु शृङ्गगतं पङ्क्तं कूलादुद्धृत्य तिष्ठति ।
पितरस्तेन गच्छन्ति सोमलोकमसंशयम् ॥ १३.१८८.७६ ॥

而那拿起角上的行列、从岸边升起并站立者,祖先们因他无疑前往月界。

13.188.77

वर्षासु दीपदानेन शशीवच्छोभते नरः ।
तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति ॥ १३.१८८.७७ ॥

雨季里以施灯之故,人如月亮般光彩照人;施灯者不会有黑暗之形。

13.188.78

अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम् ।
पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन।
कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् ॥ १३.१८८.७८ ॥

诸位苦行富足者啊,凡在新月之日取无花果木器皿、以蜜和芝麻水供奉的世人,他们便如法完成了包含秘义的施祭。

13.188.79

हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा ।
कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत्।
श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत् ॥ १३.१८८.७९ ॥

他们的子孙永远心情愉快、身心强健。家族血脉的昌盛,便是供奉饭团者的果报。怀着信心行之者,便免去对祖先的债务。

13.188.80

एवमेव समुद्दिष्टः श्राद्धकालक्रमस्तथा ।
विधिः पात्रं फलं चैव यथावदनुकीर्तितम् ॥ १३.१८८.८० ॥

如此,施行祭祀(śrāddha)的时序也已宣说。规则、适当的受施者及其果报,也都已如实陈述。