摩诃婆罗多 · 章 13.190
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.190.1
सलिलस्याञ्जलिं पूर्णमक्षताश्च धृतोत्तराः ।
सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान् ॥ १३.१९०.१ ॥
盛满水的掌心,未破的谷粒高高举起;为升起的月神(苏摩),献上那水与那些未破的谷粒。
13.190.2
स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत् ।
अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः ॥ १३.१९०.२ ॥
于满月之日面向月亮站立的凡人应献上供物;他便完成了火祭,他的三火也得到了供奉。
13.190.3
वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान् ।
अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया ॥ १३.१९०.३ ॥
愚昧之人若于新月之日砍伐树木,即使仅因一片叶子,也会沾染杀害婆罗门的罪孽。
13.190.4
दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान् ।
हिंसितश्चन्द्रमा पितरश्चोद्विजन्ति च ॥ १३.१९०.४ ॥
愚昧之人若于新月之日嚼食牙枝,便伤害了月亮,祖先也会不安。
13.190.5
हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु ।
कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते ॥ १३.१९०.५ ॥
在节日之时,诸神不接受他的供品;祖先对他发怒,他家族中的血脉也随之衰减。
13.190.6
प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम् ।
योषितश्चैव हन्यन्ते कश्मलोपहते गृहे ॥ १३.१९०.६ ॥
在器皿散乱、陶罐破碎、座席凌乱之处,于被污秽所困扰的家中,妇女也会遭受伤害。
13.190.7
देवताः पितरश्चैव उत्सवे पर्वणीषु वा ।
निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात् ॥ १३.१९०.७ ॥
在节庆或月日的祭典时,即便是诸神与祖先,也会对被污秽所染的家宅失望而去。
13.190.8
यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके ।
सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते ॥ १३.१९०.८ ॥
若有人整整一年以手持苏伐咯拉根,在卡兰惹器中供奉灯火,其子孙便会繁衍增长。
13.190.9
आतीथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये ।
वर्जयानो दिवास्वापं न च मांसानि भक्षयेत् ॥ १३.१९०.९ ॥
应当常行待客之礼,在居所供奉灯火,戒除白日睡眠,也不食肉。
13.190.10
गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत् ।
एत श्रेष्ठतमो धर्मः सरहस्यो महाफलः ॥ १३.१९०.१० ॥
不可伤害牛与婆罗门,应当赞颂圣池。这是最殊胜的法,连同其秘义,结果极大。
13.190.11
अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः ।
न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः ॥ १३.१९०.११ ॥
即便行了百次祭祀,那供物终将耗尽;而由有信之人所行的那些法,却永不衰减。
13.190.12
इदं च परमं गुह्यं सरहस्यं निबोधत ।
श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च ॥ १३.१९०.१२ ॥
请明白此至高秘密及其奥义:于祖先之祭、诸神之祭、圣渡口,以及月中祭日之时。
13.190.13
रजस्वला च या नारी श्वित्रिकाऽपुत्रिका च या ।
एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः।
पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश ॥ १३.१९०.१३ ॥
月经中的女子、患麻风病的女子或无子女的女子,若以眼看过祭品,诸神便不食用此供物,祖先即使十三年也不得满足。
13.190.14
शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाचयेत् ।
कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः ॥ १३.१९०.१४ ॥
身着白衣、保持清净,让婆罗门诵读吉祥祝词,并诵咏《婆罗多》;如此供物便会永不穷尽。
13.190.15
भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा ।
अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः ॥ १३.१९०.१५ ॥
破碎的器皿、床榻、公鸡、狗,以及所有这些,还有生长在屋内的树,都是不吉祥的。
13.190.16
भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः ।
कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः।
वृक्षमूले ध्रुवं सत्वं तस्माद्वृक्षं न रोपयेत् ॥ १३.१९०.१६ ॥
人们说,破碎的器皿引起争端,床榻导致财富损耗;有公鸡和狗的地方,诸神不食供物;树根之下必有生灵居住,因此不应栽树。
13.190.17
यो यजेदश्वमेधेन वाजपेयशतेन ह ।
अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत् ॥ १३.१९०.१७ ॥
若以马祭和一百次婆惹跋耶祭祀,或头朝下倒悬,或举行盛大的萨特拉祭——
13.190.18
न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत् ।
तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता ॥ १३.१९०.१८ ॥
心不清净的人必定堕入地狱;祭祀、真实与心之清净,其价值相等。
13.190.19
शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये ।
ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम् ॥ १३.१९०.१९ ॥
以清净之心将一普拉斯塔(prastha)量的大麦粉布施给婆罗门者,便能抵达梵天之界;此例已足够。