摩诃婆罗多 · 章 13.193
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.193.1
ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः ।
अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः ॥ १३.१९३.१ ॥
于是诸仙众、祖灵与诸天神,心意专注,向苦行已老成的阿伦德哈蒂发问。
13.193.2
समानशीलां वीर्येण वसिष्ठस्य महात्मनः ।
त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम्।
यत्ते गुह्यतमं भद्रे तत्प्रभाषितुमर्हसि ॥ १३.१९३.२ ॥
你的品性与力量堪比大德的婆verse_wrong
13.193.3
तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै ।
भवतां च प्रसादेन धर्मान्वक्ष्यामि शाश्वतान् ॥ १३.१९३.३ ॥
凭着你们的念想,我确实获得了苦行的增长;凭着你们的恩典,我将宣说永恒的法。
13.193.4
सगुह्यान्सरहस्यांश्च ताञ्शृणुद्वमशेषतः ।
श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः ॥ १३.१९३.४ ॥
你们要完整地聆听这些秘密与奥义。应当传授给有信心、心地清净之人。
13.193.5
अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पग ।
असम्भाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत् ॥ १३.१९३.५ ॥
无信者、傲慢者、杀害婆罗门者、玷污师母者——这四种人不可与之交谈,也不应向他们显示法。
13.193.6
अहन्यहनि यो दद्यात्कपिलां द्वादशीः समाः ।
मासिमासि च सत्रेण यो यजेत सदा नरः ॥ १३.१९३.६ ॥
若有人连续十二年每日布施赤褐色的卡皮拉母牛,又每月举行萨特拉祭——
13.193.7
गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे ।
न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति ॥ १३.१९३.७ ॥
在Jyeṣṭhapuṣkara布施十万头牛的人,所得的法果,并不等同于使客人感到满足的人所得之果。
13.193.8
श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः ।
श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः ॥ १३.१९३.८ ॥
现在请听另一种为人带来安乐的法。有信心者应当连同其秘义而行,其果报甚大。
13.193.9
कल्यमुत्थाय गोमध्ये गृह्य दर्भान्सहोदकान् ।
निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम्।
प्रतीच्छेत निराहारस्तस्यि धर्मफलं शृणु ॥ १३.१९३.९ ॥
黎明起身,在牛群中取吉祥草与水,将水洒在牛角上,以头承受此水,并且绝食。现在请听其法果。
13.193.10
श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित् ।
सिद्धचारणजुष्टानि सेवितानि महर्षिभिः।
अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च ॥ १३.१९३.१० ॥
在三界所闻的一切圣地中,为悉陀与恰兰那所常至、为大仙所依止的圣地,用牛角之水灌顶,与沐浴于其中相同。
13.193.11
साधुसाध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा ।
भूतैश्चैव सुसंहृष्टैः पूजिता साऽप्यरुन्धती ॥ १३.१९३.११ ॥
诸天、祖先以及极为欢喜的众生同声说道:“善哉,善哉!”那位阿伦达蒂也受到了供养。
13.193.12
अहो धर्मो महाभागे सरहस्य उदाहृतः ।
वरं ददामि ते धन्ये तपस्ते वर्दतां सदा ॥ १३.१९३.१२ ॥
啊!大福德者,法连同其秘义已被宣说。有福之人,我赐你一个恩惠:愿你的苦行永远增长。
13.193.13
रमणीया कथा दिव्या युष्मत्तो या मया श्रुता ।
श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम् ॥ १३.१९३.१३ ॥
请听我从你们那里听到的美妙神圣的故事,也请听闻茶itragupta所说的、我所珍爱的话语。
13.193.14
रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः ।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छाता ॥ १३.१९३.१४ ॥
这与法相连的秘密,大仙人可以听闻;怀有信心、希望自身福祉的凡人也可以听闻。
13.193.15
न हि पुण्यं तथा पापं कृतं किञ्चिद्विनश्यति ।
पर्वकाले च यत्किंचिदादित्यं चाधितिष्ठति ॥ १३.१९३.१५ ॥
所行的善或恶,都不会真正消失;节日之时所发生的一切,都由太阳主持。
13.193.16
प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः ।
प्रतिजानाति पुण्यात्मा तच्चि तत्रोपयुज्यते ॥ १३.१९३.१६ ॥
凡人前往亡灵之界时,有德的毗婆娑(火神)认得这一切,而这些在那里被使用。
13.193.17
किञ्चिद्धर्म प्रवक्ष्यामि चित्रगुप्तमतं शुभम् ।
पानीयं चैव दीपं च दातव्यं सततं तथा ॥ १३.१९३.१७ ॥
现在我依照茶itragupta吉祥的见解,说一些法:水和灯应当始终这样布施。
13.193.18
उपानहौ च च्छत्रं च कपिला च यथातथम् ।
पुष्करे कपिला देया ब्राह्मणे वेदपारगे ॥ १३.१९३.१८ ॥
鞋与伞,以及褐色母牛,都应依礼布施;在普什卡,应将褐色母牛布施给精通吠陀的婆罗门。
13.193.19
अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत् ।
अयं चैवापरो धर्मश्चित्रगुप्तेन भाषितः ॥ १३.१९३.१९ ॥
应当小心谨慎地在各方面守持火祭。这是另一条由Citragupta宣说的法。
13.193.20
फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः ।
प्रलयं सर्वभूतैस्तु गन्तव्यं कालपर्ययात् ॥ १३.१९३.२० ॥
诸位善人值得分别听闻其果报;然而,一切众生都必须随时间流转而走向毁灭。
13.193.21
तत्र दुर्गमनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः ।
दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम् ॥ १३.१९३.२१ ॥
抵达那艰难之路的人,被饥渴所折磨,燃烧而受苦;那里没有逃脱之处。
13.193.22
अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः ।
तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि सन्तरेत् ॥ १३.१९३.२२ ॥
愚昧之人走入可怕的黑暗与幽暗。我将在那里宣说能够超越艰难的法。
13.193.23
अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम् ।
पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः ॥ १३.१९३.२३ ॥
少量的花费带来大利益,死后则有幸福升起;水的神圣功德在鬼界尤其(有益)。
13.193.24
तत्र पुण्योदका नाम नदी तेषां विधीयते ।
अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम् ॥ १३.१९३.२४ ॥
那里为他们设定了一条名为“功德水”的河流;其水取之不尽,清凉,如同甘露。
13.193.25
स तत्र तोयं पिबति पीनीयं यः प्रयच्छति ।
प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः ॥ १३.१९३.२५ ॥
在那里布施明灯的人,可以饮用充足的水。请听布施明灯的功德之详述。
13.193.26
तमोन्धकारं नियतं दीपदो न प्रपश्यति ।
प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः।
देवताश्चानुमन्यन्ते विमलाः सर्वतो दिशः ॥ १३.१९३.२६ ॥
布施明灯的人,在浓重的黑暗中必定能看见;月亮、太阳与火为他赐予光明,诸神与四方清净之处都赞许他。
13.193.27
द्योततें च यथाऽऽदित्यः प्रेतलोकगतो नरः ।
तस्माद्दीपः प्रदातव्यः पानीयं च विशेषतः ॥ १३.१९३.२७ ॥
前往鬼界的人光辉如太阳;因此应当布施明灯,尤其要施予饮水。
13.193.28
कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे ।
पुष्करे च विशेषेण श्रूयतां तस्य यत्फलम् ॥ १३.१९३.२८ ॥
向精通吠陀的婆罗门布施一头赤褐色的迦毗罗牛,尤其是在普什卡罗——请听其果报。
13.193.29
गोशतं सवृषं तेन दत्तं भवति शाश्वतम् ।
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत्।
शोधयेत्कपिला ह्येका प्रदत्तं गोशतं यथा ॥ १३.१९३.२९ ॥
他所布施的一百头牛连同公牛便成为永恒之功德。无论何种罪业,即使等同于杀害婆罗门,唯有一头迦毗罗牛便能净化它,仿佛布施了一百头牛一般。
13.193.30
तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे ।
न तेषां विषमं किञ्चिन्न दुःखं न च कण्टकाः ॥ १३.१९३.३० ॥
因此,应在迦利阿日(卡提卡月圆日)于长老普什卡罗布施迦毗罗牛。对他们而言,既无灾厄,也无忧苦,亦无荆棘。
13.193.31
उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे ।
छत्रदाने सुखां छायां लभते परलोकगः ॥ १३.१९३.३१ ॥
若将鞋履施予合格的最上等婆罗门,并以伞盖为施,往生彼世者便得清凉的荫蔽。
13.193.32
न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन ।
चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः ॥ १३.१९३.३२ ॥
此间所施之布施,永不消亡。毗婆娑(火神)闻奇多笈多之教,喜悦得毛发竖立。
13.193.33
उवाच देवताः सर्वाः पितॄंश्चैव महाद्युतिः ।
श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः ॥ १३.१९३.३३ ॥
大光明者对诸天神与祖先说:“我已闻得大智者奇多笈多所传的法之秘义。”
13.193.34
श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु ।
दानमेतत्प्रयच्छन्ति न तेषां विद्यते भयम् ॥ १३.१९३.३४ ॥
凡怀信心,以此布施供养诸大德婆罗门者,无有恐惧。
13.193.35
धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः ।
असंभाष्या अनाचारा वर्जनीया नराधमाः ॥ १३.१९३.३५ ॥
此五种违背法之过失,于此无可赎除。行为败坏、卑劣之人,不应与之交谈,应当远离。
13.193.36
ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः ।
अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति ॥ १३.१९३.३६ ॥
杀害婆罗门者、杀牛者、贪恋他人之妻者、无信之人,以及依靠女人收入而活的人——
13.193.37
प्रेतलोकगता ह्येते नरके पापकर्मिणः ।
पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः ॥ १३.१९३.३७ ॥
这些作恶者已入幽界,在地狱中被烹煮,如同以脓血为食的鱼。
13.193.38
असम्भाष्याः पितॄणां च देवानां चैव पञ्च ते ।
स्नातकानां च विप्राणां ये चान्ये च तपोधनाः ॥ १३.१९३.३८ ॥
祖先与诸神、学成的沙陀迦与婆罗门,以及其他以苦行为财富者——这五类人不可与之交谈。