摩诃婆罗多 · 章 13.199
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.199.1
उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः ।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह ॥ १३.१९९.१ ॥
您已在各方面说明了可食与不可食之物。此处我有疑问与困惑,请告诉我,祖父。
13.199.2
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे ।
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे ॥ १३.१९९.२ ॥
特别是婆罗门在接受havya、kavya供物与各种食物时,请告诉我相应的赎罪之法。
13.199.3
हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम् ।
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः ॥ १३.१९९.३ ॥
好吧,国王,我将为你讲述伟大的婆罗门接受布施与饮食之事,借此可从罪恶中解脱。
13.199.4
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः ।
तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर ॥ १३.१९९.४ ॥
接受酥油时,诵念萨维特里真言并献上薪柴之供;接受芝麻时,同样如此,坚战。
13.199.5
मांसप्रतिग्रहे चैव मधुनो लवणस्य च ।
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः ॥ १३.१९९.५ ॥
接受肉、蜂蜜和盐时,婆罗门在日出时站立便得清净。
13.199.6
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् ।
कृष्णायसं च विवृतं धारयन्मुच्यते द्विजः ॥ १३.१९९.६ ॥
接受黄金后,诵念师尊所传的圣典,并佩戴外露的黑铁,再生者即得解脱。
13.199.7
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम् ।
एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे। ॥ १३.१९९.७ ॥
如此,当接受财物、衣物或女子之时,同样,人中最优者啊,接受黄金之时亦然。
13.199.8
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा ।
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम् ॥ १३.१९९.८ ॥
接受食物之时,以及牛奶米粥与甘蔗汁之时,还有甘蔗油等纯净之物,在三时辰于水中沐浴。
13.199.9
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा ।
यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम् ॥ १३.१९९.९ ॥
于稻谷、花、果、水及面粉制品之中,同样于大麦粥、酸奶与牛奶之中,诵念萨维特里真言一百遍。
13.199.10
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके ।
जपेच्छतं समायुक्तस्तेन मुच्यते पाप्मना ॥ १३.१९९.१० ॥
为丧葬之礼接受了鞋和伞之后,应当诵念一百遍;由此他便从罪恶中解脱。
13.199.11
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा ।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते ॥ १३.१९९.११ ॥
接受土地之时,以及日月食与产秽之时,同样禁食三夜,由此便从罪恶中解脱。
13.199.12
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः ।
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः ॥ १३.१९९.१२ ॥
在黑半月中食用祖先祭祀之食的再生者,这位婆罗门在一昼夜之内便得清净。
13.199.13
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत् ।
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः ॥ १३.१९९.१३ ॥
不应行晨昏之礼,也不应开始诵念,亦不应将那食物与他物混合;如此婆罗门方得清净。
13.199.14
इत्यर्थमपराङ्णे तु पितॄणां श्राद्धमुच्यते ।
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः ॥ १३.१९९.१४ ॥
为此,祖先的祭礼(śrāddha)规定在午后举行;前面所说的婆罗门,应照所说而食用。
13.199.15
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते ।
स त्रिवेलं समुन्मज्ज्य द्वादशाहेन शुध्यति ॥ १३.१९९.१५ ॥
若婆罗门在死者第三日进食,三次全身沐浴后,十二日即得清净。
13.199.16
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः ।
ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना ॥ १३.१९९.१६ ॥
十二日过后,尤其行过净身之礼,并向婆罗门奉献祭品,便可脱离那罪业。
13.199.17
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् ।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ॥ १३.१९९.१७ ॥
死后十夜之内,应令人行赎罪之礼:萨维特丽(Sāvitrī)、莱瓦蒂祭(Raivatī iṣṭi)、库什曼达(Kūśmāṇḍa)与阿格玛尔until(Aghamarṣaṇa)。
13.199.18
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते ।
सप्तत्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः ॥ १३.१९९.१८ ॥
若婆罗门于死者第三夜食用指定的(samuddiṣṭa)斋食,并沐浴七次加三次,便得清净。
13.199.19
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात् ॥ १३.१९९.१९ ॥
他获得成就,也不会遭遇巨大的灾祸。
13.199.20
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
अशौचं विधिवत्तस्य शौचमत्र विधीयते ॥ १३.१९९.२० ॥
婆罗门若与首陀罗同席共食,依规定便会染上不净;此处规定了他的净化之法。
13.199.21
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा ॥ १३.१९९.२१ ॥
婆罗门若与吠舍同席共食,经过三夜受戒后,便可借此仪式而解脱。
13.199.22
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना ॥ १३.१९९.२२ ॥
婆罗门若与刹帝利同席共食,应当穿着衣服沐浴,从而脱离那罪过。
13.199.23
शूद्रास्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् ।
क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् ॥ १३.१९९.२३ ॥
首陀罗的食物毁灭家族,吠舍的食物毁灭牲畜与亲族,刹帝利的食物毁灭吉祥,婆罗门的食物毁灭光辉。
13.199.24
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते ।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम्। ॥ १३.१९९.२४ ॥
应当行赎罪与安抚之仪,并作供奉之祭;由此便得解脱——以《萨维特丽》、《莱瓦蒂祭》、《库什曼达》与《阿伽马尔沙那》相随。
13.199.25
तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः ।
रोचना विरजा रात्रिर्मङ्गलालम्भनानि च ॥ १३.१९९.२५ ॥
同样,与他人共食剩余之食,无疑可以得到净化。罗遮那(rocanā)、无垢之夜,以及触摸吉祥之物,也能净化。