Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.2.1

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
श्रुतं मे महदाख्यानमिदं मतिमतांवर ॥ १३.२.१ ॥

祖父啊,大智者,精通一切经论,智者中的最佳者!我已听闻这部大传说。

13.2.2

भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप ।
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ॥ १३.२.२ ॥

国王啊,我希望再听您所说的那关于法与利的内容;请为我详细解说。

13.2.3

केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ।
इत्येतद्धर्ममाचक्ष्व तत्त्वेनापि च पार्थिव ॥ १३.२.३ ॥

哪一位居家者依靠法而战胜了死亡?国王啊,请如实地为我宣说这法。

13.2.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा मृत्यर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥ १३.२.४ ॥

关于此事,人们还引用这段古老的传说:一位居家者如何依靠法而战胜死亡。

13.2.5

मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः ।
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ १३.२.५ ॥

国王啊,从生主摩奴那里,伊刹婆迦作为儿子诞生;那位如太阳般光辉的国王生了一百个儿子。

13.2.6

दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत ।
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥ १३.२.६ ॥

婆罗多啊,他的第十个儿子名叫十马,那位心地正直、真正勇武的国王在摩醯湿摩提城为王。

13.2.7

दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः ।
सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ १३.२.७ ॥

达舍什婆之子是一位最为正法的国王,他的心始终喜好真实、苦行与布施。

13.2.8

मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः ।
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥ १३.२.८ ॥

这位名为摩提罗什婆的大地之主,始终专注于弓箭之学与吠陀。

13.2.9

मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः ।
महाभागो महातेजा महासत्वो महाबलः ॥ १३.२.९ ॥

摩提罗什婆之子名为迪尤提曼,是一位大福、大光明、大心力、大力量的国王。

13.2.10

पुत्रो द्युतिमतस्त्वासीद्राजा परमधार्मिकः ।
सर्वलोकेषु विख्यातः सुवीरो नाम नामतः।
धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥ १३.२.१० ॥

迪尤提玛之子名为苏毗罗,是一位最为正法的国王,闻名于一切世界,心怀正法,富有财宝,犹如另一位天王因陀罗。

13.2.11

सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः ।
दुर्जयो नाम विख्यातः सर्वशस्त्रभृतांवर ॥ १३.२.११ ॥

苏毗罗之子是杜尔贾耶,他在一切战斗中无可征服;以杜尔贾耶之名闻名,是一切执兵器者中最优秀的。

13.2.12

दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः ।
दुर्योधनो नाम महान्राजा राजर्षिसत्तमः ॥ १३.२.१२ ॥

杜尔贾耶之子身形如因陀罗,名为难敌,是一位大王,光辉如火,是王仙中的最优者。

13.2.13

तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः ।
विषये वासवस्तस्य सम्यगेव प्रवर्षति ॥ १३.२.१३ ॥

在那位与因陀罗勇力相当、战场上从不退缩的国王的领土上,婆娑婆(因陀罗)降雨充沛。

13.2.14

रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः ।
नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत् ॥ १३.२.१४ ॥

那时,他的城市和领土充满了珠宝、财富、牲畜和各种庄稼。

13.2.15

न तस्य विषये चाभूत्कृपणो नापि दुर्गतः ।
व्याधितो वा कृशो वाऽपरि तस्मिन्नाभून्नरः क्वचित् ॥ १३.२.१५ ॥

在他的领土上,没有吝啬的人,没有穷困潦倒的人,也没有病弱或消瘦的人;在那片领土上,哪里也找不到这样的人。

13.2.16

सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः ।
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥ १३.२.१६ ॥

他施舍慷慨、言语温和,没有嫉妒,克制感官,本性正直,不残忍,英勇,也不自夸。

13.2.17

यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः ।
न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥ १३.२.१७ ॥

他行祭祀,克己有度,聪慧,敬重婆罗门,信守诺言,不轻慢他人,乐于布施,精通吠陀及其支分。

13.2.18

तं नर्मदा देवनदी पुण्या शीतजला शिवा ।
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत ॥ १३.२.१८ ॥

婆罗多啊,神圣的天河纳尔玛达,水清凉而吉祥,出于自身的心意,爱上了那位人中虎。

13.2.19

तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना ।
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥ १३.२.१९ ॥

那时,在那条河中诞生了一位莲花眼的少女,名叫苏达尔舍那,o 国王,她的容貌也名副其实。

13.2.20

तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर ।
दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥ १३.२.२० ॥

युधिष्ठिर啊,以前女子中从未有过如杜尔约达纳之女那般容貌的人,那位肤色美丽的女子。

13.2.21

तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् ।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युति ॥ १३.२.२१ ॥

火神阿耆尼亲自爱慕那位王女苏达尔舍那,使自身形象光辉灿烂,犹如秋日太阳般的光彩。

13.2.22

सा चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया ।
नियुक्ता पितृसन्देशादारिराधयिषुः शिखिम् ॥ १३.२.२२ ॥

她决心侍奉,奉父亲之命,想要使火神欢喜,便住在国王的火神祭所中。

13.2.23

तस्या मनोहरं रूपं दृष्ट्वा देवो हुताशनः ।
मन्मथेन समादिष्टः पत्नीत्वे यतते मिथः ॥ १३.२.२३ ॥

火神见她容貌迷人,在爱神的驱使下,便设法想娶她为妻。

13.2.24

भज मामनवद्याङ्गि कामात्कमललोचने ।
रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने ॥ १३.२.२४ ॥

身体无瑕的女子啊,莲花眼的女子啊,芭蕉干般大腿的女子啊,小鹿般眼睛的女子啊,满月面容的女子啊,出于爱慕,就接近我吧。

13.2.25

भ्रूलताललितं कान्तमनङ्गो बाधते हि माम् ॥ १३.२.२५ ॥

你眉如藤蔓般柔美,爱神确实在折磨我。

13.2.26

ललाटं चन्द्ररेखाभं शिरोरुहविभूषितम् ।
दृष्ट्वा ते पत्रलेखान्तमनङ्गो बाधते भृशम् ॥ १३.२.२६ ॥

你的额头如月牙般,饰以秀发,直至叶纹之端,看见它,爱神大大折磨我。

13.2.27

बालातपेन तुलितं सस्वेदपुलकोद्गमम् ।
बिम्बाधरोष्ठवदनं विबुद्धमिव पङ्कजम्।
अतीव चारुविभ्रान्तं मदमावहते मम ॥ १३.२.२७ ॥

与晨阳相等,带着汗水与颤栗,唇如 bimba 果的面容,宛如初醒的莲花,极其可爱而迷乱——它使我陶醉。

13.2.28

दन्तप्रकाशनियता वाणी तव सुरक्षिता ।
ताम्रपल्लवसंकाशा जिह्वेयं मे मनोहरा ॥ १३.२.२८ ॥

你的言语因齿光而收敛,守护得很好;这条舌头如红色嫩芽,令我心醉。

13.2.29

समाः स्निग्धाः सुजाताश्च सहिताश्च द्विजास्तव ।
द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्यसि ॥ १३.२.२९ ॥

你的牙齿整齐、光滑、排列得当、紧密相连。爱慕婆罗门的人啊,请you喜悦,来到我这里;你确实有福。

13.2.30

मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम् ।
स्तनौ ते संहतौ भीरु हाराभरणभूषितौ ॥ १३.२.३० ॥

你的脸庞可爱迷人,眼角线条优美;胆怯的人啊,你的双乳饰以项链与首饰,紧紧相依。

13.2.31

पक्वबिल्वप्रतीकाशौ कर्कशौ सङ्गमक्षमौ ।
गम्भीरनाभिसुभगे भज मां वरवर्णिनि ॥ १३.२.३१ ॥

如同成熟的木橘果,坚实而适于结合,深深的肚脐使你美丽,美貌的女子啊,接受我吧。

13.2.32

सैवमुक्ता विरहिते पावकेन महात्मना ।
ईषदाकम्पहृदया व्रीडिता वाक्यमब्रवीत् ॥ १३.२.३२ ॥

伟大的阿耆尼如此说后,她心中微微颤抖,羞涩地说出了这些话。

13.2.33

नलु नाम कुलीनानां कन्यकानां विशेषतः ।
माता पिता प्रभवतः प्रदाने बान्धवाश्च ये ॥ १३.२.३३ ॥

的确,对于名门的少女而言,尤其是母亲、父亲以及有权许配她的亲族,才有决定之权。

13.2.34

पाणिग्रहणमन्त्रैश्च हुते चैव विभावसौ ।
सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः ॥ १३.२.३४ ॥

以执手的咒语,并在火中献祭之后,丈夫便是坐于善人之中的少女的依靠。

13.2.35

साऽहं नात्मवशा देव पितरं वरयस्व मे। ॥ १३.२.३५ ॥

神啊,我并不能自主;请向我的父亲求我吧。

13.2.36

अथ नातिचिराद्राजा कालाद्दुर्योधनस्तदा ।
यज्ञसम्भारनिपुणान्मन्त्रीनाहूय चोक्तवान्।
यज्ञं यक्ष्येऽहमिति वै सम्भारान्सम्भ्रियन्तु मे ॥ १३.२.३६ ॥

此后不久,国王难敌召集熟悉祭祀用品的大臣,说道:"我要举行祭祀;请为我备齐祭品。"

13.2.37

ततः समाहिते तस्य यज्ञे ब्राह्मणसत्तमैः ।
विप्ररूपी हुतवहो नृपं कन्यामयाचत ॥ १३.२.३७ ॥

当他的祭祀由最优秀的婆罗门准备就绪时,化身婆罗门的火神向国王求娶一名少女。

13.2.38

न तु राजा प्रदानाय तस्मै भावमकल्पयत् ।
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः। ॥ १३.२.३८ ॥

然而国王并无将她许配给他的打算,心想:“此人贫穷,且非我的种姓。”

13.2.39

इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः ।
अथ दीक्षामुपेतस्य यज्ञे तस्य महात्मनः।
आहितो हवनार्थाय वेद्यामग्निः प्रणश्यत ॥ १३.२.३९ ॥

如此,国王并无将少女许给他的意思。那时,在那位已受灌顶的大德的祭祀中,为献祭而设于祭坛上的火焰消失了。

13.2.40

ततः स भीतो नृपतिर्भृशं प्रव्यथितेन्द्रियः ।
मन्त्रिणो ब्राह्मणांश्चैव पप्रच्छ किमिदं भवेत्।
यज्ञे समिद्धो भगवान्नष्टो मे हव्यवाहनः ॥ १३.२.४० ॥

于是国王大为惊恐,心神慌乱,问众臣与婆罗门道:“这是怎么回事?在我的祭祀中燃起的尊贵火神竟然不见了!”

13.2.41

सम्मन्त्रकुशलैस्तैस्तैर्ब्राह्मणैर्वेदपारगैः ।
ऋत्विग्भिर्मन्त्रकुशलैर्यज्यतां वा हुताशनः ॥ १३.२.४१ ॥

愿由那些精通咒语、通晓吠陀的婆罗门,以及熟悉咒语的祭司来供奉火神。

13.2.42

अथ ऋक्सामयजुषां ब्राह्मणैर्वेदपारगैः ।
वेदतत्वार्थकुशलैस्ततः सोमपुरस्करैः ॥ १३.२.४२ ॥

随后,由精通《梨俱》《娑摩》《夜柔》三吠陀、通晓吠陀真义、以苏摩居首的婆罗门来主持。

13.2.43

गुह्यैश्च नामभिः सर्वैराहूतो हव्यवाहनः ।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥ १३.२.४३ ॥

被他所有的秘名呼唤,哈维耶瓦哈那(阿耆尼)使自己的形体光辉灿烂,其光芒如同秋日之太阳。

13.2.44

ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् ।
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥ १३.२.४४ ॥

于是大德的达哈那(阿耆尼)对那些婆罗门中的雄牛说:“我为自己求娶难敌之女。”

13.2.45

ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् ।
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥ १३.२.४५ ॥

于是所有婆罗门惊异地在黎明时起身,将祁多跋努(阿耆尼)所说的话禀告那位国王。

13.2.46

ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् ।
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥ १३.२.४६ ॥

于是那位智慧的国王听到诵吠陀的婆罗门之言,获得了无上的欢喜,说道:“就这样吧。”

13.2.47

अयाचत च तं शुल्कं भगवन्तं विभावसुम् ।
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति ॥ १३.२.४७ ॥

他向世尊毗婆娑(阿耆尼)索取聘礼,说:“哦,祁多跋努,愿您常驻于此。”

13.2.48

तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ।
ततः सान्निध्यमद्यापि माहिष्मत्यां विभावसोः
दृष्टं हि सहदेवेन दिशं विजयता च तत्। ॥ १३.२.४८ ॥

世尊阿耆尼对那位国王说:“就这样吧。”因此直到今日,在摩希什玛蒂仍可见到毗婆娑的那份临在,那是萨诃提瓦在征服四方时所见的。

13.2.49

ततस्तां समलङ्कृत्य कन्यामहतवाससम् ।
ददौ दुर्योधनो राजा पावकाय महात्मने ॥ १३.२.४९ ॥

于是国王难敌为这位少女盛装并穿上新衣,将她献给了大德的火神帕瓦卡(阿耆尼)。

13.2.50

प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम् ।
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥ १३.२.५० ॥

阿耆尼依照吠陀所规定的仪轨接纳了国王之女苏达尔舍娜,如同祭祀中瓦苏的供奉之流。

13.2.51

तस्या रूपेण शीलेन कुलेन वपुषा श्रिया ।
अभवत्प्रीतिमानग्निर्गर्भं चास्यां समादधे ॥ १३.२.५१ ॥

阿耆尼因她的容貌、品性、家世、身形与光彩而欢喜,遂在她体内孕育了胎儿。

13.2.52

तस्याः समभवत्पुत्रो नाम्नाऽग्नेयः सुदर्शनः ॥ १३.२.५२ ॥

她生下一子,名为苏达尔舍那,又名阿耆尼耶(火之子)。

13.2.53

सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः ।
शिशुरेवाध्यगात्सर्वं परं ब्रह्म सनातनम् ॥ १३.२.५३ ॥

苏达尔舍那容貌如满月,尚是孩童便通晓了全部永恒的至高梵。

13.2.54

अथौघवान्नाम नृपो नृगस्यासीत्पितामहः ।
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥ १३.२.५४ ॥

此外,那伽的祖父名为奥伽梵的国王;他有一女名奥伽梵蒂,一子名奥伽罗陀。

13.2.55

तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् ।
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥ १३.२.५५ ॥

奥伽梵亲自把容貌如神的女儿奥伽梵提嫁给博学的苏达尔沙纳为妻。

13.2.56

स गृहस्थाश्रमरतस्तया सह सुदर्शनः ।
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥ १३.२.५६ ॥

苏达尔沙纳热衷于居家生活,与奥伽梵提一同居住在俱卢之野,哦,国王。

13.2.57

गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो ।
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशाम्पते ॥ १३.२.५७ ॥

“即使身为居家者,我也要战胜死亡”——哦,主上,那位智慧、光焰炽盛的苏达尔沙纳如此立下誓愿,哦,众生之主。

13.2.58

तामेवौघवतीं राजन्स पावकसुतोऽब्रवीत् ।
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥ १३.२.५८ ॥

哦,国王,那位火神之子对她说:“你绝不可以任何方式违逆客人。”

13.2.59

येनयेन च तुष्येत नित्यमेव त्वयाऽतिथिः ।
अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ १३.२.५९ ॥

无论以何种方式,使客人总能因你而满意,即使把自己奉献出来,你也不应有任何犹豫。

13.2.60

एतद्व्रतं मम सदा हृदि सम्परिवर्तते ।
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम् ॥ १३.२.६० ॥

美丽的腰肢啊,我的这个誓愿始终在我心中萦绕:对于居家者而言,没有比客人更高的了。

13.2.61

प्रमाणं यदि वामोरु वचस्ते मम शोभने ।
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥ १३.२.६१ ॥

美股之人啊,光彩照人者,若我的话对你是准则,你便当始终不乱地将此言存于心中。

13.2.62

निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे ।
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥ १३.२.६२ ॥

吉祥之人啊,无过之人啊,即使我离去、你不在近旁,你也不可轻慢客人,若我的话对你是准则。

13.2.63

तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः ।
न मे त्वद्वचनात्किञ्चिन्न कर्तव्यं कथञ्चन ॥ १३.२.६३ ॥

奥伽瓦蒂合掌举于头顶,对他这样说:“依你的话,我绝不可做任何事。”

13.2.64

जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम् ।
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥ १३.२.६४ ॥

国王啊,那时死神欲胜善观,在屋内从后跟随他,寻找可乘之隙,那时乃至永远。

13.2.65

इध्मार्थं तु गते तस्मिन्नग्रिपुत्रे सुदर्शने ।
अतिधिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥ १३.२.६५ ॥

当火神之子善观去取柴薪时,一位尊贵的婆罗门客人便对奥伽瓦蒂说道。

13.2.66

आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि ।
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः ॥ १३.२.६६ ॥

肤色极美的女子啊,我今日愿受你的款待,若你所遵循的、合乎居家阶段的法,便是你的准则。

13.2.67

इत्युक्ता तेन विप्रेणि राजपुत्री यशस्विनी ।
विधिना प्रतिजग्राह वेदोक्तेन विशांपते ॥ १३.२.६७ ॥

婆罗门如此说后,这位名望显赫的公主依照吠陀所规定的仪式接受了他,人主啊。

13.2.68

आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये ।
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ १३.२.६८ ॥

奥伽瓦蒂为这位再生者奉上座位和洗足水后,对婆罗门说:“您有何所求?我该给您什么?”

13.2.69

तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् ।
त्वया ममार्थः कल्याणि निर्विशङ्कैतदाचर ॥ १३.२.६९ ॥

于是这位婆罗门对公主苏达尔沙娜说:“吉祥的人啊,我有一事需要你做;毫不犹豫地去做吧。”

13.2.70

यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः ।
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥ १३.२.७० ॥

若在家居生活中被认可的法是你的准则,王后啊,你应当以献出自己来成就我所喜爱的事。

13.2.71

स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया ।
नान्यमात्मप्रदानात्स तस्या वव्रे परं द्विजः ॥ १३.२.७१ ॥

尽管王女催促他索取其他想要的东西,这位再生者除了她献出自身,别无所选。

13.2.72

सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥ १३.२.७२ ॥

然而这位王女想起从一开始丈夫(父亲)的话,羞怯地对那位婆罗门中的俊杰说:“就照您说的吧。”

13.2.73

ततो विहस्य विप्रर्षिः सा चैवोपविवेश ह ।
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥ १३.२.७३ ॥

于是这位婆罗门中的仙人笑了笑,与她并坐,回想起渴望家居生活的丈夫的话语。

13.2.74

अथेध्मान्समुपादाय स पावकिरुपागमत् ।
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥ १३.२.७४ ॥

于是火神之子取了柴薪而来,身边伴随着性情可怖的死神,犹如一直相随的亲属。

13.2.75

ततस्त्वाश्रममागम्य स पावकसुतस्तदा ।
तां व्याजहारौघवतीं क्वासि यातेति चासकृत् ॥ १३.२.७५ ॥

于是火神之子来到静修处,对那充满激情洪流的她反复问道:“你到哪里去了?”

13.2.76

तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा ।
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥ १३.२.७६ ॥

那时她没有回答丈夫;那婆罗门用双手触碰了她,这位忠于丈夫的贞洁妻子便被他触碰了。

13.2.77

उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च ।
तूष्णींभूताऽभवत्साध्वी विप्रकोपाच्च शङ्किता ॥ १३.२.७७ ॥

她想着“我已被玷污”,因而羞愧,也在丈夫面前感到羞惭;这位贤德的妻子沉默不语,又因婆罗门的愤怒而惊惧。

13.2.78

अथ तां किन्विति पुनः प्रोवाच स सुदर्शनः ।
क्व सा साध्वी क्व सायाता गरीय किमतो मम ॥ १३.२.७८ ॥

于是那位俊美的仙人又对她说:“这是怎么回事?那位贤德的妻子在哪里?她从何处而来?对我来说,还有什么比这更重要?”

13.2.79

पतिव्रता सत्यशीला नित्यं चैवार्जवे रता ।
कथं न प्रत्युदेत्यद्य स्मयमाना यथापुरम् ॥ १३.२.७९ ॥

她是忠于丈夫的贤妻,性情真实,始终喜好正直。今日为何不像从前那样含笑前来迎接我?

13.2.80

उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् ।
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम् ॥ १३.२.८० ॥

站在草屋中的婆罗门回答苏达尔沙那说:“请知道来到的是一位客人;我就是婆罗门,连火也认识我。”

13.2.81

अनया छन्द्यमानोऽहं भार्यया तव सत्तम ।
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया ॥ १३.२.८१ ॥

善人中最优秀者啊,你的妻子以种种款待客人的方式恳请我;婆罗门啊,我选择的正是她。

13.2.82

आत्मप्रदानविधिना मामर्चति शुभानना ।
अनूरूपं यदत्रान्यत्तद्भवान्कर्तुमर्हति ॥ १३.२.८२ ॥

那容颜秀美的女子以奉献自身之礼敬我。此外若还有与此相称之事,那正是你应当做的。

13.2.83

कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वगात् ।
हीनप्रतिज्ञमत्रैवं वधिष्यामीति चिन्तयन् ॥ १३.२.८३ ॥

死神手持诡计之棒,紧随其后,心想:“此人在此誓言已破,我要杀了他。”

13.2.84

सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा ।
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥ १३.२.८४ ॥

然而苏达尔沙那在心、行、目、言上都舍弃了嫉妒,也舍弃了愤怒,含笑说出了这些话。

13.2.85

सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम ।
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥ १३.२.८५ ॥

婆罗门中最尊贵者,愿你安好;我心中甚为欢喜。居家者最高的法,便是礼敬到来的客人。

13.2.86

अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ १३.२.८६ ॥

若居家者所款待的客人欢喜而去,智者说,再没有比这更高的法了。

13.2.87

प्राणाश्च मम दाराश्च यच्चान्यद्विद्यते वसु ।
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥ १३.२.८७ ॥

我的生命、我的妻子,以及一切其他财物,都应当施给客人——这是我坚定持守的誓愿。

13.2.88

निःसन्दिग्धं यथा वाक्यमेतन्मे समुदाहृतम् ।
तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥ १३.२.८८ ॥

我所说的话毫无疑问是真实的。婆罗门啊,我以此真实为誓,以手触摸自身。

13.2.89

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥ १३.२.८९ ॥

地、风、空、水,第五是火;觉、我、意、时间与方位——这便是十种属性。

13.2.90

नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः ।
सुकृतं दुष्कृतं चापि कर्म कर्मवतांवर ॥ १३.२.९० ॥

栖居于身中者,常常目睹有身众生的善业与恶业。行业者中的最上者啊!

13.2.91

यथैषा नानृता वाणी मयाऽद्य समुदीरिता ।
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ १३.२.९१ ॥

我今日所说之言若非虚妄,愿诸神以此真实护佑我,或焚烧我。

13.2.92

ततो नादः समभवद्दिक्षु सर्वासु भारत ।
असकृत्सत्यमित्येवं नैतन्मिथ्येति सर्वतः ॥ १३.२.९२ ॥

于是,婆罗多啊,四面八方响起了声音,从各处反复传来:“此是真实,此非虚妄。”

13.2.93

उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः ।
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः ॥ १३.२.९३ ॥

于是那婆罗门从茅屋中走出,以其身形遍满天地,如同升起的风。

13.2.94

स्वरेण विप्रः शैक्षेण त्रींल्लोकाननुनादयन् ।
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥ १३.२.९४ ॥

他以学者的声音,震响三界,先呼唤精通法的人之名,然后对他说道。

13.2.95

धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ ।
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ १३.२.९५ ॥

我即是法;愿你安好。无瑕之人啊,我前来考验你。知晓你的真实之后,我对你生起了至高的爱慕。

13.2.96

विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति ।
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥ १३.२.९६ ॥

这个跟随你、时时在你身上寻找空隙的死亡,你已战胜;以坚定,你已将它降伏。

13.2.97

न चास्ति शक्तिस्त्रैलोक्ये कस्य चित्पुरुषोत्तम ।
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥ १३.२.९७ ॥

至上之人啊,三界之中无人有力量,即使在你面前,也不敢正眼看这位忠贞贤淑的妇人。

13.2.98

रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणैस्तथा ।
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ १३.२.९८ ॥

她受到你的德行和她自己的忠贞美德的庇护,因此无人能够侵犯;她若说出什么,那话必不会落空。

13.2.99

एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी ।
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥ १३.२.९९ ॥

她以自己的苦行而具足,是说梵之人,将成为净化世界的最殊胜之河。

13.2.100

अर्धेनौघवती नाम त्वामर्धेनानुयास्यति ।
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः।
अनया सह लोकांश्च गन्ताऽसि तपसार्जितान् ॥ १३.२.१०० ॥

名为奥伽伐蒂的她,将以半个身体跟随你。大福者啊,她的瑜伽掌握在她的控制之中;你将与她一同前往以苦行所得的诸世界。

13.2.101

यत्र नावृत्तिमभ्येति शाश्वतांस्ताननुत्तमान् ।
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे ॥ १३.२.१०१ ॥

那些无有返回的永恒至上诸世界,你将以此身得到。

13.2.102

निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ।
पञ्चभूतान्यतिक्रान्तः स्ववीर्याच्च मनोजवः। ॥ १३.२.१०२ ॥

你已战胜死亡,你的权威至上;凭借自身的力量,你超越了五大元素,你的速度如心念一般迅捷。

13.2.103

गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ।
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः।
तव शुश्रूषया राजन्राजपुत्र्या च निर्जिताः ॥ १३.२.१०३ ॥

凭借这家居之法,你已战胜了欲望与愤怒。亲情、贪著、懈怠、迷惑与恶意也都被完全战胜。大王啊,靠你的侍奉和王女,这一切都已被征服。

13.2.104

शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् ।
युक्तं प्रगृह्य भगवान्वासवोप्याजगाम तम् ॥ १३.२.१०४ ॥

世尊因陀罗也驾着一辆由千匹白马驾驭的上好战车前来见他。

13.2.105

मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च ।
बुद्धिः कालो मदो मोहः कामक्रोधौ तथैव च ॥ १३.२.१०५ ॥

死亡、自我、诸世界、五大元素、智慧、时间、骄慢、迷惑,以及欲望与愤怒,也都已被征服。

13.2.106

तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै ।
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥ १३.२.१०६ ॥

因此,住在家居阶段的人,除了客人之外,别无其他神明。人中之虎啊,请用心思量此事。

13.2.107

अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम् ।
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीपिण ॥ १३.२.१०७ ॥

当客人受到尊敬,人心专注思念吉祥之事时,智者说,这甚至不及百次祭祀。

13.2.108

सुदत्तं सुकृतं वाऽपि कम्पयेदप्यनर्चितः ॥ १३.२.१०८ ॥

未受礼遇的客人,即使能扰动善施的布施与善做的功德。

13.2.109

पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् ।
स दत्त्वा तुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १३.२.१०९ ॥

若遇有德行的贤良客人而不加礼敬,即使只以微薄之物施舍,他仍能获得功德而去。

13.2.110

एतत्ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम् ।
यथा हि विजितो मृत्युर्गृहस्थेन पुराऽभवत् ॥ १३.२.११० ॥

孩子,我已将这无上的故事讲给你听:往昔一位居家者是如何战胜死亡的。

13.2.111

धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् ।
बुभूषताऽभिमन्तव्यं सर्वदुश्चरितापहम् ॥ १३.२.१११ ॥

此无上故事能带来财富、名声与长寿。欲求兴旺者应当敬重它,因为它能消除一切恶行。

13.2.112

इदं यः कथयेद्विद्वानहन्यहनि भारत ।
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥ १३.२.११२ ॥

婆罗多啊,有智者每日诵说善见的事迹,便能获得功德之界。