Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.201

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.201.1

श्रुतं मे भवतस्तात सत्यव्रतपराक्रम ।
दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः ॥ १३.२०१.१ ॥

尊贵的父亲啊,您以真誓与勇武著称,我曾从您那里听闻:诸王因伟大的布施之法而升入天界。

13.201.2

इमांस्तु श्रोतुमिच्छामि ध्रमान्धर्मभृतांवर ।
दानं कतिविधं देयं किं तस्य च फलं लभेत् ॥ १३.२०१.२ ॥

我愿听闻这些持法者的法则,啊,最优秀者。布施有几种?应当施予什么?它的果报又是什么?

13.201.3

कथं केभ्यस्च धर्म्यं च दानं दातव्यमिष्यते ।
कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः ॥ १३.२०१.३ ॥

布施应当如何、依法施予何人?出于何种缘由、有几种,我想如实听闻。

13.201.4

शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ ।
यथा दानं प्रदातव्यं सर्ववर्णेषु भारत ॥ १३.२०१.४ ॥

贡提之子啊,无垢者,请如实听我讲布施之事。婆罗多之后啊,应当如何向一切种姓施予。

13.201.5

धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत ।
दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत् ॥ १३.२०१.५ ॥

出于法、出于财、出于恐惧、出于欲望、出于慈悲,婆罗多之后啊,布施应知有五种。请听其所由的缘故。

13.201.6

इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ।
इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता ॥ १३.२०१.६ ॥

此世获得名声,死后得到无上之乐。如此,应当无嫉妒地向婆罗门布施。

13.201.7

ददाति वा दास्यति वा मह्यं दत्तमनेन वा ।
इत्यर्तिभ्यो निशम्यैव सर्वं दातव्यमर्थिने ॥ १३.२०१.७ ॥

“他给予,或将给予,或已由他给予我”——如此听闻困苦者之后,应当将一切施予求者。

13.201.8

नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः ।
इति दद्याद्भयादेव दृढं मूढाय पण्डितः ॥ १३.२०१.८ ॥

“我不属于他,他也不属于我;若受辱,愿他不作恶”——如此思虑,仅因畏惧,智者也应坚定地施予愚人。

13.201.9

प्रियो मे यं प्रियोऽस्याहमिति सम्प्रेक्ष्य बुद्धिमान् ।
वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः ॥ १३.२०१.९ ॥

“我所爱的人也爱我”——如此思量之后,智者应当以这样的方式、无忧无倦地施予朋友。

13.201.10

दीनश्च याचते चायमल्पेनापि हि तुष्यति ।
इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा ॥ १३.२०१.१० ॥

“此人贫困而乞求,即使少许也感满足”——如此思量,应当出于怜悯,以各种方式施予贫穷者。

13.201.11

इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम् ।
यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः ॥ १३.२०१.११ ॥

如此五种布施,能增长功德与名声,应当量力而施——生主如是说。