Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.203

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.203.1

अयं नारायणः श्रीमान्पुत्रार्थे व्रतकाङ्क्षया ।
दीक्षितोऽभून्महाबाहुः पुरा द्वादशवार्षिकम् ॥ १३.२०३.१ ॥

这位光辉的那罗延,为求子而发愿,曾在往昔受戒十二年,他是大臂者。

13.203.2

दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः ।
सेवित्वा च महात्मानः प्रीयमाणं जनार्दनम् ॥ १३.२०३.२ ॥

大仙人们前去拜见受戒的克舍婆;服侍那欢喜的遮那陀那之后,诸大德……

13.203.3

नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा ।
देवलः काश्यपश्चैव हस्तिकाश्यप एव च।
जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च ॥ १३.२०३.३ ॥

那罗陀、波哩婆多、黑克利须那·二岐衍那、提婆罗、迦叶波、象迦叶波;大王啊,还有遮摩陀吉、达乌摩耶和蚁垤。

13.203.4

अपरेऽपि तपःसिद्धाः सत्यव्रतपरायणाः ।
शिष्यैरनुगताः सर्वे ब्रह्मविद्भिरकल्मषैः ॥ १३.२०३.४ ॥

其他人也都由于苦行而成就,专注于真实誓言,都带着弟子前来,皆为梵知者,无垢无染。

13.203.5

केशवस्तानभिगतान्प्रीत्या सम्परिगृह्य च ।
तेषामतिथिसत्कारं पूजनार्थं कुलोचितम्।
देवकीतनयो हृष्टो देवतुल्यमकल्पयत् ॥ १३.२०३.५ ॥

克舍婆亲切地接纳了所有前来的人,为了供养他们,提婆吉之子欣然安排了与家族相称、如同诸神一般的待客之礼。

13.203.6

उपविष्टेषु सर्वेषु विष्टरेषु तदाऽनघ ।
विश्वस्तेष्व्नभितुष्टेषु केशवार्चनया पुनः ॥ १३.२०३.६ ॥

无罪者啊,那时众人都已在座位上坐定,安然自在,却仍未因供养克舍婆而再次完全满足。

13.203.7

परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः ।
विष्णोर्नारायणस्यैव प्रसादात्कथयामि ताः ॥ १३.२०३.७ ॥

彼此之间开始了神圣而迷人的故事;蒙毗湿奴那罗延的恩典,我将讲述它们。

13.203.8

तस्यैव व्रतचर्यायां मुनिभिर्विस्मितं पुरा ।
यत्र गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः ॥ १३.२०३.८ ॥

昔日在他的修行誓约中,诸仙人为之惊叹;那里显现了这位以公牛为标记的大德的威力。

13.203.9

यत्र देवी महादेवमपृच्छत्संशयान्पुरा ।
कथयामास सर्वांस्तान्देव्याः प्रियचिकीर्षया ॥ १३.२०३.९ ॥

昔日女神向摩訶提婆请教疑惑,他为了让女神欢喜,将所有疑问都一一解说。

13.203.10

उमापत्योश्च संवादं शृणु तात मनोरमम् ।
वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः ॥ १३.२०३.१० ॥

孩子,请听那湿婆与乌玛之间美妙的对话;其中讲述了种姓与生活阶段的法。孩子,请专心听。

13.203.11

ऋषिधर्मश्च निखिलो राजधर्मस्च पुष्कलः ।
गृहस्थधर्मश्च शुभः कर्मपाकफलानि च ॥ १३.२०३.११ ॥

仙人的全部法、国王的丰富之法、家主的吉祥之法,以及业报成熟的果实。

13.203.12

देवगुह्यं च विविधं दानधर्मविधिस्तथा ।
विधानमत्र प्रोक्तं यद्यमस्य नियमस्य च ॥ १३.२०३.१२ ॥

诸神的秘密与种种布施之法的规则;此处亦宣说了关于夜摩与戒律的规定。

13.203.13

यमलोकविधानं च स्वर्गलोकगतिस्तथा ।
प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला ॥ १३.२०३.१३ ॥

阎摩界的规定与升往天界的道路,命气解脱的仪轨,以及巡礼圣渡口的修行,都有详细的说明。

13.203.14

मोक्षधर्मविधानं च साङ्ख्ययोगसमन्वितम् ।
स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः ॥ १३.२०३.१४ ॥

解脱法的规定与融合数论、瑜伽的教导,以及女性之法——这些是女神亲自向众神之神所说的。

13.203.15

एवमादि शुभं सर्वं तत्र तात समाहितम् ।
रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते ॥ १३.२०३.१५ ॥

所有这些吉祥之事都汇集于此,孩子;正是在这里,楼陀罗尼提出了疑问。

13.203.16

धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम् ।
पुष्टियोगमिमं दिव्यं कथ्यमानं मया शृणु ॥ १३.२०३.१६ ॥

我所讲的这吉祥增益之瑜伽,能带来财富、名声、长寿、法与至上利益;请听。

13.203.17

इतिहासमिमं दिव्यं पवित्रं परमं शुभम् ।
सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता ॥ १३.२०३.१७ ॥

这部神圣、清净、至上而吉祥的史诗,希望繁荣的人应当早晚恭敬地常常聆听。

13.203.18

ततो नारायणो देवः संक्लिष्टो व्रतचर्यया ।
वह्निर्विनिःसृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः ॥ १३.२०३.१८ ॥

那时,因持守誓愿而疲惫的神那罗延,看见一团形象奇妙的火从黑天口中涌出。

13.203.19

अग्निना तेन महता निःसृतेन मुखाद्विभोः ।
पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः ॥ १३.२०३.१९ ॥

那从大能者口中喷出的巨大火焰,在众人眼前将那座最高的山烧成了灰烬。

13.203.20

मृगपक्षिगणाकीर्णः श्वापदैरपि सङ्कुलः ।
वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः ॥ १३.२०३.२० ॥

那座山上鹿群与鸟群充斥,猛兽聚集,树木、灌丛与藤蔓遍布,如今被焚毁、蹂躏,显得凄惨可怜。

13.203.21

पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा ।
स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः ॥ १३.२०३.२१ ॥

随后,怀着慈和之心的哈里再次注视它,那座山便很快化作了一片繁花盛开的树林。

13.203.22

सिद्धचारणसङ्घैश्च प्रसन्नैरुपशोभितः ।
मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः।
तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम् ॥ १३.२०३.२२ ॥

欢喜的悉陀与遮罗那众围绕装点,与发狂的大象相伴,并有各种飞鸟成群。这奇妙而不可思议的景象,让所有人都极为惊叹。

13.203.23

तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास्तदा ।
विस्तिताः परमायत्ताः साध्यसाकुललोचनाः।
न किञ्चिदब्रुवंस्तत्र शुभं वा यदि वेतरत् ॥ १३.२०३.२३ ॥

众仙人见此,个个毛发竖立,惊叹不已,全神贯注,双目迷惘;在那里,他们一句话也没有说,既无吉言,也无凶语。

13.203.24

ततो नारायणो देवो मुनिसङ्घे तु विस्मिते ।
तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः ॥ १३.२०३.२४ ॥

那时,众仙人惊异之际,莲花眼的神那罗延看着他们,温和地开口说话。

13.203.25

किमर्थं मुनिसङ्घेऽस्मिन्विस्मयोऽयमनुत्तमः ।
एतन्मे संशयं सर्वे याथातथ्येन नन्दिताः।
ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः ॥ १३.२०३.२५ ॥

这群贤者之中为何有如此无与伦比的惊异?诸位欢喜的仙人,精通义理,你们理应如实而确定地解答我的这一疑问。

13.203.26

केशवस्य वचः श्रुत्वा तुष्टुवुर्मुनिपुङ्गवाः ।
भवान्सृजति वै लोकान्भवान्संहरति प्रजाः।
भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः ॥ १३.२०३.२६ ॥

诸位最优秀的仙人听了克舍婆的话,便赞颂他:你创造众世界,你收回众生;你是寒冷,你是炎热,你是真理,你是祭祀。

13.203.27

भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते ।
स्थावरं जङ्गमं सर्वं त्वमेव पुरुषोत्तम ॥ १३.२०३.२७ ॥

你是始,你是终;除你之外,别无他物。一切不动与动的,唯有你,最高的人啊。

13.203.28

त्वत्तः सर्वमिदं तात लोकचक्रं प्रवर्तते ।
त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम् ॥ १३.२०३.२८ ॥

亲爱的,这整个世界之轮皆由你而运行。唯有你才配讲述火从口中生出的那件事。

13.203.29

एतन्नो विस्मयकरं बभूव मधुसूदन ।
ततो विगतसंत्रासा भवाम पुरुषोत्तम।
यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः ॥ १३.२०३.२९ ॥

杀摩图者啊,这使我们感到惊异。那么,我们已无惧,人中最上者啊,愿你所欲者便在那里说出;若无你的命令,我们怎敢言说?

13.203.30

नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः ।
तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः ॥ १३.२०३.३० ॥

你们总是为世界的福祉而修苦行。因此请听这个有益于世界的秘密,我告诉你们。

13.203.31

असुरः साम्प्रतं कश्चिदहितो लोकनाशनः ।
मायास्त्रकुशलश्चैव बलदर्पसमन्वितः ॥ १३.२०३.३१ ॥

如今有一个阿修罗,怀有敌意,是世界的毁灭者,精通幻术之武器,充满力量的傲慢。

13.203.32

बभूव स मया बद्धो लोकानां हितकाम्यया ।
पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुङ्गवाः ॥ १३.२०३.३२ ॥

我出于对世界福祉的愿望把他束缚了;而他的被杀,由我的儿子所见,诸位最优秀的圣人啊。

13.203.33

तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः ।
आत्मनः सदृशं पुत्रमहं जनयितुं व्रतैः ॥ १३.२०३.३३ ॥

正为此,我来到森林,想要创造一个儿子,以誓愿生出一个与我相似的儿子。

13.203.34

एवं व्रतपरीतस्य तपस्तीव्रतया मम ।
अथात्मा मम देहस्थः सोग्निर्भूत्वा विनिःसृतः ॥ १३.२०३.३४ ॥

这样,由于我修苦行的猛烈,被誓愿所包围,我身中的自我化为火而出现了。

13.203.35

विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम् ।
ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वेन प्रकल्पितः।
अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम् ॥ १३.२०३.३५ ॥

他出来后,一瞬间便去拜见祖父梵天。梵天任命无身的摩曼陀为儿子;得到他的许可,他又回到了我的面前。

13.203.36

एवं मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् ।
तत्तेजसा निर्मथितः पुरतोऽयं गिरिः स्थितः ॥ १३.२०३.३६ ॥

如此,从我口中发出的毗湿奴之光,被此光所摧毁,这座山便矗立在前方。

13.203.37

दृष्ट्वा दाहं गिरेस्तस्य सौम्यभावतया मम ।
पुनः स दृष्टमात्रेण गिरिरासीद्यथा पुरा ॥ १३.२०३.३७ ॥

我见那山被焚烧,因我心性温和,它一经再见便恢复了从前的模样。

13.203.38

एतद्गुह्यं यथातथ्यं कथितं वः समासतः ।
भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः ॥ १३.२०३.३८ ॥

此秘密已照其实情简要地告诉了你们,因此你们这些苦行富足者感到困扰和惊讶。

13.203.39

ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत ॥ १३.२०३.३९ ॥

对诸位仙人如此说后,他又回答了他们。