摩诃婆罗多 · 章 13.204
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.204.1
भवतां दर्शनादेव प्रीतिरभ्यधिका मम ।
भवन्तस्तु तपःसिद्धा भवन्तो दिव्यदर्शनाः ॥ १३.२०४.१ ॥
仅仅见到你们,我便更加欢喜。你们因苦行而成就,具有天眼。
13.204.2
सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः ।
गत्यागतिज्ञा लोकानां सर्वे निर्दूतकल्मषाः ॥ १३.२०४.२ ॥
你们遍行各处,浸润于知识与智慧,通晓世界的往来,全都已消除罪垢。
13.204.3
तस्माद्भवद्भिर्यत्किंचिदृष्टं वाऽप्यथवा श्रुतम् ।
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे ॥ १३.२०४.३ ॥
因此,你们在世间所见或所闻的任何奇异之事,请告诉我。
13.204.4
युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः ।
तस्यादमृतसंकाशं वाङ्मधुश्रवणे स्पृहा ॥ १३.२०४.४ ॥
你们以苦行净化了心性,所说的任何话都如甘露一般;我渴望听闻你们言语的甘甜。
13.204.5
रागद्वेषवियुक्तानां सततं सत्यवादिनाम् ।
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् ॥ १३.२०४.५ ॥
远离爱憎、常说真话的善人之言,确实值得信赖,也值得聆听。
13.204.6
तत्संयोगं हितं मेऽस्तु न वृथा कर्तुमर्हथ ।
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम ॥ १३.२०४.६ ॥
愿这次相遇对我有益,你们不应使之徒劳。因此愿你们的相见对我有所成就。
13.204.7
तदहं सज्जनमुखान्निःसृतं जनसंसदि ।
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम् ॥ १३.२०४.७ ॥
因此,我将以智慧在众人之会中宣说那从善人之口出的教导,它能点亮世人的智慧之灯。
13.204.8
तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे ।
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनाः ॥ १३.२०४.८ ॥
届时,有人会弘扬它,有人会礼敬它,而那些无慈爱的古老者会赞美它。
13.204.9
एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः ।
वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम् ॥ १३.२०४.९ ॥
当戈文达如此说时,为了聆听,大仙人们合掌以言语为花环,向遮那陀那说道:
13.204.10
अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम् ।
त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः ॥ १३.२०४.१० ॥
赐福者啊,你如此对我们说话是不合宜的;我们都以你的命令为首,我们的辛劳皆系于你。
13.204.11
एवं पूजयितुं चास्मान्न चैवार्हसि केशव ।
त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते।
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम् ॥ १३.२०४.११ ॥
啊,羯舍婆,你如此礼敬我们是不相宜的;我们除你之外不见他者,世间没有任何东西不属于你。天上地下所有的一切,都为你所遍满。
13.204.12
न विद्महे वयं देव कथ्यमानं तवान्तिके ।
एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत् ॥ १३.२०४.१२ ॥
天神啊,我们不知道在你面前所说的是什么。被如此询问后,希利希盖沙面带微笑说道。
13.204.13
अहं मानुषयोनिस्थः साम्प्रतं मुनिपुङ्गवाः ।
तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः।
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत् ॥ १३.२०४.१३ ॥
我现今处于人身之中,诸位最优秀的仙人。因此,请知我的力量如同人的力量,诸位持善誓者;经你们讲述,那将显得前所未有。
13.204.14
एवं संचोदिताः सर्वे केशवेन महात्मना ।
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम् ॥ १३.२०४.१४ ॥
如此受大灵魂的克舍婆激励,所有仙人都遵从婆苏提婆的命令。
13.204.15
ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम् ।
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने ॥ १३.२०४.१५ ॥
于是诸仙众皆有智慧,认为能见神明的那罗陀足以理解此事。
13.204.16
ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम् ।
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे ॥ १३.२०४.१६ ॥
此仙人苦行猛烈,极受克舍婆喜爱,精通往世书且善辩;因此诸仙推重他。
13.204.17
सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन् ॥ १३.२०४.१७ ॥
众仙向那罗陀致以敬意之后,共同说了这些话。
13.204.18
भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ ।
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम् ॥ १३.२०४.१८ ॥
你在喜马拉雅山中为朝圣而游行时所见的奇迹,最受听者喜爱。
13.204.19
अतस्त्वमविशेषेण हितार्थं सर्वमादितः ।
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति ॥ १३.२०४.१९ ॥
因此你应不加区分,为了众生的利益,从头将一切讲述出来,以使这位羯舍婆欢喜。
13.204.20
तदा संयोजितः सर्वैर्ऋषिभिर्नारदस्तदा ।
प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम्।
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे ॥ १३.२०४.२० ॥
那时,众仙人聚集在一起的那罗陀,低首礼敬致力于一切世界利益的毗湿奴,注视着希利史迦,开始讲述。
13.204.21
ततो नारायणसुहृन्नारदो वदतांवरः ।
शङ्करस्योमया सार्धं संवादमनुभाषत ॥ १३.२०४.२१ ॥
于是,那罗延之友、辩才中最殊胜的那罗陀,叙述了湿婆与乌玛的对话。