摩诃婆罗多 · 章 13.205
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.205.1
भगवंस्तीर्थयात्रार्थं तथैव चरता मया ।
दिव्यमद्भुतसङ्काशं दृष्टं हैमवतं वनम् ॥ १३.२०५.१ ॥
尊者啊,我为朝圣圣地而游历时,看见了喜马拉雅那片神圣奇妙的森林。
13.205.2
नानावृक्षसमायुक्तं नानापक्षिगणैर्वृतम् ।
नानरत्नगणाकीर्णं नानाभावसमन्वितम् ॥ १३.२०५.२ ॥
那里有各种各样的树木,被各种鸟群环绕,遍布各种宝石堆,充满种种景象。
13.205.3
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ।
दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन वासितम् ॥ १३.२०५.३ ॥
那里有神圣的檀香,以神圣的熏香熏染,遍布神圣的花朵,并弥漫着神圣的香气。
13.205.4
सिद्धचारणसंघातैर्भूतसङ्घैर्निषेवितम् ।
वरिष्ठाप्सरसाकीर्णं नागगन्धर्वसङ्कुलम् ॥ १३.२०५.४ ॥
悉陀与遮罗的众群和鬼神之众常来侍奉,其中充满了最殊胜的天女,并有那伽与乾闼婆聚集。
13.205.5
मृदङ्गमुरजोद्धुष्टं शङ्खवीणाभिनादितम् ।
नृत्यद्भिर्भूतसङ्घैश्च सर्वतस्त्वभिशोभितम् ॥ १३.२०५.५ ॥
那里鼓声麾动,穆冉伽与穆罗阇鼓声齐鸣,海螺与琵琶声回荡,四面有跳舞的鬼神之众,庄严辉煌。
13.205.6
नानारूपैर्विरूपैश्च भीमरूपैर्भयानकैः ।
सिंहव्याघ्रोरगमृगैर्बिडालवदनैस्तथा ॥ १३.२०५.६ ॥
那里充满形态各异、丑陋可怖、令人恐惧的生灵,还有狮子、老虎、蛇与鹿,以及猫面的生灵。
13.205.7
स्वरोष्ट्रद्वीपिवदनैर्गजवक्त्रैस्तथैव च ।
उलूकश्येनवदनैः काकगृध्रमुखैस्तथा ॥ १३.२०५.७ ॥
有驴、骆驼、豹子之脸的,同样有象脸的,有猫头鹰和鹰隼之脸的,有乌鸦和秃鹫之脸的。
13.205.8
एवं बहुविधाकारैर्भूतसङ्घैर्भृशाकुलम् ।
नानद्यमानं बहुधा हरपारिषदैर्भृशम् ॥ १३.२०५.८ ॥
如此,充满了各式各样形体的鬼怪群众,被哈罗的随从们以多种方式喧嚷着。
13.205.9
घोररूपं सुदुर्दर्शं रक्षोगणशतैर्वृतम् ।
समाजं तद्वने दृष्टं मया भूतपतेः पुरा ॥ १३.२०५.९ ॥
那个形貌可怖、极难看见、被数百群罗刹所围绕的集会,我从前在那片森林里见过,属于众生之主。
13.205.10
प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम् ।
प्रथमे वर्षरात्रे तु मेघसङ्घनिनादितम् ॥ १३.२०५.१० ॥
神圣,有舞动的天女,充满诸神与乾闼婆的歌声,在雨季的第一夜,回荡着云团的雷鸣。
13.205.11
नानाबर्हिणसंघुष्टं गजयूथसमाकुलम् ।
षट्पदैरुपगीतं च प्रथमे मासि माधवे ॥ १३.२०५.११ ॥
回响着众多孔雀的鸣叫,挤满了象群,被蜜蜂吟唱,在春天的第一个月,即摩陀婆月。
13.205.12
उत्क्रोशत्क्रौञ्चकुररैः सारसैर्जीवजीवकैः ।
मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम् ॥ १३.२०५.१२ ॥
鹤与鹗鸣叫,有鹤、鸽子般的sārasa鸟与jīvajīvaka鸟,醉醺醺的杜鹃鸣叫,充满其间。
13.205.13
उत्तमावाससङ्काशं भीमरूपतरं ततः ।
द्रष्टुं भवति धर्मस्य धर्मभागिजनस्य च ॥ १३.२०५.१३ ॥
它如同至高的居所,形貌极为可怖;那时,它便可供法及分享法者观看。
13.205.14
ये चोध्वरेतसः सिद्धास्तत्रतत्र समागताः ।
मार्ताण्डरश्मिसञ्चारा विश्वेदेवगणास्तथा ॥ १३.२०५.१४ ॥
那些精液向上升华的成就者到处聚集,行于日光之中的诸毗湿伐提婆众也同样到来。
13.205.15
तथा नागास्तथा दिव्या लोकपाला हुताशनाः ।
वाताश्च सर्वे चायान्ति दिव्यपुष्पसमाकुलाः ॥ १३.२०५.१५ ॥
同样,诸龙、天上的世界守护者、火神以及一切风神也都来了,满载着天界之花。
13.205.16
किरन्तः सर्वपुष्पाणि किरन्तोऽद्भुतदर्शनाः ।
ओषध्यः प्रज्वलन्त्यश्च द्योतयन्त्यो दिशो दश ॥ १३.२०५.१६ ॥
撒下各种花朵,形象奇妙可观,而发光的草药照亮了十方。
13.205.17
विहगाश्च मुदा युक्ता नृत्यन्ति च नदन्ति च ।
ततः समन्ततस्तत्र दिव्या दिव्यजनप्रियाः ॥ १३.२०५.१७ ॥
飞鸟满心欢喜,又舞又鸣;于是四周皆有为天界众生所喜爱的天神。
13.205.18
तत्र देवो गिरितटे हेमधातुविभूषिते ।
पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः ॥ १३.२०५.१८ ॥
在饰以黄金矿藏的山坡上,那位大光明的天神端坐其中,如宝座般光辉灿烂。
13.205.19
व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः ।
व्यालयज्ञोपवीतश्च लोहितान्त्रविभूषितः ॥ १३.२०५.१९ ॥
身穿虎皮衣,以象皮为上衣,以毒蛇为圣线,并以红色的肠子作装饰。
13.205.20
हरिश्मश्रुजटो भीमो भयकर्ताऽमरद्विषाम् ।
भयहेतुरभक्तानां भक्तानामभयङ्करः ॥ १३.२०५.२० ॥
可怖者,须发与发辫皆呈赭黄色;令诸神之敌生畏,令不敬者惧怕,却为虔诚者赐予无畏。
13.205.21
किन्नरैर्देवगन्धर्वैः स्तूयमानस्ततस्ततः ।
ऋषिभिश्चाप्सरोभिश्च सर्वतश्चैव शोभितः ॥ १३.२०५.२१ ॥
被紧那罗、天神与乾达婆从各处赞颂,又被仙人与阿普萨拉斯环绕在四方,光彩焕发。
13.205.22
तत्र भूतपतेः स्थानं देवदानवसङ्कुलम् ।
सर्वतेजोमयं भूम्ना लोकपालनिषेवितम् ॥ १३.२०५.२२ ॥
那里是众生之主的居所,充满诸神与檀那婆,全由光明构成,又受到世界守护者的众多侍奉。
13.205.23
महोरगसमाकीर्णं सर्वेषां रोमहर्षणम् ।
भीमरूपमनिर्देश्यमप्रधृष्यतमं विभोः ॥ १३.२०५.२३ ॥
布满大蛇,令一切人毛发竖立;形貌可怖,不可言说,对于主宰者而言最为不可侵犯。
13.205.24
तत्र भूतपतिं देवमासीनं शिखरोत्तमे ।
ऋषयो भूतसङ्घाश्च प्रणम्य शिरसा हरम्।
गीर्भिः परमशुद्धाभिस्तुष्टुवुस्च मनोहरम् ॥ १३.२०५.२४ ॥
那里,诸仙人与众生群体低头礼敬坐于最高峰上的众生之主天神,并以最纯净的言辞赞颂那迷人的哈罗。
13.205.25
विमुक्ताश्चैव पापेभ्यो बभूवुर्विगतज्वराः ।
ऋषयो बालकिल्याश्च तथा विप्रर्षयश्च ये ॥ १३.२०५.२५ ॥
脱离罪恶、免除热恼,诸仙、婆罗希利亚与婆罗门仙人皆成如此。
13.205.26
अयोनिजा योनिजाश्च तपःसिद्धा महर्षयः ।
ततस्तं देवदेवेशं भगवन्तमुपासते। ॥ १३.२०५.२६ ॥
无胎而生与由胎而生的诸大仙,以苦行成就者,此时供奉那位天神之神、世尊。
13.205.27
ततस्तस्मिन्क्षणे देवी भूतस्त्रीगणसंवृता ।
हरतुल्याम्बरधरा समानव्रतचारिणी ॥ १३.२०५.२७ ॥
就在此时,女神被众多鬼女环绕而来,身着与哈罗相同的衣裳,奉行同样的誓愿。
13.205.28
काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम् ।
पुष्पवृष्ट्याऽभिवर्षन्ती दिव्यगन्धसमावृता ॥ १३.२०५.२८ ॥
手持盛满诸圣地之水的金瓶,撒下花雨,被神圣的香气所笼罩。
13.205.29
सरिद्वराभिः सर्वाभिः पृष्ठतोऽनुगता वरा ।
सेवितुं भगवत्पार्श्वमाजगाम शुचिस्मिता ॥ १३.२०५.२९ ॥
众多殊胜之河从后随行,那位笑容纯净的殊胜女神来到世尊身旁侍奉。
13.205.30
आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम् ।
मनःप्रियं चिकीर्षन्ती क्रीडार्थं शङ्करान्तिके ॥ १३.२०५.३० ॥
山之女来到神中之神身旁,欲行悦意之事,为嬉戏而来到湿婆身边。
13.205.31
मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु ।
अवेक्ष्य हृष्टा स्वगणान्स्मयन्ती पृष्ठतः स्थिता ॥ १३.२०५.३१ ॥
她用两只迷人的手遮住哈罗的双眼,欣喜地看着自己的随从,微笑着站在他身后。
13.205.32
देव्या चान्धीकृते देवे कश्मलं समपद्यत ।
निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम् ॥ १३.२०५.३२ ॥
女神遮蔽了天神的双眼,困惑随之而生;众生之主双眼闭合时,日月星辰都消失了。
13.205.33
निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम् ।
विषण्णं भयवित्रस्तं जगदासीद्भयाकुलम् ॥ १३.२०५.३३ ॥
世界没有了诵读与献祭,被黑暗笼罩,沮丧而因恐惧颤抖,陷入了惊恐不安。
13.205.34
हाहाकारमृषीणां च लोकानामभवत्तदा ।
तमोभिभूते सम्भ्रान्ते लोके जीवनसंक्षये ॥ १३.२०५.३४ ॥
那时,诸仙与众界中响起了哀号;在被黑暗吞没、陷入混乱的世界里,生命正在消逝。
13.205.35
तृतीयं चास्य सम्भूतं ललाटे नेत्रमायतम् ।
द्वादशादित्यसङ्काशं लोकान्भासाऽवभासयत् ॥ १३.२०५.३५ ॥
他的额上出现了第三只大眼,如同十二个太阳,以其光辉照亮了诸界。
13.205.36
तत्रक तेनाग्निना तेन युगान्ताग्निनिभेन वै ।
अदह्यत गिरिः सर्वो हिमवानग्रतः स्थितः ॥ १३.२०५.३६ ॥
那如同劫末之火的火焰,烧毁了前方矗立的整座雪山喜马拉雅。
13.205.37
दह्यमाने गिरौ तस्मिन्मृगपक्षिसमाकुले ।
सविद्याधरगन्धर्वे दिव्यौषधसमाकुले ॥ १३.२०५.३७ ॥
当那座充满鹿与鸟、充满神药、还有持明与乾达婆的山岳燃烧之时,
13.205.38
ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना ।
बभूव च जगत्सर्वं तथा विस्मयसंयुतम् ॥ १३.२०५.३८ ॥
于是山之女也因惊奇而睁大了眼睛,整个世界也同样充满了惊奇。
13.205.39
पश्यतामेव सर्वेषां देवदानवरक्षसाम् ।
नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः ॥ १३.२०५.३९ ॥
当诸天、檀那婆与罗刹全都看着的时候,那座最好的山确实被从眼中生出的那火焚烧了。
13.205.40
तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा ।
पितुः सम्मानमिच्छन्ती पपात भुवि पादूयोः ॥ १३.२०५.४० ॥
山之女见那被焚毁的山岳,痛苦万分,想要为父亲挽回尊严,便跪倒在地,伏于他的脚下。
13.205.41
तं दृष्ट्वा देवदेवेशो देव्या दुःखमनुत्तमम् ।
हैमवत्याः प्रियार्थं च गिरिं पुनरवैक्षत ॥ १३.२०५.४१ ॥
众神之主见此,看到女神极度的悲伤,为了心爱的海马婆提,又望向那座山。
13.205.42
दृष्टमात्रे भगवता सौम्ययुक्तेन चेतसा ।
क्षणेन हिमवाञ्शैलः प्रकृतिस्थोऽभवत्पुनः ॥ १३.२०५.४२ ॥
世尊以慈和之心一望之下,霎时间,雪山又恢复了原本的样子。
13.205.43
हृष्टपुष्टविहङ्गैश्च प्रफुल्लद्रुमकाननः ।
सिद्धचारणसङ्घैश्च प्रीतियुक्तैः समाकुलः ॥ १३.२०५.४३ ॥
山中充满了欢喜肥壮的飞鸟、繁花盛开的树林,以及充满喜悦的悉陀与遮罗那群。
13.205.44
पितरं प्रकृतिस्थं च दृष्ट्वा हैमवती भृशम् ।
अभवत्प्रीतिसंयुक्ता मुदितात्र पिनाकिनम् ॥ १३.२०५.४४ ॥
看见父亲恢复本来的状态,哈伊马瓦蒂心中充满深深的爱意,并为持弓(pināka)的湿婆而欢喜。
13.205.45
देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम् ।
हितार्तं सर्वलोकानां प्रजानां हितकाम्यया।
देवदेवं महादेवी बभाषेदं वचोऽर्थवत् ॥ १३.२०५.४५ ॥
女神心怀惊异,想要询问摩醯首罗,为了一切世界和众生的福祉,这位大女神对诸神之神说出了这些有意义的话。
13.205.46
भगवन्देवदेवेश शूलपाणे महाद्युते ।
विस्मयो मे महाञ्जातस्तस्मिन्नेत्राग्निसम्भवे ॥ १३.२०५.४६ ॥
尊贵的主啊,诸神之主,持三叉戟者,大光明者!我对那由眼中之火所生之事,感到极大的惊异。
13.205.47
किमर्थं देवदेवेश ललाटेऽस्मिन्प्रकाशते ।
अतिसूर्याग्निसङ्काशं तृतीयं नेत्रमायतम् ॥ १३.२०५.४७ ॥
诸神之主啊,为何这第三只巨大的眼睛在这额头上闪耀,犹如极亮的太阳与火焰?
13.205.48
नेत्राग्निना तु महता निर्दग्धो हिमवानसौ ।
पुनः संदृष्टमात्रस्तु प्रकृतिस्थः पिता मम ॥ १३.२०५.४८ ॥
这位希马瓦特被那巨大的眼火烧毁了;但刚一被再次看见,我的父亲便恢复了本来的状态。
13.205.49
एष मे संशयो देव हृदि मे सम्प्रवर्तते ।
देवदेव नमस्तुभ्यं तन्मे संसितुमर्हसि ॥ १३.२०५.४९ ॥
神啊,这疑惑在我心中升起。神中之神,向你致敬;请你为我解答。
13.205.50
एवमुक्तस्तया देव्या प्रीयमाणोऽब्रवीद्भवः ।
स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि ॥ १३.२०५.५० ॥
她这样问后,婆婆欢喜地说:女神啊,你有此疑问是恰当的;你是知法者,言语柔和。
13.205.51
त्वदृते मां हि वै प्रष्टुं न शक्यं केन चेत्प्रिये ।
प्रकाशं यदि वा गुह्यं प्रियार्थं प्रब्रवीम्यहम् ॥ १३.२०५.५१ ॥
除你之外,谁能问我呢,爱人?无论公开还是秘密,我都为你所爱而说。
13.205.52
शृणु तत्सर्वमकिलमस्यां संसदि भामिनि ।
सर्वेषामेव लोकानां कूटस्थं विद्धि मां प्रिये ॥ १३.२०५.५२ ॥
听着,夫人;在这个集会上,我将把一切完整地告诉你。爱人,要知道我是一切世界不动的根本。
13.205.53
मदधीनास्त्रयो लोका यथा विष्णौ तथा मयि ।
स्रष्टा विष्णुरहं गोप्ता इत्येतद्विद्धि भामिनि ॥ १३.२०५.५३ ॥
正如三界依赖毗湿奴,三界也依赖于我。毗湿奴是创造者,我是守护者——夫人,你要知道这一点。
13.205.54
तस्माद्यदा मां स्पृशति शुभं वा यदि वेतरत् ।
तथैवेदं जगत्सर्वं तत्तद्भवति शोभने ॥ १३.२०५.५४ ॥
因此,当吉祥或不吉祥之物触及我时,整个世界便随之成为那样,美丽的人啊。
13.205.55
एतद्गुह्यमजानन्त्या त्वया बाल्यादनिन्दिते ।
मन्नेत्रे पिहिते देवि क्रीडनार्थं दृढव्रते ॥ १३.२०५.५५ ॥
无瑕的女神啊,你不知此秘密,因童年之故,为了游戏遮住了我的双眼,坚守誓言的女神。
13.205.56
तत्कृते नष्टचन्द्रार्कं जगदासीद्भयाकुलम् ।
नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये ॥ १३.२०५.५६ ॥
因此日月俱灭,世界因恐惧而混乱。山之女啊,爱人,太阳消失后,世界陷入了黑暗。
13.205.57
तृतीयं लोचनं सृष्टं लोकं संरक्षितुं मया ।
कथितं संशयस्थानं निर्विशङ्का भव प्रिये ॥ १३.२०५.५७ ॥
为护佑世界,我创造了第三只眼。人们称之为令人疑惑之处;爱人啊,不必疑虑。