摩诃婆罗多 · 章 13.206
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.206.1
क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम् ।
उमादेवी महादेवमपृच्छत्पुनरेव तु ॥ १३.२०६.१ ॥
知晓神中之神时机的乌玛女神,想听闻喜悦而有益之言,于是再次询问大天神。
13.206.2
भगवन्देवदेवेश सर्वदेवनमस्कृत ।
चतुर्मुखो वै भगवानभवत्केन हेतुना ॥ १३.२०६.२ ॥
尊贵者啊,诸神之主,为一切天神所礼敬!四面的尊神因何缘故而生?
13.206.3
भगवन्केन ते वक्त्रमैन्द्रमद्भुतदर्शनम् ।
उत्तरं चापि भगवन्पश्चिमं शुभदर्शनम्।
दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम् ॥ १३.२०६.३ ॥
尊贵者啊,你的东面之脸容貌奇异;尊贵者啊,北面与西面之脸容貌吉祥;南面之脸凶猛,上方之脸为发髻所覆——这是因何缘故?
13.206.4
यथादृशं महाभाग श्रोतुमिच्छामि कारणम् ।
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥ १३.२०६.४ ॥
大福者啊,我愿听闻其因,正如所见。神啊,此即我之疑惑;请您为我宣说,您最为适宜。
13.206.5
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि भामिनि ।
पुराऽसुरो महाघोरौ लोकोद्वेगकरौ भृशम् ॥ १३.२०६.५ ॥
因此,美丽的女神啊,我将告诉你你所愿听的。往昔有两个极其可怖的阿修罗,极大地扰乱了世间。
13.206.6
सुन्दोपसुन्दनामानावासतुर्बलगर्वितौ ।
अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ ॥ १३.२०६.६ ॥
二者名为孙陀与优波孙陀,以力量自负;他们不可被兵器所杀,强大有力,且彼此互相为对方谋求福祉。
13.206.7
तयोरेव विनाशाय निर्मिता विश्वकर्मणा ।
सर्वतः सारमुद्धृत्य तिलशो लोकपूजिता।
तिलोत्तमेति विख्याता अप्सराः सा बभूव ह ॥ १३.२०६.७ ॥
毗首羯摩正是为毁灭这二人而造她。他从四面八方汲取精华,一粒一粒地聚合,她成为受世界敬仰、名为提洛多摩的天女。
13.206.8
देवकार्यं करिष्यन्ती हासभावसमन्विता ।
सा तपस्यन्तमागम्य रूपेणाप्रतिमा भुवि ॥ १३.२०६.८ ॥
她欲行诸神之事,怀着戏笑之情,走近正在苦修的我;她的容貌在大地上无与伦比。
13.206.9
मया बहुमता चेयं देवकार्यं करिष्यति ।
इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम्।
तथैव तां दिदृक्षुश्च चतुर्वक्त्रोऽभवं प्रिये ॥ १३.२०६.९ ॥
我非常看重她,以为她将成就诸神之事;当她恭敬地绕行于我时,我想看见她,爱妃啊,于是我变成了四面。
13.206.10
ऐन्द्रं मुखमिदं पूर्वं तपश्चर्यापरं सदा ।
दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः ॥ १३.२०६.१० ॥
这东面之首属于因陀罗,常常专注于苦修。我的南面之首神圣而猛烈,它毁灭众生。
13.206.11
लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये ।
वेदानधीते सततमद्भुतं चोत्तरं मुखम्।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १३.२०६.११ ॥
我的西面,爱妃啊,常常致力于世间之事;而那奇妙的北面则不断诵读吠陀。这一切都已告诉你,你还想听什么?
13.206.12
भगवञ्श्रोतुमिच्छामि शूलपाणे वरप्रद ।
किमर्थं नीलता कण्ठे भाति बर्हिनिभा तव ॥ १३.२०६.१२ ॥
尊贵的主啊,持三叉戟者,赐恩者,我想听:为何这蓝黑之色如孔雀羽毛般在您的喉间闪耀?
13.206.13
एतत्ते कथयिष्यामि शृणु देवि समाहिता ॥ १३.२०६.१३ ॥
女神啊,请专心听,我将把这些告诉你。
13.206.14
पुरा युगान्तरे यत्नादमृतार्थं सुरासुरैः ।
बलवद्भिर्विमथितश्चिरकालं महोदधिः ॥ १३.२०६.१४ ॥
往昔在另一个时代,诸神与阿修罗为了甘露,努力而强大地长久搅动了大海。
13.206.15
रज्जुना नागराजेन मथ्यमाने महोदधौ ।
विषं तत्र समुद्भूतं सर्वलोकविनाशनम् ॥ १३.२०६.१५ ॥
当以蛇王为绳搅动大海时,从中涌出了毁灭一切世界的毒。
13.206.16
तद्दृष्ट्वा विबुधाः सर्वे तदा विमनसोऽभवन् ।
ग्रस्तं हि तन्मया देवि लोकानां हितकारणात् ॥ १३.२०६.१६ ॥
众神见此都忧愁起来。女神啊,为了众生的福祉,我把它吞下了。
13.206.17
तत्कृता नीलता चासीत्कण्ठे बर्हिनिभा शुभे ।
तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १३.२०६.१७ ॥
因此我的喉中生出了如孔雀羽毛般的蓝色,吉祥的女神啊;从那时起,我被称为蓝颈湿婆(Nīlakaṇṭha)。这一切我都已告诉你了。你还想再听什么呢?
13.206.18
नीलकण्ठ नमस्तेऽस्तु सर्वलोकसुखावह ।
बहूनामायुधानां त्वं पिनाकं धर्मुमिच्छसि।
किमर्थं देवदेवेश तन्मे शंसितुमर्हसि ॥ १३.२०६.१८ ॥
向你致敬,蓝颈湿婆,给一切世界带来安乐者。在众多武器中,你想要毗那迦弓。众神之主啊,你应该告诉我为什么。
13.206.19
शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते ।
युगान्तरे महादेवि कण्वो नाम महामुनिः ॥ १३.२०६.१९ ॥
纯洁微笑的女神啊,大女神啊,我将向你讲述兵器合乎法度的起源,请听。在另一个时代,有一位名叫迦那瓦的大仙人。
13.206.20
स हि दिव्यां तपश्चर्यां कर्तुमेवोपचक्रमे ।
तथा तस्य तपो घोरं चरतः कालपर्ययात्।
वल्मीकं पुनरुद्भूतं तस्यैव शिरसि प्रिये ॥ १३.२०६.२० ॥
他开始修行神圣的苦行。当他修行严酷的苦行,时光流转,爱人啊,他的头顶上又长出了一座蚁丘。
13.206.21
वेणुर्वल्मीकसंयोगान्मूर्ध्नि तस्य बभूव ह ।
धरमाणश्च तत्सर्वं तपश्चर्यां तथाऽकरोत् ॥ १३.२०६.२१ ॥
因与蚁丘相连,他的头上竟长出了一根竹子。他就顶着它,以这种方式完成了全部苦行。
13.206.22
तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः ।
दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्वचिन्तयत् ॥ १३.२०६.२२ ॥
梵天因他的苦行而敬重他,前去赐予他恩惠。赐予恩惠之后,这位神看见竹子,便陷入沉思。
13.206.23
लोककार्यं समुद्दिश्य वेणुनाऽनेन भामिनि ।
चिन्तयित्वा तमादाय कार्मुकार्थे न्ययोजयत् ॥ १३.२०६.२३ ॥
美丽的女神啊,他以世界的福祉为念,思量此竹后,取来用于制造一张弓。
13.206.24
विष्णोर्मम च सामर्थ्यं ज्ञात्वा लोकपितामहः ।
धनुषी द्वे तदा प्रादाद्विष्णवे च ममैव च ॥ १३.२०६.२४ ॥
世界之祖知晓毗湿奴与我的力量,便制成两张弓,分别赐予毗湿奴和我。
13.206.25
पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर्धनुः ।
तृतीयमवशेषेण गाण्डीवमभवद्धनुः ॥ १३.२०६.२५ ॥
我的弓名为毕那迦,哈里的弓名为沙尔迦。剩下的第三张弓成为了甘狄拔弓。
13.206.26
तच्च सोमाय निर्दिश्य ब्रह्मा लोकं गतः पुनः ।
एतत्ते सर्वमाख्यातं शस्त्रागममनिन्दिते ॥ १३.२०६.२६ ॥
将其交付给月神之后,梵天又回到了他的世界。无瑕的女子,关于兵器的全部传统已为你讲述完毕。
13.206.27
भगवन्देवदेवेश पिनाकपरमप्रिय ।
वाहनेषु तथाऽन्येषु सत्सु भूतपते तव ॥ १३.२०६.२७ ॥
尊贵的神,众神之神,毕那迦最钟爱的,众生之主,你尚有其他坐骑,
13.206.28
अयं तु वृषभः कस्माद्वाहनं स यथाऽभवत् ।
एष मे सशयो देव तन्मे शंसितुमर्हसि ॥ १३.२०६.२८ ॥
但这头公牛为何、又如何成了你的坐骑呢?神啊,这便是我的疑问,请你为我解说。
13.206.29
तदहं ते प्रवक्ष्यामि वाहनं स यथाऽभवत् ॥ १३.२०६.२९ ॥
因此我将告诉你,他是如何成为坐骑的。
13.206.30
आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते ।
बलसंहनना गावो दर्पयुक्ताश्चरन्ति ताः ॥ १३.२०६.३० ॥
在最初的创造时,纯洁微笑的女子啊,有白色的母牛,体格强健,它们骄傲地漫游。
13.206.31
अहं तु तप आतिष्ठं तस्मिन्काले शुभानने ।
एकपादश्चोर्ध्वबाहुर्लोकार्थं हिमवद्गिरौ ॥ १३.२०६.३१ ॥
美面之人啊,那时为了世界的利益,我在喜马拉雅山上修苦行,单足而立,双臂高举。
13.206.32
गावो मे पार्श्वमागम्य दर्पोत्सिक्ताः समन्ततः ।
स्थानभ्रंशं तदा देवि चक्रिरे बहुशस्तदा ॥ १३.२०६.३२ ॥
女神啊,那时我的牛群因骄傲而躁动,从四面八方来到我身边,多次使我离开了原处。
13.206.33
अपचारेण वै तासां मनःक्षोभोऽभवन्मम ।
तस्माद्दग्धा यदा गावो रोषाविष्टेन चेतसा ॥ १३.२०६.३३ ॥
因她们的冒犯,我心中烦乱;所以当我以充满愤怒的心焚烧那些牛时,
13.206.34
तस्मिंस्तु व्यसने घोरे वर्तमाने पशून्प्रति ।
अनेन वृषभेणाहं शमितः सम्प्रसादनैः ॥ १३.२०६.३४ ॥
在那场可怕的灾难降临于牲畜之时,这头公牛以温和的恳求使我平息下来。
13.206.35
तदाप्रभृति शान्ताश्च वर्णभेदत्वमागताः ।
श्वेतोऽयं वृषभो देवि पूर्वसंस्कारसंयुतः।
वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः ॥ १३.२०६.३५ ॥
从那时起,它们平静下来,并呈现出不同的毛色。女神啊,这头白牛承载着前世的印记,从那时起被指定为我的坐骑和旗帜。
13.206.36
तस्मान्मे गोपतित्वं च देवैर्गोभिश्च कल्पितम् ।
प्रसन्नश्चाभवं देवि तदा गोपतितां गतः ॥ १३.२०६.३६ ॥
因此,诸神与牛群为我设立了牛主之位。女神啊,那时我欣然而喜,获得了牛主的身份。