Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.207

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.207.1

भगवन्सर्वभूतेश शूलपाणे वृषध्वज ।
आवासेषु विचित्रेषु रम्येषु च शुभेशु च ॥ १३.२०७.१ ॥

尊贵的主,众生之主,持三叉戟者,以公牛为旗者!在多样、可爱而吉祥的居所之中。

13.207.2

सत्सु चान्येषु भूतेषु श्मशाने रमसे कथम् ।
केशास्थिकलिले भीमे कपालशतसङ्कुले ॥ १३.२०७.२ ॥

既有其他善良的众生,你为何竟在火葬场中欢喜?那可怖之地充满毛发与骸骨,堆满数百个头骨。

13.207.3

सृगालगृध्रम्पूर्णे शवधूमसमाकुले ।
चिताग्निविषमे घोरे गहने च भयानके ॥ १३.२०७.३ ॥

在充满豺狼与秃鹫、笼罩着尸烟、因柴堆之火而凹凸不平的可怖、幽深而恐怖之地。

13.207.4

एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् ।
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥ १३.२०७.४ ॥

如此可怖、难以目睹的尸骸之地,你为何竟在其中欢喜?神啊,这便是我的疑惑,你应当为我解说。

13.207.5

हन्त ते कथयिष्यामि शृणु देवि समाहिता ।
आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते ॥ १३.२०७.५ ॥

好吧,我将告诉你;女神,请专心听。女神啊,往昔为寻找一处清净的居所,纯洁微笑的你。

13.207.6

नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे ।
एष मेऽभिनिवेशोऽभूत्तस्मिन्काले प्रजापतिः ॥ १३.२०७.६ ॥

长久以来我未曾找到最清净之地,吉祥的女神。这便是我的决意,而当时的主宰是生主(Prajāpati)。

13.207.7

आकुलः सुमहाघोरः प्रादुरासीत्समन्ततः ।
सम्भूता भूतसृष्टिश्च घोरा लोकभयावहा ॥ १३.२०७.७ ॥

四面八方出现了极其可怕的骚乱,产生了令世界恐惧的可怖众生之创造。

13.207.8

नानावर्णा विरूपाश्च तीक्ष्णदंष्ट्राः प्रहारिणः ।
पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः।
इतश्चरन्ति निघ्नन्तः प्राणिनो भृशमेव च ॥ १३.२०७.८ ॥

他们颜色各异、形貌丑陋,獠牙锋利,好攻击,面如毗舍遮与罗刹,夺取众生的性命;他们四处游荡,猛烈地杀害生灵。

13.207.9

एवं लोके प्राणिहीने क्षयं याते पितामहः ।
चिन्तयंस्तत्प्रतीकारं मां च शक्तं हि निग्रहे ॥ १३.२०७.९ ॥

就这样,当世界因众生消亡而走向毁灭时,祖父梵天思考其补救之法,并认为我有能力加以制止。

13.207.10

एवं ज्ञात्वा ततो ब्रह्मा तस्मिन्कर्मण्योजयत् ।
तच्च प्राणिहितार्थं तु मयाऽप्यनुमतं प्रिये ॥ १३.२०७.१० ॥

梵天知晓此事后,便将此任务委派于我;为了众生的利益,我也同意了此事,爱妻啊。

13.207.11

तस्मात्संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् ।
अस्माच्छ्मशानान्मेध्यं तु नास्ति किञ्चिदनिन्दिते।
निःसम्पातान्मनुष्याणां तस्माच्छुचितमं स्मृतं ॥ १३.२०७.११ ॥

因此,女神啊,众生得以免受诸鬼之恐惧。无瑕的女子啊,没有什么比这火葬场更清净;因人迹罕至,它被认为是最为清净的。

13.207.12

भूतसृष्टिं च तां चाहं श्मशाने संन्यवेशयम् ।
तत्रस्थः सर्वभूतानां विनिहन्मि प्रिये भयम् ॥ १३.२०७.१२ ॥

我把那群鬼物安置在火葬场;我住在那里,爱人啊,便能消除一切众生的恐惧。

13.207.13

न च भूतगणेनाहं विना वसितुमुत्सहे ।
तस्मान्मे सन्निवासाय श्मशाने रोचते मनः ॥ १३.२०७.१३ ॥

没有鬼物群我无法安住;因此我的心喜欢与他们一同住在火葬场。

13.207.14

मेध्यकामैर्द्विजैनित्यं मेध्यमित्यभिधीयते ।
आचरद्भिर्व्रतं नित्यं मोक्षकामैश्च सेव्यते ॥ १३.२०७.१४ ॥

渴望清净的再生者始终称之为清净之地;持守誓愿、求解脱的人也常来此处。

13.207.15

स्थानं मे तत्र विहितं वीरस्थानमिति प्रिये ।
कपालशतसम्पूर्णमभिरूपं भयानकम् ॥ १३.२०७.१५ ॥

我的居所就定在那里,爱人啊;那地方称为英雄之地,满是数百个头骨,既相称又可怖。

13.207.16

मध्याह्ने सन्ध्ययोस्तत्र नक्षत्रे रुद्रदेवते ।
आयुष्कामैरशुद्धैर्वा न गन्तव्यमिति स्थितिः ॥ १३.२०७.१६ ॥

中午、黄昏,以及由楼陀罗主宰的星宿之时,希求长寿者或不净者不应前往那里——这是规定。

13.207.17

मदन्येन न शक्यं हि निहन्तुं भूतजं भयम् ।
तत्रस्थोऽहं प्रजाः सर्वाः पालयामि दिनेदिने ॥ १३.२०७.१७ ॥

除我之外,无人能消除由鬼物所生的恐惧;我住在那里,日复一日地守护一切众生。

13.207.18

मन्नियोगाद्भूतसङ्घा न च घ्नन्तीह कञ्चन ।
तांस्तु लोकहितार्ताय श्मशाने रमयान्महम्।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १३.२०७.१८ ॥

奉我之命,鬼魅之众在此不伤任何人。为了世间的福祉,我使那些受苦者在火葬场中得到安乐。这一切我已告诉你了;你还想听什么?

13.207.19

भगवन्देवदेवेश त्रिनेत्र वृषभध्वज ।
पिङ्गलं विकृतं भाति रूपं ते तु भयानकम् ॥ १३.२०७.१९ ॥

世尊,诸神之主,三目者,以牛为旗者!你的形貌显得土黄、扭曲,实在可怖。

13.207.20

भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् ।
व्याघ्रोदरत्वक्संवीतं कपिलश्मश्रुसंततम् ॥ १३.२०७.२० ॥

涂满灰烬,双目狰狞,獠牙尖利,发髻纷乱,裹着虎腹之皮,覆着土黄色的胡须。

13.207.21

रौद्रं भयानकं घोरं शूलपट्टससंयुतम् ।
किमर्थं त्वीदृशं रूपं तन्मे शंसितुमर्हसि ॥ १३.२०७.२१ ॥

狂暴、可怖、凶猛,手持三叉戟与刀剑者!为何有这样的形貌?你应当告诉我。

13.207.22

तदहं कथयिष्यामि शृणु तत्त्वं समाहिता ।
द्विविधो लौकिको भावः शीतमुष्णमिति प्रिये ॥ १३.२०७.२२ ॥

此事我将告诉你;爱人,专心听这真理。世间之性有二:寒与热。

13.207.23

तयोर्हि ग्रसितं सर्वं सौम्याग्नेयमिदं जगत् ॥ १३.२०७.२३ ॥

此世间的一切,清凉与炽热,皆为这二者所吞没。

13.207.24

सौम्यत्वं सततं विष्णौ मय्याग्नेयं प्रतिष्ठितम् ।
अनेन वपुषा नित्यं सर्वलोकान्बिभर्म्यहम् ॥ १३.२०७.२४ ॥

毗湿奴中恒常有柔和,我中则安立火性;我以此身常常承载一切世界。

13.207.25

रौद्राकृतिं विरूपाक्षं शूलपट्टससंयुतम् ।
आग्नेयमिति मे रूपं देवि लोकहिते रतम् ॥ १३.२०७.२५ ॥

形貌狰狞、三目,持三叉戟与刀刃——女神,这便是我的火性之相,专注于世间之利益。

13.207.26

यद्यहं विपरीतः स्यामेतत्त्यक्त्वा शुभानने ।
तदैव सर्वलोकानां विपरीतं प्रवर्तते ॥ १३.२०७.२६ ॥

若我舍此而反其道,美颜者啊,那么立刻,一切世界便会颠倒运行。

13.207.27

तस्मान्मयेदं ध्रियते रूपं लोकहितैषिणा ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२०७.२७ ॥

因此,我为求世间之利益而持此形相。女神,这已告诉你了;你还想听什么?

13.207.28

भगवन्देवदेवेश शूलपाणे वृषध्वज ।
किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते।
श्रोतुमिच्छाम्यहं देव तन्मे शंसितुमर्हसि ॥ १३.२०७.२८ ॥

世尊,天神之主,持三叉戟者,以牛为旗者!您头部之上的月牙痕,因何而闪耀?天神啊,我想听闻,请您告诉我。

13.207.29

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ।
पुराऽहं कारणाद्देवि कोपयुक्तः शुचिस्मिते।
दक्षयज्ञवधार्याय भूतसङ्घैः समावृतः ॥ १३.२०७.२९ ॥

因此我将告诉你其缘由;听着,吉祥者。往昔,女神啊,因某事心怀愤怒,净笑者啊,我为摧毁达刹之祭祀,被众生之群所环绕。

13.207.30

तस्मिन्क्रतुवरे घोरे यज्ञभागनिमित्ततः ।
देवा विभ्रंशितास्ते वै येषां भागः क्रतौ कृतः ॥ १३.२०७.३० ॥

在那场可怕而殊胜的祭祀中,因祭品之分,那些在仪式中被定下份额的天神都被推翻了。

13.207.31

सोमस्तत्र मया देवि कुपितेन भृशार्दितः ।
पश्यंश्चानपराधी सन्पादङ्गुष्ठेन ताडितः ॥ १३.२०७.३१ ॥

女神啊,那时我怀着愤怒,使无辜的月神苏摩受到极大折磨;我眼看着他被我用脚趾击打。

13.207.32

तथापि विकृतेनाहं सामपूर्वं प्रसादितः ।
तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुरा प्रिये ॥ १३.२०७.३२ ॥

然而,形貌残损的苏摩先以温和的言辞使我息怒;我思量此事时,心中生出悔意,爱人啊。

13.207.33

तदाप्रभृति सोमं वै शिरसा धारयाम्यम् ।
एवं मे पापहानिस्तु भवेदिति मतिर्मम।
तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा ॥ १३.२०७.३३ ॥

从那时起,我便将苏摩戴在头上;我的决心是借此消除我的罪过。从那时起,苏摩总是显现在我的头顶。

13.207.34

एवं ब्रुवति देवेशे विस्मिताः परमर्षयः ।
वाग्भिः साञ्जलिमालाभिरभितुष्टुवुरीश्वरम् ॥ १३.२०७.३४ ॥

天神之主如此说时,惊异的大仙们合掌,以言辞之花环赞美了自在主。

13.207.35

नमः शङ्कर सर्वेश नमः सर्वजगद्भुरो ।
नमो देवादिदेवाय नमः शशिकलाधर ॥ १३.२०७.३५ ॥

敬礼,湿婆(Śaṅkara),一切之主。敬礼,整个世界的导师。敬礼,诸神之中的原始神。敬礼,戴着月牙者。

13.207.36

नमो घोरतराद्धोर नमो रुद्राय शङ्कर ।
नमः शान्ततराच्छान्त नमश्चन्द्रस्य पालक ॥ १३.२०७.३६ ॥

向比最可怖者更可怖的罗陀罗·湿婆(Śaṅkara)致敬。向比最寂静者更寂静、守护月亮者致敬。

13.207.37

नमः सोमाय देवाय नमस्तुभ्यं चतुर्मुख ।
नमो भूतपते शंभो जह्नुकन्याम्बुशेखर ॥ १३.२०७.३७ ॥

向神祇苏摩致敬;向四面的你致敬。万物之主、湿婆(Śambhu)啊,你的冠饰以仙人之女(恒河)的水装饰,向你致敬。

13.207.38

नमस्त्रिशूलहस्ताय पन्नगाभरणाय च ।
नमोस्तु विषमाक्षाय दक्षयज्ञप्रदाहक ॥ १३.२०७.३८ ॥

向手持三叉戟、以蛇为饰者致敬。向三目的你致敬,焚毁达刹祭祀者。

13.207.39

नमोस्तु बहुनेत्राय लोकरक्षणतत्पर ।
अहो देवस्य महात्म्यमहो देवस्य वै कृपा।
एवं धर्मपरत्वं च देवदेवस्य चार्हति ॥ १३.२०७.३९ ॥

向多目者致敬,你一心守护世界。啊,神的伟大!啊,神的慈悲!如此对法的虔诚,唯神中之神配得。

13.207.40

एवं ब्रुवत्सु मुनिषु वचो देव्यब्रवीद्धरम् ।
सम्प्रीत्यर्थं मुनीनां सा क्षणज्ञा परमं हितम् ॥ १३.२०७.४० ॥

诸仙如此说话之时,天后对哈罗(Hara)开言。为了使诸仙欢喜,她深知时机,说出了至善的言语。

13.207.41

भगवन्देवदेवेश सर्वलोकनमस्कृत ।
अस्यैव ऋषिसङ्घस्य मम च प्रियकाम्यया ॥ १३.२०७.४१ ॥

尊贵的主啊,诸神之神的主宰,为万界所礼敬者!为了这群仙人,也为了我自己所愿取悦之心……

13.207.42

वर्णाश्रमकृतं धर्मं वक्तुमर्हस्यशेषतः ।
न तृप्तिरस्ति देवेश श्रवणीयं हि ते वचः ॥ १३.२०७.४२ ॥

您应当完整地宣说依种姓与生活阶段而立的法。天神之主啊,听闻不能满足;您的话语值得聆听。

13.207.43

सधर्मचारिणी चेयं भक्ता चेयमिति प्रभो ।
वक्तुमर्हसि देवेश लोकानां हितकाम्यया।
याथातथ्येन तत्सर्वं वक्तुमर्हसि शंकर ॥ १३.२०७.४३ ॥

主啊,请说明此人是我同行于法的伴侣,也是虔诚的信徒。天神之主,为了众生的福祉,湿婆啊,您应当如实地将这一切宣说。