摩诃婆罗多 · 章 13.208
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.208.1
हन्त ते कथयिष्यामि यत्ते देवि मनःप्रियम् ।
शृणु तत्सर्वमखिलं धर्मं वर्णाश्रमाश्रितम् ॥ १३.२०८.१ ॥
好吧,我将告诉你你心中所喜爱的。女神啊,请听那全部依托于种姓与生活阶段的法。
13.208.2
ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चेति चतुर्विधम् ।
ब्राह्मणा विहिताः पूर्वं लोकतन्त्रमभीप्सता।
कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै ॥ १३.२०८.२ ॥
有四种:婆罗门、刹帝利、吠舍和首陀罗。欲使世间有序者,先立婆罗门,而与之相称的职责已载于经典之中。
13.208.3
यदीदमेकवर्णं स्याज्जगत्सर्वं विनश्यति ।
सहैव देवि वर्णानि चत्वारि विहितान्यतः ॥ १३.२०८.३ ॥
若此整个世界只有一种种姓,它将会毁灭。因此,女神啊,四种姓是一并设立的。
13.208.4
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः ।
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात्ते बाहुगर्विताः ॥ १३.२०८.४ ॥
婆罗门从口中被造,因此善于言辞;刹帝利从臂中被造,因此以臂力自豪。
13.208.5
ऊरुभ्यामुद्गता वैश्यास्तस्माद्वार्तोपजीविनः ।
शूद्राश्च पादतः सृष्टास्तस्मात्ते परिचाकाः ॥ १३.२०८.५ ॥
吠舍从股中生出,因此以商贾和农耕为生;首陀罗从足中被造,因此为仆役。
13.208.6
तेषां धर्मांश्च कर्माणि शृणु देवि समाहिता ।
विप्राः कृता भूमिदेवा लोकानां धारणे कृताः।
ते कैश्चिन्नावमन्तव्या ब्राह्मणा हितमिच्छुभिः ॥ १३.२०८.६ ॥
女神啊,请专心听他们的职责与行为。婆罗门被造为大地之神,受命维持诸世界。凡欲求福祉者,绝不可轻慢婆罗门。
13.208.7
यदि ते ब्राह्मणा न स्युर्दानयोगवहाः सदा ।
उभयोर्लोकयोर्देवि स्थितिर्न स्यात्समासतः ॥ १३.२०८.७ ॥
女神啊,若婆罗门不常行布施之道,简言之,两个世界便无法安稳。
13.208.8
लोकेषु दुर्लभं किंतु ब्राह्मणत्वमिति स्मृतम् ।
अबुधो वा दरिद्रो वा पूजनीयः सदैव सः ॥ १३.२०८.८ ॥
世间婆罗门之身份被称为极为罕见。无论他是无知还是贫穷,他始终应受尊敬。
13.208.9
ब्राह्मणान्योऽवमन्येत निन्देच्च क्रोधयेच्च वा ।
प्रहरेत हरेद्वाऽपि धनं तेषां नराधमः ॥ १३.२०८.९ ॥
凡轻慢婆罗门、诽谤他们、激怒他们、殴打他们、或夺取他们财物者,是人中最卑劣的人。
13.208.10
कारयेद्धीनकर्मणि कामलोभविमोहनात् ।
स च मामवमन्येत मां क्रोधयति निन्दति ॥ १३.२०८.१० ॥
若因欲望、贪婪与迷惑,使婆罗门从事卑劣之事,此人便是轻慢我、激怒我、诽谤我。
13.208.11
मामेव प्रहरेन्मूढो मद्धनस्यापहारकः ।
मामेव प्रेषणं कृत्वा निदन्ते मूढचेतनः ॥ १३.२०८.११ ॥
窃取我财物的愚人,正是打击我自己。心智昏乱者,派遣我去又诽谤的正是我自己。
13.208.12
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः ।
कर्मण्यध्यापनं चैव याजनं च प्रतिग्रहः।
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः ॥ १३.२०८.१२ ॥
诵习吠陀、祭祀与布施,这就是他的法,如此而立。行事中包括教授、为他人主祭与受施;真实、寂静、苦行与清净,这是他永恒的法。
13.208.13
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः ।
अनापदि च शूद्रान्नं वृषलीसङ्ग्रहस्तथा ॥ १३.२०८.१३ ॥
婆罗门贩卖汁液与谷物是被谴责的。除非遇到灾难,接受首陀罗的食物以及纳取低种姓女子,同样是被禁止的。
13.208.14
तप एव सदा धर्मो ब्राह्मणस्य न संशयः ।
स तु धर्मार्थमुत्पन्नः पूर्वं धात्रा तपोबलात् ॥ १३.२०८.१४ ॥
唯有苦行,始终是婆罗门的法,毫无疑问。他在往昔,为了法,由创造主凭苦行之力所生。
13.208.15
तस्योपनयनं धर्मो नित्यं चोदकधारणम् ।
शास्त्रस्य श्रवणं धर्मो देवव्रतनिषेवणम् ॥ १३.२०८.१५ ॥
他的入门礼是他的法,并且常持杖也是法;聆听经典是法,奉行诸神之誓也是法。
13.208.16
अग्निकार्यं परो धर्मो नित्ययज्ञोपवीतिता ।
शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम्।
धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा ॥ १३.२०८.१६ ॥
火祭是最高的法,常戴圣线也是。远离首陀罗的食物是法;遵循善道是法。常持斋戒是法,至上的梵行同样如此。
13.208.17
गृहस्थस्य परो धर्मो गृहस्थाश्रमिणस्तथा ।
गृहसम्मार्जनं धर्म आलेपनविधिस्तथा ॥ १३.२०८.१७ ॥
家主的至上之法,住家期者亦如是。洒扫屋舍是法,涂抹之规亦如是。
13.208.18
अतिथिप्रियता धर्मो धर्मस्त्रेताग्निधारणम् ।
इष्टिर्वा पशुबन्धाश्च विधिपूर्वं परंतप ॥ १३.२०८.१८ ॥
喜爱宾客是法;保持三火是法;依规则进行的祭祀(iṣṭi)或动物祭祀也是法,啊,敌人的焚烧者。
13.208.19
दम्पत्योः समशीलत्वं धर्मो वै गृहमेधिनाम् ।
एवं द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम् ॥ १३.२०८.१९ ॥
夫妻性情相同,实为居家者之法;同样,再生族之法是在家住期中持守法。
13.208.20
यस्तु क्षत्रगतो धर्मस्त्वया देवि प्रयोदितः ।
तमहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥ १३.२०८.२० ॥
你所问的刹帝利之法,女神啊,我将为你宣说;女神啊,请专心听。
13.208.21
क्षत्रियास्तु ततो देवि द्विजानां पालने स्मृताः ।
यदि निःक्षत्रियो लोको जगत्स्यादधरोत्तरम् ॥ १३.२०८.२१ ॥
女神啊,刹帝利被规定用以保护再生族;若世界没有刹帝利,宇宙就会颠倒上下。
13.208.22
रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम् ।
तस्याप्यध्ययनं दानं यजनं धर्मतः स्मृतम् ॥ १३.२०८.२२ ॥
唯有依靠刹帝利的守护,世界才得以永恒;对他们而言,依法也规定了学习、布施与祭祀。
13.208.23
दीनानां रक्षणं चैव पापनामनुशासनम् ।
सतां सम्पोषणं चैव कर्मषण्मार्गजीवनम् ॥ १३.२०८.२३ ॥
保护弱者,约束恶人,扶养善人,并依六种行为之道而生活,这便是战士之法。
13.208.24
उत्साहः शस्त्रजीवित्वं तस्य धर्मः सनातनः ।
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥ १३.२०८.२४ ॥
勇气与以武器谋生,是他永恒的法(达摩)。养护仆从是法;行事不失其效,也是法。
13.208.25
सम्यग्गुणयुतो धर्मो धर्मः पौरहितक्रिया ।
व्यवहारस्थितिर्नित्यं गुणयुक्तो महीपतिः ॥ १३.२०८.२५ ॥
具备恰当德性的法,以及家祭司的职责,都是法。恒常维持法律秩序,以及具备德性的君王,都是法。
13.208.26
आर्तवित्तप्रदो राजा धर्मं प्राप्नोत्यनुत्तमम् ।
एवं तैर्विहितः पूर्वैर्धर्मः कर्मविधानतः ॥ १३.२०८.२६ ॥
施财于困苦者的君王,获得至上之法。如此,由古人所立的法,依行为之规而成。
13.208.27
तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः ।
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते ॥ १३.२०८.२७ ॥
同样,女神啊,吠舍被认为有益于世间生活的运行。他人依赖他们而生活,因为他们带来可见的成果。
13.208.28
यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे ।
तेषामध्ययनं दानं गजनं धर्म उच्यते ॥ १३.२०८.२८ ॥
若无吠舍,其他人也不会如此。他们的学习、布施与祭祀,被称为法。
13.208.29
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा ।
अग्निहोत्रपरिस्पन्दास्त्रयो वर्णा द्विजातयः ॥ १३.२०८.२९ ॥
吠舍的恒常之法是畜牧与农耕。从事阿格尼霍特拉祭的三个种姓被称为再生族。
13.208.30
वाणिज्यं सत्पथे स्थानमातिथेयत्वमेव च ।
विप्राणां स्वागतन्यायो वैश्यधर्मः सनातनः ॥ १३.२०८.३० ॥
经商、立于正道、以及待客之道;善待婆罗门是正理——这是吠舍永恒的法。
13.208.31
तिलगन्धरसाश्चैव न विक्रेयाः कथञ्चन ।
वणिक्पथमुपासद्भिर्वैश्यैर्वैश्यपथि स्थितैः ॥ १३.२०८.३१ ॥
芝麻、香料和汁液,无论如何都不应出售——这是由遵循商人之道、立于吠舍之路的吠舍所说。
13.208.32
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ।
एवं ते विहिता देवि लोकयात्रा स्वयंभुवा ॥ १३.२०८.३२ ॥
为了三相之目的,依自己的能力,日夜款待一切人。女神啊,自生者就是这样为你规定了世间的行程。
13.208.33
तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः ।
शूद्राश्च यदि ते न स्युः कर्मकर्ता न विद्यते ॥ १३.२०८.३३ ॥
同样,首陀罗也被规定为成就一切法的人;若没有首陀罗,便无人作事。
13.208.34
त्रयः पूर्वे शूद्रमूलाः सर्वे कर्मकराः स्मृताः ।
ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः ॥ १३.२०८.३४ ॥
前面的三者以首陀罗为根基,都被认为是劳作之人;侍奉婆罗门等人,被称为仆人之法。
13.208.35
वार्ता च कारुकर्माणि शिल्यं नाट्यं तथैव च ।
अहिंसकः शुभाचारो देवतद्विजवन्दकः ॥ १३.२०८.३५ ॥
谋生、工匠之业、技艺与戏剧也是如此;不伤害、行善、礼敬诸神与再生者的人。
13.208.36
शूद्रो धर्मफलैरिष्टैः स्वधर्मेणोपपद्यते ।
एवमादि तथाऽन्यच्च शूद्रधर्म इति स्मृतः ॥ १३.२०८.३६ ॥
首陀罗通过自身本分获得法的所愿果报。如此等等,以及其他,皆被记为首陀罗之法。
13.208.37
तेऽप्येवं विहिता लोके कर्मयोग्याः शुभानने ॥ १३.२०८.३७ ॥
他们同样在世间如此被规定,堪任于作业,美面者啊。
13.208.38
एवं चतुर्णां वर्णानां वर्णलोकाः परत्र च ।
विहिताश्च तथा दृष्टा यथावद्धर्मचारिणि ॥ १३.२०८.३८ ॥
如此,四种姓的种姓之界在来世亦被规定并如实所见,持法者啊。
13.208.39
एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम् ।
कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि ॥ १३.२०८.३९ ॥
此为依种姓而立的法,以及业与其奉献。已对欲闻者宣说。你还想再听什么?
13.208.40
भगवन्देवदेवेश नमस्ते वृषभध्वज ।
श्रोतुमिच्छाम्यहं देव धर्ममाश्रमिणां विभो ॥ १३.२०८.४० ॥
世尊,诸神之主,以牛旗为标志者,敬礼于你。神啊,大能者,我愿闻住于诸行住期者的法。
13.208.41
तथाऽऽश्रमगतं धर्मं शृणु देवि समाहिता ।
आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः ॥ १३.२०८.४१ ॥
那么,女神啊,请以专注之心听取与诸行住期相关的法,即知梵者所行之诸行住期之法。
13.208.42
गृहस्थः प्रवरस्तेषां गार्हस्थ्यं धर्ममाश्रितः ।
पञ्चयज्ञक्रियाशौचं दारतुष्टिरतन्द्रिता ॥ १३.२०८.४२ ॥
其中,家主最为殊胜,他依止家居之法:以行五祭而得清净,满足于妻子,并且不懈怠。
13.208.43
ऋतुकालाभिगमनं दानयज्ञतपांसि च ।
अविप्रवासस्तस्येष्टः स्वाध्यायश्वाग्निपूर्वकम् ॥ १३.२०८.४३ ॥
在适当季节亲近妻子,行布施、祭祀与苦行;对他而言,不离家远行是所规定的,并以火为先而诵习吠陀。
13.208.44
अतिथीनामाभिमुख्यं शक्त्या चेष्टनिमन्त्रणम् ।
अनुग्रहश्च सर्वेषां मनोवाक्कायकर्मभिः ॥ १३.२०८.४४ ॥
面向宾客迎接,依自己的能力邀请他们享用所喜之食,并以意、语、身的行为对一切人施以恩惠。
13.208.45
एवमादि शुभं चान्यत्कुर्यात्तद्वृत्तिमान्गृही ।
एवं सञ्चरतस्तस्य पुण्यलोका न संशयः। ॥ १३.२०८.४५ ॥
如此等等及其他善行,依此行持的家主应当去做。如此行持的人,必有福德之世界,这毫无疑问。
13.208.46
तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः ॥ १३.२०८.४६ ॥
同样,林居者的永恒之法也已被宣说。
13.208.47
गृहवासं समुत्सृकज्य निश्चित्यैकमनाः शुभैः ।
वन्यैरेव तदाहारैः वर्तयेदिति च स्थितिः ॥ १३.२०८.४७ ॥
舍弃居家生活,专一其心而决定,只以那些吉祥的林中食物为生——这便是常规。
13.208.48
भूमिशय्या जटाश्मश्रुचर्मवल्कलधारणम् ।
देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम् ॥ १३.२०८.४८ ॥
睡在地上,戴着纠结的发、胡须,穿兽皮和树皮衣,尊敬神明与客人,并以大苦行誓愿来供奉。
13.208.49
अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते ।
ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः।
एवं स विगते प्राणे देवलोके महीयते ॥ १३.२०८.४९ ॥
对他而言,应每日于三时行火祭。梵行、忍耐与清净是他的永恒法。如此,当生命离去后,他在天界受到尊崇。
13.208.50
यतिधर्मास्तथा देवि गृहांस्त्यक्त्वा यतस्ततः ।
आकिञ्चन्यमनारम्भः सर्वतः शौचमार्जवम् ॥ १३.२०८.५० ॥
女神啊,同样,遗世者的法则是:舍弃居所,四处游行,一无所有,不作事务,各方面清净与正直。
13.208.51
सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम् ।
सदा ध्यानपरत्वं च देहशुद्धिः क्षमा दया।
तत्वानुगतबुद्धित्वं तस्य धर्मविधिर्भवेत् ॥ १३.२०८.५१ ॥
处处乞食,处处无固定居所地居住,常常专注于禅定,身体清净,忍耐与慈悲,心意契合真理——这应当是他法的准则。
13.208.52
ब्रह्मचारी च यो देवि जन्मप्रभृति भिक्षितः ।
ब्रह्मचर्यपरो भूत्वा साधयेद्गुरुमात्मनः।
सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत् ॥ १३.२०८.५२ ॥
女神啊,从出生起便以乞食为生的梵行学生,应专注于梵行,为自身之利而侍奉其师,并于一切时、一切处恭敬供养上师。
13.208.53
भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम् ।
स्वाध्यायः सततं तस्य एष धर्मः सनातनः ॥ १३.२०८.५३ ॥
乞食为生,行火祭之事,常在水中沐浴,不断诵读经典——这便是他永恒的法。
13.208.54
तस्य चेष्टा तु गुर्वर्थमाप्राणान्तमिति स्थितिः ।
गुरोरभावे तत्पुत्रे गुरुवद्वृत्तिमाचरेत् ॥ १३.२०८.५४ ॥
其行为应为师长之利益,直至生命终结,此为定则。师长不在时,应对其子如对师长一般行事。
13.208.55
एवं सोप्यमलाँल्लोकान्ब्राह्मणः प्रतिपद्यते ।
एष ते कथितो देवि धर्मश्चाश्रमवासिनाम् ॥ १३.२०८.५५ ॥
如此,那位婆罗门也能得到清净的世界。女神啊,这便是住于诸生活阶段者的法,我已向你宣说。
13.208.56
चतुर्णामाश्रमो युक्तो लोक इत्येव विद्यते ।
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ १३.२०८.५६ ॥
四个生活阶段被认为同属一个世界。已向你简要宣说,你还想听什么?