Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.210

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.210.1

भगवन्देवदेवेश तेषां कर्मफलं प्रभो ।
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद ॥ १३.२१०.१ ॥

尊贵的神中之神啊,主啊,我愿听闻他们行为的果报。神啊,赐予恩惠者,凭您的慈恩。

13.210.2

वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये ॥ १३.२१०.२ ॥

爱妻啊,请听林居者阶段一切行为的成熟果报。

13.210.3

अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम् ।
रुद्रलोकेऽभिजायेत विधिदृष्टेन कर्मणा ॥ १३.२१०.३ ॥

夏季修习火的戒行,此后十二年,依规定所行之业,便生于楼陀罗界。

13.210.4

उपवासव्रतं कुर्वन्वर्षाकाले दृढव्रतः ।
सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम् ॥ १३.२१०.४ ॥

雨季持守断食之戒,坚定其戒者,便生于月神界十二年。

13.210.5

काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम् ।
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते ॥ १३.२१०.५ ॥

如木柴般持守沉默,人十二年间到达风神界,在那里与享受相合。

13.210.6

कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः ।
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश ॥ १३.२१०.६ ॥

圣者卧于混杂吉祥草与碎石的裸地上,便生于夜叉界一万四千年。

13.210.7

वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् ।
वीरासनगतो यस्तु कण्टकाफलकाश्रितः।
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम् ॥ १३.२१०.७ ॥

若人十二年间享受诸般乐事,以英雄坐姿端坐,依倚荆棘之板,便将生于乾闼婆之中。

13.210.8

वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम् ।
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः ॥ १३.२१०.८ ॥

若人十二年间以英雄站姿高举双臂,便将生于天界,具足天上的诸般乐事。

13.210.9

पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः ।
इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश। ॥ १३.२१०.९ ॥

若人调伏诸根,以一足大趾立身,高举双臂,便将在因陀罗界中受生十四千年。

13.210.10

आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् ।
नागलोकेऽभिजायेत संवत्सरगणान्बहून् ॥ १३.२१०.१० ॥

贤者若立下节食之戒,持守十二年,便将在龙界中受生,经历多个年岁。

13.210.11

एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः ।
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः ॥ १३.२१०.११ ॥

如是,女神啊,持守坚定誓愿的林栖者,凭其所为,便居于彼处各自的住所,各自享受其乐。

13.210.12

तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः ।
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः ॥ १३.२१०.१२ ॥

女神啊,从彼等世界堕落者,复又生于人间,成为享受者,生于最高种姓之家,具足财富与谷物。

13.210.13

एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२१०.१३ ॥

女神啊,这些已经告诉你了。你还想听什么?

13.210.14

एषां यथा वराणां तु धर्ममिच्छामि मानद ।
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर ॥ १३.२१०.१४ ॥

赐人荣誉者啊,我想知道这些至善者的法。怀着至高的慈悲,大主啊,请告诉我。

13.210.15

धर्मं यथा वराणां त्वं शृणु भामिनि तत्परा ॥ १३.२१०.१५ ॥

美丽的女子啊,专心听这些至善者的法。

13.210.16

व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः ।
धृतिमन्तःक क्षमायुक्ताः सत्यव्रतपरायणाः ॥ १३.२१०.१६ ॥

身体以誓愿和斋戒而洁净,专心于圣渡口沐浴,坚定、具足忍辱,并专注于真实之誓。

13.210.17

पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः ।
वर्षैः शीतातपैश्चैव कुर्वन्तः परमं तपः ॥ १३.२१०.१७ ॥

以半月、整月的斋戒而消瘦,他们是洞见法者,多年践行至高的苦行,忍受寒暑。

13.210.18

कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते ।
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः ॥ १३.२१०.१८ ॥

纯净微笑的女子啊,随着时日,他们前往因陀罗的世界,在那里享有福乐,并被神圣的香气所围绕。

13.210.19

दिव्यभूषणसंयुक्ता विमानवरसंयुताः ।
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२१०.१९ ॥

身佩天界饰物,乘坐殊胜天车,伴随天女群体,随意游行。女神,这已告诉你了。你还想听什么?

13.210.20

तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो ॥ १३.२१०.२० ॥

主啊,我确实想知道那些轮行者的法。

13.210.21

हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे ॥ १३.२१०.२१ ॥

好吧,我将告诉你。听着,吉祥者,关于车夫的法。

13.210.22

संवहन्तो धुरं दानैः शकटानां तु सर्वदा ।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया ॥ १३.२१०.२२ ॥

常以布施承负车轭,适时乘车,以乞食之行求乞。

13.210.23

तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः ।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः ॥ १३.२१०.२३ ॥

专心以苦行积功,坚毅,以苦行消除罪垢,遍游四方,离欲离嗔。

13.210.24

तेनैव कालयोगेन त्रिदिवं यान्ति शोभने ।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम् ॥ १३.२१०.२४ ॥

随着时间的推移,光彩照人者啊,他们升往天界,在那里欢乐于享受,随意游行。

13.210.25

एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२१०.२५ ॥

女神啊,这些已经告诉你了。你还想听什么?

13.210.26

वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो ॥ १३.२१०.२६ ॥

主啊,我想听听维卡纳萨人的法。

13.210.27

ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे ।
तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा।
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः ॥ १३.२१०.२७ ॥

他们是名为维卡纳萨的林居者,美目的女神啊,具有严酷的苦行,以自身的光辉熠熠生辉,专心于真实的誓愿,坚定不移;他们的苦行纯净无垢。

13.210.28

अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा ।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे ॥ १३.२१०.२८ ॥

有些人用石头捣碎,有些人以牙齿作臼;同样,有些人食用落叶,另一些人以拾取遗穗为生。

13.210.29

कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः ।
पशुप्रचारनिरताः फेनपाश्च तथा परे ॥ १३.२१०.२९ ॥

有些人过着鸽子般的生活,另一些人则以鸽子的方式为生;有些人专心放牧牛羊,另一些人饮用泡沫。

13.210.30

मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे ।
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च ॥ १३.२१०.३० ॥

有些人像鹿一样过鹿的生活而游行;同样,另一些人以水为食,以风为食,或者绝食。

13.210.31

केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम् ।
सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः।
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः ॥ १३.२१०.३१ ॥

有些人敬拜真实毗湿奴的双足,作最高的供养;他们摆脱疾病与死亡,修行严酷的苦行。出于自愿,他们时常使死亡感到畏惧。

13.210.32

इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः ।
अमरैः समतां यान्ति देववद्भोगसंयुताः ॥ १३.२१०.३२ ॥

在因陀罗的世界里,也为他们创造了享乐的积聚;他们拥有享受,如同诸神一般,与不死者平等。

13.210.33

वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते ।
एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२१०.३३ ॥

与殊胜的天女相伴,他们长久安住。无瑕的天神啊,这已告诉你了。你还想再听什么?

13.210.34

भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् ॥ १३.२१०.३४ ॥

尊贵的主啊,我愿听闻瓦拉希利亚们的事迹,他们以苦行为财富。

13.210.35

धर्मचर्यां तथा देवि वालखिल्यगतां शृणु ॥ १३.२१०.३५ ॥

女神啊,也请听瓦拉希利亚们的法行。

13.210.36

मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः ।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संश्रिताः ॥ १३.२१०.३६ ॥

身披鹿皮,超越对立之偶,以苦行为财富,他们只有拇指大小,美臀的女神啊,他们便居于那些肢体之中。

13.210.37

उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः ।
भास्करस्येव किरणैः सहसा यान्ति नित्यदा।
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः ॥ १३.२१०.३७ ॥

他们常以种种颂歌赞美升起的太阳,如日光般忽然经过,照亮所有方位。他们精通法,言语真实。

13.210.38

तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् ।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात् ॥ १३.२१०.३८ ॥

纯净的真理唯在他们之中,为世间之利而确立。女神啊,这世界正是依靠他们苦行的力量而得以维持。

13.210.39

महात्मनां तु तपसा सत्येन च शुचिस्मिते ।
क्षमया च महाभागे भूतानां संस्थितिं विदुः ॥ १३.२१०.३९ ॥

微笑纯净的女神啊,通过大德者的苦行、真实与忍耐,人们知晓众生得以安立。大福的女神啊。

13.210.40

प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः ।
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत् ॥ १३.२१०.४० ॥

为了子嗣,也为了世界,大德者行苦行。凭苦行得一切,凭苦行得果报。世间难得之物,也正是凭苦行而得。

13.210.41

पञ्चभूतार्थतत्वे च लोकसृष्टिविर्धनम् ।
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम् ॥ १३.२१०.४१ ॥

在五大元素的本义与本质之中,在世界的创造与维持之中——这一切,简言之,皆由苦行的结合所成就。

13.210.42

तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये ।
धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये ॥ १३.२१०.४२ ॥

因此这群仙人口中念着“苦行,苦行”,亲爱的,他们求索法,总是努力修行苦行。亲爱的。

13.210.43

अमरत्वं शिवत्वं च तपसा प्रापयेत्सदा ।
एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये।
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया ॥ १३.२१०.४३ ॥

通过苦行,人总能获得不死与湿婆的境界。爱人啊,你所听到的一切,我都已告诉你了,乃是为了使仙人众欢喜,并为众生的福祉而说。

13.210.44

एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः ।
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे ॥ १३.२१०.४४ ॥

当天神之主如此说时,仙人们也赞颂他;从那时起,他们开始去做更为殊胜的事。