摩诃婆罗多 · 章 13.212
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.212.1
देवदेव नमस्तुभ्यं त्र्यक्ष भो वृषभध्वज ।
श्रुतं मे भगवन्सर्वं त्वत्प्रसादान्महेश्वर ॥ १३.२१२.१ ॥
神中之神,三眼者,以牛为旗者,向你致敬。世尊,大自在天,蒙你恩典,我已听闻一切。
13.212.2
सङ्गृहीतं मया तच्च तव वाक्यमनुत्तमम् ।
इदानीमस्ति संदेहो मानुषेष्विह कश्चन ॥ १३.२१२.२ ॥
你那无上的教导我已领受。如今关于人间,还有某些疑惑。
13.212.3
तुल्यप्राणशिरःकायो राजाऽयमिति मृश्यते ।
केन कर्मविपाकेन सर्वप्राधान्यमर्हति ॥ १३.२१२.३ ॥
与他人同样有生命之气、头与身体,然而此人被视为国王。因何种业报,他才配享有凌驾于一切之上的尊位?
13.212.4
स चापि दण्डयन्मर्त्यान्भर्त्सयन्विधमन्नपि ।
प्रेत्यभावे कथं लोकाँल्लभते पुण्यकर्मणा।
राजवृत्तमहं तस्माच्छ्रोतुमिच्छामि मानद ॥ १३.२१२.४ ॥
他惩罚众人、斥责众人,有时甚至违背常规。那么死后他凭善业如何得到诸天界?因此,给予尊荣者啊,我想听闻国王的行为之道。
13.212.5
तदहं ते प्रवक्ष्यामि राजधर्मं शुभानने ॥ १३.२१२.५ ॥
因此,美颜者啊,我将为你宣说王法。
13.212.6
राजायत्तं हि यत्सर्वं लोकवृत्तं शुभाशुभम् ।
महतस्तपसो देवि फलं राज्यमिति स्मृतम् ॥ १३.२१२.६ ॥
世间一切善恶行为都取决于国王。女神啊,王权被认为是大苦行的果报。
13.212.7
तपोदानमयं राज्यं परं स्थानं विधीयते ।
तस्माद्राज्ञः सदा मर्त्याः प्रणमन्ति यतस्ततः ॥ १३.२१२.७ ॥
以苦行与布施构成的王权被确立为至上之位;因此世人无论身在何处,总向国王致敬。
13.212.8
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ।
तस्मात्तस्यैव चरितं जगत्पथ्यं शृणु प्रिये ॥ १३.२१२.८ ॥
你理所应当地想听,啊有大福之人;所以请听他的行为,那对世界有益,亲爱的。
13.212.9
अराजके पुरा त्वासीत्प्रजानां सङ्कुलं महत् ।
तदृष्ट्वा सङ्कुलं ब्रह्मा मनुं राज्ये न्यवेदयत्।
तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम् ॥ १३.२१२.९ ॥
往昔无王之时,民众陷入极大的混乱。梵天见此混乱,便委任摩奴治理王权;自那时起,人们便观察国王的善行与恶行。
13.212.10
तन्मे शृणु वरारोहे तस्य पथ्यं जगद्धितम् ।
यथा प्रेत्य लभेत्स्वर्गं यथा वीर्यं यशस्तथा ॥ १३.२१२.१० ॥
美腰之人啊,请听我说那对世界有益的正道:死后如何得到天界,也如何获得勇力与声名。
13.212.11
पित्र्यं वा भूतपूर्वं वा स्वयमुत्पाद्य वा पुनः ।
राज्यधर्ममनुष्ठाय विधिवद्भोक्तुमर्हति ॥ १३.२१२.११ ॥
无论是父系传承的,还是往昔所拥有的,或是自己努力重新获得的王位——国王只有依法履行王道之后,才配享有王国。
13.212.12
आत्मानमेव प्रथमं विनयैरुपपादयेत् ।
अनु भृत्यान्प्रजाः पश्चादित्येष विनयक्रमः ॥ १३.२१२.१२ ॥
首先应当以谦抑来端正自身;其次是侍从,再次是民众——这便是谦抑的次第。
13.212.13
स्वामिनं चोषमां कृत्वा प्रजास्तद्वृत्तकाङ्क्षया ।
स्वयं विनयसम्पन्ना भवन्तीह शुभेक्षणे ॥ १३.२१२.१३ ॥
以君王为范,渴望其德行,臣民自己便成为具有谦逊之德的人,美目者啊。
13.212.14
स्वस्मात्पूर्वतरा राजा विनयत्येव वै प्रजाः ।
अपहास्यो भवेत्तादृक्स्वदोषस्यानवेक्षणात् ॥ १३.२१२.१४ ॥
君王应先自我约束,然后才约束臣民;这样的君王若不审视自己的过失,便会成为笑柄。
13.212.15
विद्याभ्यासैर्वृद्धयोगैरात्मानं विनयं नयेत् ।
विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः ॥ १३.२१२.१५ ॥
应当以学习和亲近长者来使自己守礼;学问结出法与利的果实,知晓它的人才被称为长者。
13.212.16
इन्द्रियाणां जयो देवि अत ऊर्ध्वमुदाहृतः ।
अजये सुमहान्दोषो राजानं विनिपातयेत् ॥ १३.२१२.१६ ॥
女神啊,此后当宣说降伏诸根;不能降伏,便是大过,会使君王倾覆。
13.212.17
पञ्चैव स्ववशे कृत्वा तदर्थान्पञ्च शोषयेत् ।
षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च।
सास्त्रचक्षुर्नयपरो भूत्वा भृत्यान्समाहरेत् ॥ १३.२१२.१७ ॥
使五根归于己,令五境枯竭;适当舍弃第六,以智慧与谦逊,以典籍为眼,专心于政略,然后召集臣仆。
13.212.18
वृत्तश्रुतकुलोपेतानुपधाबिः परीक्षितान् ।
अमात्यानुपधातीतान्सोपसर्पाञ्जितेन्द्रियान्।
योजयेत यथायोगं यथार्हं स्वेषु कर्मसु ॥ १३.२१२.१८ ॥
应任用品行、学问、门第兼备,经考验而可信,超越考验,亲近而自制的大臣,各按其德,各任其职。
13.212.19
अमात्या बुद्धिसम्पन्ना राष्ट्रं बहुजनप्रियम् ।
दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः ॥ १३.२१२.१९ ॥
聪慧的大臣、为众人所爱的国家、难以攻破的最佳城市,以及能承受艰难的府库——这些被称说。
13.212.20
अनुरक्तं बलं साम्नामद्वैधं मन्त्रमेव च ।
एताः प्रकृतयः स्वेषु स्वामी विनयतत्ववित्। ॥ १३.२१२.२० ॥
忠诚的军队、和解之策的无二心、谋略——这些是国家的要素;通晓谦逊之道的君主应在自己的国中守护它们。
13.212.21
प्रजानां रक्षणार्थाय सर्वमेतद्विनिर्मितम् ।
आभिः करणभूताभिः कुर्याल्लोकहितं नृपः ॥ १३.२१२.२१ ॥
这一切都是为保护臣民而设立的;君王应借这些工具来促进世界的福祉。
13.212.22
आत्मरक्षा नरेन्द्रस्य प्रजारक्षार्थमिष्यते ।
तस्मात्सततमात्मानं संरक्षेदप्रमादवान् ॥ १३.२१२.२२ ॥
君王自保是为了保护臣民;因此他应当时刻警惕地守护自己。
13.212.23
भोजनाच्छादनस्नानाद्बहिर्निष्क्रमणादपि ।
नित्यं स्त्रीगणसंयोगाद्रक्षेदात्मानमात्मवान् ॥ १३.२१२.२३ ॥
无论饮食、衣着、沐浴,甚至外出,以及时常与众多女子交往,自律之人都应守护自己。
13.212.24
स्वेभ्यश्चैव परेभ्यश्च शश्त्रादपि विषादपि ।
सततं पुत्रदारेभ्यो रक्षेदात्मानमात्मवान् ॥ १३.२१२.२४ ॥
无论来自亲人还是外人,甚至来自兵器与毒药,以及时常来自儿子与妻子,自律之人都应守护自己。
13.212.25
सर्वेभ्य एव स्थानेभ्यो रक्षेदात्मानमात्मवान् ।
प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत् ॥ १३.२१२.२५ ॥
自制之人应在一切位置上守护自身;为保护臣民,他当成为增进臣民福祉之人。
13.212.26
प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम् ।
प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजाहितम्।
प्रजार्तं तस्य सर्वस्वमात्मार्थं न विधीयते। ॥ १३.२१२.२६ ॥
臣民之事即是他之事,臣民之乐即是他之乐;臣民所爱即是他所爱,臣民之利即是他自身之利。臣民之苦即是他的全部所有;此并非为他自己的私利而设。
13.212.27
प्रकृतीनां हि रक्षार्थं रागद्वेषौ व्युदस्य च ।
उभयोः पक्षयोर्वादं श्रुत्वा चैव यथातथम्।
तमर्थं विमृशेद्बुद्ध्या स्वयमातत्वदर्शनात् ॥ १३.२१२.२७ ॥
为保护臣民,除去爱憎,如实听取双方的辩论,应以自己的智慧亲自审察此事,通过观见自我的真实。
13.212.28
तत्वविद्भिश्च बहुभिर्वृद्धैः सह नरोत्तमैः ।
कर्तारमपराधं च देशकालौ नयानयौ ॥ १३.२१२.२८ ॥
与许多通晓真理的长者及上等人一同,应考虑行为者、过错、地点与时间,以及正当与不正当之行。
13.212.29
ज्ञात्वा सम्यग्यथाशास्त्रं ततो दण्डं नयेन्नृषु ।
एवं कुर्वंल्लभेद्धर्मं पक्षपातविवर्जनात् ॥ १३.२१२.२९ ॥
依据典籍善加了知之后,应以善策对人施加刑罚。如此行事,避免偏私,便可获得法。
13.212.30
प्रत्यक्षाप्तोपदेशाभ्यामनुमानेन वा पुनः ।
बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम् ॥ १३.२१२.३० ॥
国王应当通过亲身观察、可信之人的教导,或推断,经常了解国内的善行与恶行。
13.212.31
चारैः कर्मप्रवृत्त्या च तद्विज्ञाय विचारयेत् ।
अशुभं निर्हरेत्सद्यो जोषयेच्छुभमात्मनः ॥ १३.२१२.३१ ॥
通过间谍及事务的发展了解之后,应加以思量;应立即除去恶事,并为自己培养善事。
13.212.32
गर्ह्यान्विगर्हयेदेव पूज्यान्सम्पूजयेत्तथा ।
दण्ड्यांश्च दण्डयेद्देवि नात्र कार्या विचारणा ॥ १३.२१२.३२ ॥
应当责备那些应受责备的人,尊敬那些应受尊敬的人;应惩罚那些应受惩罚的人,女神啊——此事无需犹豫。
13.212.33
पञ्चावेक्षन्सदा मन्त्रं कुर्याद्बुद्धियुतैर्नरैः ।
कुलवृत्तश्रुतोपेतैर्नित्यं मन्त्रपरो भवेत् ॥ १३.२१२.३३ ॥
审视五者之后,应当经常与有智慧的人商议;应当经常专心与出身良好、品行端正、学识渊博的人商议。
13.212.34
कामकारेण वै मुख्यैर्न च मन्त्रमना भवेत् ।
राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत् ॥ १३.२१२.३४ ॥
不应凭个人意愿与重臣商议;国王应顾念国家的福祉,使人们履行真实与正法的职责。
13.212.35
सर्वोद्योगं स्वयं कुर्याद्दुर्गादिषु सदा नृषु ।
देशवृद्धिकरान्भृत्यानप्रमादेन कारयेत् ॥ १३.२१२.३५ ॥
国王自己应始终在城堡等处主持一切事务;应使那些增进国家繁荣的仆役不懈怠地工作。
13.212.36
देशक्षयकरान्सर्वानप्रियांश्च विवर्जयेत् ।
अहन्यहनि सम्पश्येदनुजीविगणं स्वयम् ॥ १३.२१२.३६ ॥
应当远离所有使国家衰败之人和令人不悦之人。国王自己应每日仔细察看依靠他生活的众人。
13.212.37
सुमुखः सुप्रियो दत्त्वा सम्यग्वृत्तं समाचरेत् ।
अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति ॥ १३.२१२.३७ ॥
应以和悦的面容、受众人喜爱,好好地行事端正。不应说不义、粗暴、尖刻的话。
13.212.38
असंविश्वास्य वचनं वक्तुं सत्सु न चार्हति ।
नरेनरे गुणान्दोषान्सम्यग्वेदितुमर्हति ॥ १३.२१२.३८ ॥
不应在善人之中说令人生疑的话。每个人的优点和缺点都应当仔细了解。
13.212.39
स्वेङ्गितं वृणुयाद्धैर्यं न कुर्यात्क्षुद्रसंविदम् ।
परेङ्गितज्ञो लोकेषु भूत्वा संसर्गमाचरेत् ॥ १३.२१२.३९ ॥
应隐藏自己的神态并保持坚定,不做琐碎的约定。懂得他人神色的人,应当与众人交往。
13.212.40
स्वतश्च परतश्चैव परस्परभयादपि ।
अमानुषभयेभ्यश्च स्वाः प्रजाः पालयेन्नृपः ॥ १३.२१२.४० ॥
国王应保护自己的臣民,使其免受内部与外部之害、彼此相互之惧,以及非人的危险。
13.212.41
लुब्धाः कठोराश्चाप्यस्य मानवा दस्युवृत्तयः ।
निग्राह्या एव ते राज्ञा सङ्गृहीत्वा यतस्ततः ॥ १३.२१२.४१ ॥
贪婪、残酷、行为如盗匪的人,国王必须将他们从各处抓获并加以约束。
13.212.42
कुमारान्विनयोद्बोधैर्जन्मप्रभृति योजयेत् ।
तेषामात्मगुणोपेतं यौवराज्येन योजयेत् ॥ १३.२१२.४२ ॥
国王应从出生起以谦逊与警觉的教诲培养诸子,并任命具备自身德性的人为太子。
13.212.43
प्रकृतीनां यथा न स्याद्राज्यभ्रंशो भवेद्भयम् ।
एतत्संचिन्तयेन्नित्यं तद्विधानं तथार्हति ॥ १३.२१२.४३ ॥
为使臣民之间不致国家倾覆、民生惶恐,国王应时常思虑此事,并相应地作出安排。
13.212.44
अराजकं क्षणमपि राज्यं न स्याद्धि शोभने ।
आत्मनोऽनुविधानाय यौवराज्यं सदेष्यते ॥ १३.२१२.४४ ॥
美人啊,国家即使片刻也不可无君。太子之位总是被期望设立,以使自己的统治得以延续。
13.212.45
कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम् ।
अन्येषां वृत्तियुक्तानां विशेषं कर्तुमर्हति ॥ १३.२१२.४५ ॥
国王应对出身良好者、医师、精通吠陀的学者、苦行者以及其他各守其业者予以特别的尊重。
13.212.46
आत्मार्थं राज्यतन्त्रार्थं कोशार्थं च समाचरेत् ।
दुर्गाद्राष्ट्रात्समुद्राच्च वणिग्भ्यः पुरुषात्ययात् ॥ १३.२१२.४६ ॥
国王为自身、为国家机器、为国库,应当行事:依人力劳作之多寡,从城堡、国土、海上及商人处征收赋税。
13.212.47
परात्मगुणसाराभ्यां भृत्यपोषणमाचरेत् ।
वाहनानां प्रकुर्वीत पोषणं योधकर्मसु ॥ १३.२१२.४७ ॥
审视他人与自身德性之精华后,应当供养仆从;并应为战事所用的车马提供饲养。
13.212.48
सादरः सततं भूत्वा अवेक्षाव्रतमाचरेत् ।
चतुर्दा विभजेत्कोशं धर्मभृत्यात्मकारणात् ॥ १३.२१२.४८ ॥
常怀敬意,应持守审慎观察的誓愿,将国库分为四份:用于法、用于仆从,以及用于自身。
13.212.49
आपदर्थं च नीतिज्ञो देशकालवशेन तु ।
अनाथान्व्यथितान्वृद्धान्स्वे देशे पोषयेन्नृपः ॥ १३.२१२.४९ ॥
通晓政道的国王,为应对灾难,依据地点与时机,应在自己的国土内供养无依者、困苦者和年老者。
13.212.50
सन्धिं च विग्रहं चैव तद्विशेषांस्तथा पारन् ।
यथावत्संविमृश्यैव बुद्धिपूर्वं समाचरेत् ॥ १३.२१२.५० ॥
在审慎考虑和平与战争、它们的区别与结果之后,应以深思的智慧行事。
13.212.51
सर्वेषां सम्प्रियो भूत्वा मण्डलं सततं चरेत् ।
शुभेष्वपि च कार्येषु च चैकान्तः समाचरेत् ॥ १३.२१२.५१ ॥
为众人所爱戴,应时常照料诸盟邦的圈子;即使在吉祥之事上,也应专心一意地行事。
13.212.52
स्वतश्च परतश्चैव व्यसनानि विमृश्य सः ।
परेणि धार्मिकान्योगान्नातीयाद्द्वेषलोभतः ॥ १३.२१२.५२ ॥
思量自身与他人所生的灾难之后,不应因仇恨或贪欲而越过敌人正当的谋划。
13.212.53
रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस्तु रक्षणम् ।
कुनृपैः पीडितास्तस्मात्प्रजाः सर्वत्र पालयेत् ॥ १३.२१२.५३ ॥
百姓之法在于得到保护,刹帝利之法在于守护。因此,当百姓受恶王欺压时,应当处处加以守护。
13.212.54
यात्राकालेऽनवेक्ष्यैव पश्चात्कोपफलोदयः ।
तद्युक्ताश्चापदश्चैव शासनादिति चिन्तयेत् ॥ १३.२१२.५४ ॥
出征之时若不审慎,事后便会结出愤怒的恶果,并伴随相应的灾祸——应依王命如此思量。
13.212.55
व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोपि वा ।
प्रायशो वर्जयेद्युद्धं प्राणरक्षणकारणात् ॥ १३.२१२.५५ ॥
应以良策或耗费来保护兵力免受灾难;为护卫生命,多应避免战争。
13.212.56
कारणादेवि योद्धव्यं नात्मनः परदोषतः ।
सुयुद्धे प्राणमोक्षश्च तस्य धर्माय इष्यते ॥ १३.२१२.५६ ॥
只为正当理由而战,不为自己私利,也不因他人过失;在正义之战中,舍身被视为其法义。
13.212.57
अभियुक्तो बलवता कुर्यादापद्विधिं नृपः ।
अनुनीय तथा सर्वान्प्रजानां हितकारणात् ॥ १३.२१२.५७ ॥
君王遭强敌攻击时,应依危难之法行事;为民众之利,应以此法安抚所有人。
13.212.58
अन्यप्रकृतियुक्तानां राज्ञां वृत्तिविचारिणाम् ।
अन्यांश्चापत्प्रपन्नानां न तान्संयोक्तुमर्हति ॥ १३.२१२.५८ ॥
与他种本性相连、权衡自身生计的诸王,以及陷入危难的其他人,不宜与之结为同盟。
13.212.59
शुभाशुभं यदा देवि व्रतं तूभयसाधनम् ।
आत्मैव तच्छुभं कुर्यादशुभं योजयेत्परान्। ॥ १३.२१२.५९ ॥
女神啊,当誓愿既可成就善也可成就恶时,应使自己行善,而将恶加于他人。
13.212.60
एवमुद्देशतः प्रोक्तमलेपत्वं यथा भवेत् ।
एष देवि समासेन राजधर्मः प्रकीर्तितः ॥ १३.२१२.६० ॥
如此,已概要说明如何能够保持无染。女神啊,这就是简要宣说的王法。
13.212.61
एवं संवर्तमानस्तु दण्डयन्भर्त्सयन्प्रजाः ।
निष्कल्मषमवाप्नोति पद्मपत्रमिवाम्भसा ॥ १३.२१२.६१ ॥
如此行事,惩罚并训诫臣民的君王,便得无染,如同莲叶不被水沾湿。
13.212.62
एवं संवर्तमानस्य कालधर्मो यदा भवेत् ।
स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते ॥ १३.२१२.६२ ॥
当如此行事之人迎来死亡之时,君王便在天界与诸神一同欢喜。
13.212.63
द्विविधं राज्यवृत्तं च न्यायभाग्यसमन्वितम् ।
एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे ॥ १३.२१२.६३ ॥
王者之行有二,兼具公正与福运。美目者啊,依于公正的行为已向你宣说。
13.212.64
राज्यं न्यायानुगं तात बुद्धिशास्त्रानुगं भवेत् ।
धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत् ॥ १३.२१२.६४ ॥
王权,亲爱的,应当合乎公正,合乎智慧与经典。那样,它便合于法、有益、带来名声,并通往天界。
13.212.65
राज्यं भाग्यानुगं नाम अयथावत्प्रदृश्यते ।
तत्तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत्।
अधर्म्यमयशस्यं च दुरन्तं च भवेद्ध्रुवम् ॥ १३.२१२.६५ ॥
只随运势而行的王权显得不当。脱离经典,它会使善人愤怒;它不合法,有损名誉,且必定有悲惨的结局。
13.212.66
यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः ।
तत्र भाग्यवशाद्भृत्या लभन्ते न विशेषतः ॥ १३.२१२.६६ ॥
在君王随心所欲行事之处,仆从因命运所左右,并不能得到特别的什么。
13.212.67
यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः ।
यत्र सन्तोपि हन्यन्ते तत्र भाग्यानुगं भवेत् ॥ १३.२१२.६७ ॥
凡应受罚者不受罚,卑劣之人反受尊崇,而善人也遭杀戮之处,一切便都随顺命运。
13.212.68
शुभाशुभं यथा यत्र विपरीतं प्रदृश्यते ।
राज्ञि चासुरपक्षे तु तत्र भाग्यानुगं भवेत् ॥ १३.२१२.६८ ॥
善与恶颠倒显现,国王站在阿修罗一边之处,那里也一切随顺命运。
13.212.69
भाग्यानुगे तु राजानो वर्तमाना यथातथा ।
प्राप्याकीर्तिमनर्थं च इह लोके शुभेक्षणे ॥ १३.२१२.६९ ॥
美目之人啊,国王受命运所左右,随意行事,便在此世得到耻辱与灾祸。
13.212.70
परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम् ।
तिष्ठन्ति नरके देवि प्रलयान्तादिति स्थितिः ॥ १३.२१२.७० ॥
女神啊,在来世达到极其可怖、难以渡过的黑暗之中,他们直到劫末都留在地狱;这便是既定的秩序。
13.212.71
मोक्षं दुष्कृतिनां चापि विद्यते कालपर्ययात् ।
नास्त्येव मोक्षणं देवि राज्ञां दुष्कृतिकारिणाम् ॥ १३.२१२.७१ ॥
作恶之人经过时日也有解脱;但女神啊,作恶的国王却确实没有解脱。
13.212.72
एतत्सर्वं समासेन राजवृत्तं शुभाशुभम् ।
कथितं ते महाभागे भूयः श्रोतुं किमिच्छसि ॥ १३.२१२.७२ ॥
大福的女子啊,关于君王的善行与恶行,这些已经为你简要讲述。你还想再听什么?